SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ जंबूदीव 1378 - अभिधानराजेन्द्रः - भाग 4 जंबूदीव एवं च शाश्वताऽशाश्वतो घटो निरन्वयविनश्वरो दृष्टः, किमसावपि तद्वत्, उत नेत्याह- "जंबूद्दीवे णं" इत्यादि / इदमपि प्राक् पद्मवरवेदिकाऽधिकारे व्याख्यातमिति / ज०। ___ अथ किं परिणामोऽसौ द्वीप इति पिपृच्छिषुराहजंबूद्दीवे णं भंते ! दीवे किं पुढविपरिणामे, आउपरिणामे, जीवपरिणामे, पुग्गलपरिणामे ? गोयमा ! पुढविपरिणाम वि, आउपरिणामे वि, जीवपरिणामे वि, पुग्गलपरिणामे वि। जम्बूद्वीपे भदन्त ! द्वीपः किं पृथ्वीपरिणामः पृथिवीपिण्डमयः, किं जलपरिणामः जलपिण्डमयः / एतादृशौ च स्कन्धावचित्तरजः स्कन्धादिवद जीवपरिणामावपि भवत इत्याशड्क्याहकिं जीवपरिणामः जीवमयः / घटादिर-जीवपरिणामोऽपि भवतीत्या-शङ्कयाह - किं पुद्रलपरिणामः पुद्गलस्कन्धनिष्पन्नः केवलपुरलपिण्डमय इत्यर्थः / तेजसस्त्वेकान्तसुषमादावुत्पन्नत्वेन एकान्तदुःषमादौ तु विध्वस्तत्वेन जम्बूद्वीपस्य तत्परिणामे ऽङ्गीक्रियमाणे कादाचित्कत्वप्रसङ्गः, वायोस्त्वतिचलत्वेन तत्परिणामे द्वीपस्यापि चलत्वापत्तिरिति तथोः स्वत एव संदेहाविषय-त्वेन न प्रश्नसूत्रे उपन्यासः। भगवानाह-गौतम ! पृथिवीपरिणामोऽपि, पर्वतादिमत्त्वात् / अप्परिणामोऽपि नदीहृदादिमत्त्वात् / जीवपरिणामोऽपि मुखवनादिषु वनस्पत्यादिमत्त्वात् / यद्यपि स्वसमये पृथिव्यप्कायपरिणामत्व ग्रहणेनैव जीवपरिणामत्वं सिद्धम्, तथाऽपि लोके, तयोर्जीव-त्वस्याव्यवहारात् पृथग्रहण, वनस्पत्यादीनां तु जीवत्वव्यवहारः स्वपरसंमत इति पुद्गलपरिणामोऽपि मूर्तत्वस्य प्रत्य-क्षसिद्धत्वात् कोऽर्थः ? जम्बूद्वीपो हि स्कन्धरूपः पदार्थः, स चावयवैः समुदितैरेव भवति, समुदायरूपत्वात् समुदायिन अनन्तकृत्वः-अनन्तवारान् संसारस्यानादित्वादिति। अथ जम्बूद्वीपेतिनाम्नो व्युत्पत्तिनिमित्तं जिज्ञासिषुः पृच्छतिसे के णटेणं भंते ! एवं वुच्चइ-जंबुद्दीवे दीवे ? गोयमा ! जंबूद्दीवे णं दीवे तत्थ तत्थ देसेहिं देसेहिं बहवे जंबूरुक्खा जंबूवणा जंबूवणसंडा णिचं कुसुमिआ जाव पिंडिममेज रिविडेंसगधरा सिरीए अईव अवसोभेमाणा चिट्ठति / जंदुए सुदंसणाए अणाढिए णामं देवे महिड्डिए० जाव पलिओवमट्टिईर परिवसइ, से तेणटेणं गोअमा ! एवं वुच्चइ जंबूद्दीवे दीवे। अथ केनार्थेन भदन्त ! एवमुच्यते-जम्बूद्वीपो द्वीपः ? भगवानाहगौतम ! जम्बूद्वीपे द्वीपे तत्र तत्र देश तस्य देशस्य तत्र तत्र प्रदेशे बहवे जम्बूवृक्षा एकैकरूपा विरलस्थितत्वात्, तथा बहूनि जम्बूवनानि जम्बूवृक्षा एव समूहभावेना-वस्थिताः, अविरलस्थितत्वात् / "एक जातीयतरुसमूहो वनम्” इति वचनात् / तथा बहयो जम्बूवनखण्डाः जम्बूवृक्षसमूहा एव विजातीयतरुमिश्रिताः "अनेकजातीयतरूसमूहो वनखण्डः' इति वचनात्। तत्राऽपि जम्बूवृक्षाणामेव प्राधान्यमिति प्रस्तुते वर्णक साफल्यम् / अन्यथा अपरवृक्षाणां वनखण्डैनिभित्त-भूतैजम्बूद्वीपपपदप्रवृत्तिनिमित्तत्वेऽसाङ्गत्यात्। तेच कथंभूता इत्याह-नित्यं सर्वकालं कुसुमिताः, यावत्पदात् “णिचं माझ्या णिचं