________________ णय 1876 - अमिधानराजेन्द्रः भाग - 4 णय (17) सिद्धसेनीयाः पुनः षमेव नयानभ्युपगवन्तः, नैगमस्य संग्रहस्य संग्रहव्यवहारयोरन्तर्भावविवक्षणात् / तथाहि-यदा नैगमः सामान्यप्रतिपत्तिपरस्तदा संग्रहेऽन्तर्भवति, सामान्याभ्युपगमपरत्वात्। विशेषाभ्युपगमनिष्टस्तु व्यवहारे। आह च सिद्धसेनीयमतमुपसंजिघृक्षुर्भाष्यकृत्जो सामन्नग्गाही, स नेगमो संगहं गतो अहवा। इअरो ववहारमितो,जो तेण समाणनिद्देसो // 36 // आ० म०१ अ०१ खण्ड / विशे० / (नैगमाऽऽदीनां नयानां पृथक् पृथड् मतं स्वस्वस्थाने द्रष्टव्यम् ) (18) शुद्ध्यशुद्धी नयाना, प्रस्थकाऽऽदिदृष्टान्तश्चसे किं तं णयप्पमाणे? णयप्पमाणे तिविहे पण्णत्ते / तं जहापत्थगदिद्रुतेणं, वसहिदिटुंतेणं, पएसदिढतेणं / (से किं तं णयप्पमाणे इत्यादि) अनन्तधर्मणो वस्तुन एकांशेन नयनं नयः, स एव प्रमाणं नयप्रमाणं त्रिविधं प्रज्ञप्तमिति / यद्यपि नैगमसंग्रहाऽऽदिभेदतो बहवो नयाः, तथाऽपि प्रस्थकाऽऽदिदृष्टान्तत्रयेण सर्वेषामिह निरूपयितुमिष्टत्वात् त्रैविध्यमुच्यते। तथा चाऽऽह। तद्यथा-प्रस्थकदृष्टान्तेनेत्यादि प्रस्थकाऽऽदिदृष्टान्तत्रयेण हेतुभूतेन त्रिविधं नयप्रमाणं भवतीत्यर्थः। (16) प्रस्थकदृष्टान्तं दर्शयतिसे किं तं पत्थगदिटुंतेणं? पत्थगदिट्ठतेणं से जहानामए केइ पुरिसे परसुंगहाय अडवीसंमुहत्तो गच्छेज्जा, तं पासित्ता कोइ वएज्जा-कहिं भवं! गच्छसि ? अविसुद्धो नेगमो भणइ-पत्थयस्स गच्छामि। तं च कोइ छिंदमाणं पासित्ता वएग्जा-किं भवं ! छिंदसि? विसुद्धो नेगमो भणइ-पत्थयं छिंदामि / तं च कोइ तच्छमाणं पासित्ता वएज्जा-किं भवं तच्छसि ? विसुद्धतराओ णेगमो भणइ-पत्थयं तच्छामि। तं च कोइ उक्कीरमाणं पासित्ता वएजा-किं भवं ! उक्कीरसि ? विसुद्धतराओ णेगमो भणइपत्थयं उक्कीरामि / तं च कोइ लिहमाणं पासित्ता वएज्जा-किं भवं ! लिहसि? विसुद्धतराओ णेगमो भणइ-पत्थयं लिहामि। एवं विसुद्धतरणेगमस्स नामाउट्टिओ पत्थओ / एवामेव ववहारस्स वि संगहस्स मिउमेजसमारूढो पत्थओ। उज्जुसुयस्स पत्थओ विपत्थओ, मेजं पिपत्थओ, तिण्हं सद्दनयाणं पत्थयस्स अत्थाहिगारं जाणओ, जस्स वा वसेणं पत्थओ निप्फजइ, से तं पत्थयदिट्ठतेणं। तद् यथा नाम-कश्चित्पुरुषः परशुं कुठारं गृहीत्वा, अटवीसंमुखो गच्छेदित्यादि / इदमुक्तं भवति-प्रस्थको मागधदेशप्रसिद्धो धान्यमानविशेषः / तद्धेतुभूतकाष्ठकर्तनाय कुठारभ्यग्रहस्तं तक्षाऽऽदिपुरुषमटवीं गच्छन्तं दृष्ट्वा कश्चिदन्यो वदेत्त्-क्व भवान् गच्छति ? तत्राऽविशुद्धनै गमो भणति, अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरयतीत्यर्थः / किमित्याह-प्रस्थकस्य गच्छामि। इदमुक्तं भवतिनैको गमो वस्तुपरिच्छे दो यस्याऽपि तु बहवः, स निरुक्तवशात्ककारलोपतो नैगम उच्यते / अतो वद्यप्यत्र प्रस्थककारण भूतकाष्ठनिमित्तमेव गमनं, न तु प्रस्थकनिमित्तम् , तथाऽप्यनेकप्रकारवस्त्वभ्युपगमपरत्वात्कारणे कार्योपचारः / तथा व्यवहारदर्शनादेवमप्यभिधत्तेऽसौ-प्रस्थकस्य गच्छामि इति / तं च कश्चित् छिन्दन्तं वृक्षं पश्येद् , दृष्ट्वा च वदेत् किं भवाँछिनत्ति ? ततः प्राक्तनात्किचिद्विशुद्धनैगमनयमतानुसारी सन्नसौ भणति-प्रस्यक छिनमि। अत्रापि कारणे कार्योपचारात्तथा व्यवहतिदर्शनादेव काष्ठेऽपि छिद्यमाने प्रस्थकं छिनमीत्युत्तरं, केवलं काष्ठस्य प्रस्थकं प्रति कारणताभावस्याऽत्र किश्चिदासन्नत्वाद्विशुद्धत्वं प्रावयुनरतिव्यवहितत्वादमलीमसत्वम् एवं पूर्वपूर्वापक्षया यथोत्तरस्य विशु-द्धता भावनीया, नवरंतक्ष्णन्तं तनूकुर्वन्तम् , उत्किरन्तं वेधनकेन मध्याद्विकिरन्तं लेखन्या मृष्टं कुर्वाणम् / एवमेतेन प्रकारेण तावन्ने-यं यावद्विशुद्धतरनै गमस्य (नामाउट्टिओ ति) आकुट्टितनामा प्रस्थकोऽयमित्येवं नामाङ्कितो निष्पन्नः प्रस्थक इति / एवमेव व्यवहारस्याऽपीति लोकव्यवहारप्राधान्येन यो व्यवहारनयः, लोके च पूर्वोक्तावस्थासु सर्वत्र प्रस्थकव्यवहारो दृश्यते, अतो व्यवहारनयोऽप्येवमेव प्रतिपद्यते इति भावः / (संगहस्सेत्यादि) सामान्यरूपतया सर्व वस्तु संगृह्णाति क्रोडीकरोतीति संग्रहः, तस्य मतेन चिताऽऽदिविशेषणविशिष्ट एव प्रस्थो भवति, नान्यः। तत्र चितो धान्येन व्याप्तः। स च देशतोऽपि भवत्यत आहमितः पूरितः। अने-नैव प्रकारेण मेयं समारूढ यत्र स आहिताऽऽदेराकृतिगणत्वाद् मेयसमारूढः। अयमत्र भावार्थ:-प्राक्तननयद्यस्याऽविशुद्ध-त्वात्प्रस्थककारणमपि प्रस्थक उक्तो निष्पन्नः प्रस्थकोऽपिस्वकार्याकरणकालेऽपि प्रस्थक इष्टः, अस्य तु ततो विशुद्ध-त्वाद्धान्यमानलक्षणं स्वार्थं कुर्वन्नेव प्रस्थकः, तस्य तदर्थत्वात् / तदभावे च प्रस्थकव्यपदेशेऽतिप्रसङ्गादिति यथोक्त एव प्रस्थकः / सोऽपि प्रस्थकसामान्या व्यतिरेकाद्व्यतिरेकप्रस्थकत्वप्रसङ्गात्सर्व एक एव प्रस्थकइति प्रस्तुतनयो मन्यते, सामान्यवादित्वादिति / (उज्जुसुयस्सेत्यादि) ऋजुसूत्रः पूर्वोक्तशब्दार्थः, तस्य निष्पन्नस्वरूपोऽर्थक्रियाहेतुः प्रस्थकोऽपि प्रस्थकः, तत्परिच्छिन्नं धान्याऽऽदिकमपि वस्तु प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्तथा प्रतीतेः। अपरं चाऽसौ पूर्वस्माद्विशुद्धत्वाद्वर्तमाने एव मानमेवे प्रस्थकत्वेन प्रतिपद्यते, नाऽतीताऽनागतकाले, तयोर्विनष्टानुत्पन्नत्वेनासत्त्वादिति। (तिण्हं सदनयाणं इत्यादि) शब्दप्रधाना नयाः शब्दनयाः शब्दसम-भिरुदैवंभूताः, शब्देऽन्यथा स्थितेऽर्थमन्यथा नेच्छन्त्यमी, किंतु यथैवशब्दो व्यवस्थितस्तयैव शब्देनार्थ गमयन्तीत्यतः शब्दनया उच्यन्ते / आद्यास्तु यथा कथञ्चिच्छब्दाः प्रवर्तन्तामर्था एव प्रधानमित्यभ्युपगमपरत्वादर्थनयाः प्रकीर्त्यन्ते / अत एषा त्रयाणां शब्दनयानां प्रस्थकार्थाधिकारज्ञः प्रस्थकस्वरूपपरिज्ञानोपयुक्तः प्रस्थकः / भावप्रधानात्तुते नया इत्यतो भावप्रस्थकमेवेच्छन्ति, भावप्रस्थकोपयोगोऽतः सप्रस्थकः, तदुपयोगवानपिच, ततोऽव्यतिरेकात्प्रस्थकः।यो हि यत्रोपयुक्तः सोऽमीषां मते सएव भवति, उपयोगलक्षणो जीवः, उपयोगश्चेत्प्रस्थकाऽऽदिविषयतया परिणतः किमन्यजीवस्य रूपान्तरमस्ति? यत्र व्यपदेशान्तरं स्यादिति भावः। (जस्स वा वेसेणेत्यादि) यस्य वा प्रस्थककर्तृगतस्योपयोगस्य वशेन प्रस्थको निष्पद्यते, तत्रोपयोगे वर्तमानः कर्ता प्रस्थकः / न हि प्रस्थकेऽनुपयुक्तः