लवइआ णिच्च थवइआ० जाव णिचं कुसुमिअ-माइए लवइअथवइअ-गुलुइय-गोच्छइअ-जमलिअ-जु वलिअ-विणमिश्रपणमिअसुविभत्ता'' इति ग्राह्यम्। एतद्-व्याख्यानं प्राग्वनखएडवर्णक कृतमिति ततो ज्ञेयम् / उक्तवर्णकोपेताश्च वृक्षाः श्रिया अतीव उपशोभमानास्तिष्ठन्ति / इदं च नित्यकु सुमितत्वादिकं जम्बू. वृक्षाणामुत्तरकुरुक्षेत्रापेक्षया बोध्यम् / अन्यथैषां प्रावृट्कालभाविपुष्पफलोदयवत्त्वेन प्रत्यक्षबाधात्, एतेन जम्बूवृक्षबहुलो द्वीपो जम्बूद्वीप इत्यावेदितं भवति / अथवाजम्ब्बां सुदर्शनाऽभिधानायामनाहतनामा, पूर्वजम्बूवृक्षाधिकारे व्याख्यातनामा देवो महर्द्धिको, यावत्करणात ''महज्जुइए" इत्यादि ग्राह्यम् / पल्योपमस्थितिकः परिवसति; अथ तेनार्थन भदन्त ! एवमुच्यते स्वाधिपत्यनाद्दतनादेवाश्रयभूतया जम्बोपलक्षितो द्वीपो जम्बूद्वीप इति, सूत्रैकदेशो ह्यपर सूत्रैकदेश स्मारयति इति। “अदुत्तरं च णं जबुद्दीवरस सासए णामधेज्जे पण्णत्ते, जं ण कयाइ ण आसी, ण कयाइ णत्थि, ण कयाइ ण भविस्सइ० जाब णिचे' इति ज्ञेयं, जीवा-भिगमादशै तथा दर्शनात् / एतेन किमाकारावप्रत्यवतारो जम्बूद्वीप इति चतुर्थः प्रश्नो नियूंढ इति। ज० 7 वक्ष०। जी०। जम्बूद्वीपस्य मध्ये च मेरुनामा पर्वतोऽस्ति। तथाहिमहीइ मज्झम्मि ठिते णगिंदे, पन्नायते सूरियसुद्धलेसे। एवं सिरीए उ स भूरिवन्ने, मणोरमे जोइ अचिमाली / / 13 / / मह्या रत्नप्रभापृथिव्यां, मध्यदेशे जम्बूद्वीपः, तस्यापि बहु-मध्यदेशे सौमनसविद्युत्प्रभगन्धमादनमाल्यवन्तदष्ट्रापर्वत चतुष्टयो पशोभितः समभूभागेदशसहसविस्तीर्णः शिरसि सहस्रमेकमधस्तादपिदशसहस्राणि नवतियोजनानि योजनेकादशभागैर्दशभिरधिकानि विस्तीर्णश्चत्वारिशद्योजनोठूितचूडोपशोभितो नगेन्द्रः पर्वतप्रधानो मेरुः प्रकर्षण लोके ज्ञायते इति। अथ यदि चायं जीवपरिणामरूपस्तर्हि सर्वे जीवा अत्रो त्पन्नपूर्वाः उत नेत्याशझ्याहजंबूदीवेणं भंते ! दीवे सव्वपाणा सव्वजीवा सव्वभूआसव्वसत्ता पुढविकाइयत्ताए आउकाइअत्ताए तेउकाइयत्ताए वाउकाइअत्ताए वणस्सइकाइअत्ताए, उववण्णपुव्वा ? हंता गोयमा ! असई अदुवा अणंतखुत्तो॥ जम्बूद्वीपे भदन्त ! द्वीपे सर्वे प्राणाः द्वित्रिचतुरिन्द्रियाः सर्वे जीवाः पञ्चेन्द्रियाः, सर्वे भूतास्तरवः, सर्व सत्त्वाः पृथिव्य-प्लेजोवायुकायिकाः। अनेन च सांव्यवहारिकराशिविषयक एवायं प्रश्नः, अनादिनिगादनिर्गतानामेव प्राणजीवादिरूपविशेषपर्यायप्रतिपत्तेः / पृथिवीकायिकतया अप्कायिकतया तेजस्कायिकतथा वायुकायिकतया वनस्पतिकायिकतया उपपन्नपूर्वा उत्पन्नपूर्वाः ? भगवानाह- " हता गोयमा ! एवं गौतम ! यथैव प्रश्नसूत्रं तथैव प्रत्युचारणीयम्पृथिवीकायिकतया यावद्वनस्पतिका-यिकतया उपपन्नपूर्वाः कालक्रमेण: संसारस्यानादित्वात्, न पुनः सर्वे प्राणादयो जीवविशेषा युगपदुत्पन्नाः सकलजीवानामे ककालं जम्बूद्वीपे पृथियादि-भावनोत्पादे सकलदेवनारकादिभेदाभावप्रसक्तेः / न चैतदस्ति, तथा जगत्स्वभावादिति / कियन्तो वारानुत्पन्ना इत्याह- असकृदनेकशः अथवा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy