________________ णय 1874 - अभिधानराजेन्द्रः भाग - 4 णय इव ममापि विशिष्टवैशिष्ट्यबोधो न जायते, इत्यप्रामाण्यज्ञानत्वावच्छिन्नाभावस्यैव निवेशे क्व दोषः ? इति चेत् , एवमपि संशयसाधारणज्ञानस्य विशिष्ट वैशिष्ट्यबोधहेतुत्वेऽनुमित्यादिकं प्रति परामर्शहेतुत्वे व्याप्त्याद्यशे निर्णयत्वनिवेशे महागौरवाद्विशेषणताऽवच्छेदकप्रकारकनिश्चयस्य चानाहार्यस्यैव हेतुत्वस्वीकारादाहार्यतदुत्तरोत्पन्नज्ञाने व्याप्त्यंशे निर्णयत्वनिवेशानावश्यकत्वात् / ननु तयाऽपि विशेष्ये विशेषणमितिज्ञानसाधारण्ये चाऽतिरिक्तप्रकारिताऽस्तु, तदवच्छिन्नेऽप्रामाण्यनिश्वयाभावकूटविशिष्टसंशयाभावस्य नियामकस्याप्रामाण्यज्ञानाभावकूट विशिष्ट निश्चयत्वावच्छिन्नतो लघुत्वादियमेव योग्यता ज्ञानाऽऽदिनिष्ठहेतुताऽवच्छेदिका, बाधाऽऽदिप्रतिबन्धकताऽवच्छेदिका च / अत एवानन्वितान्वयबुद्धेर्बाधाऽऽदिप्रतिबद्ध्यत्वप्रतिबन्धकत्वे, अत एव च व्याप्तिप्रकारकं निश्चयोत्तरमपि व्याप्त्यभावांशे आहार्यसंशयाऽऽत्मक-तथाविधज्ञानादनुमित्यनापत्तिः, कार्यतासहभावेन तथाविधसंशयस्य प्रतिबन्धकत्वादिति चेत् / न / अप्रामाण्यनिश्चयत्वावच्छिन्नाभावविशिष्टनिरुक्तसंशयाभावत्वेन हेतुत्वे गौरवात्, प्रतियोगिताऽवच्छेदकप्रकारकनिश्चयस्य प्रतियोगिताऽवच्छेदकविशिष्टविषय-केऽभावस्य प्रत्यक्षे हेतुत्वं कल्पमानमभावांशाप्रवेशेन लाघवात्तादृशज्ञान एव युक्तमिति तबलेन निश्चयजन्यताऽवच्छेदकविशिष्टवैशिष्ट्यविषयतासिद्धेश्च; शाकपाकजत्वाऽऽदौ साध्यव्यापकत्वसंदेहेनाहिते हेतौ साध्यव्यापकत्वव्यभिचारसंदेहः; उपाधिदीधित्युक्तस्तु फलीभूतसंदेहे शाकपाकजत्वविशिष्टे साध्यव्यापकस्याऽविशेषणात्। अन्यथा तु द्रव्यत्वाऽऽदौ तस्य निश्चयात्तत्र तद्विशेषणे तु साध्यव्यापकत्वांशे विशेष्ये विशेषणमिति रीत्या संशयाऽऽकार एव स रक्तो दण्डो न वेति संशयकालीनो रक्तो दण्डवानिति प्रात्यक्षिकबोध इव रक्तत्वांश इति द्रष्टव्यम् / इदं तु बोध्यम्-किशि-द्धर्मावच्छिन्ने यद्विशेषणताऽवच्छेदकं तत्प्रकारकनिश्चयत्वेनैव हेतुत्वमन्तरा धर्मिताऽवच्छेदकानियन्त्रितस्थले दण्डवदित्यादौ तु दण्डत्वाऽऽदिप्रकारकज्ञानत्वेनैव निर्द्धर्मिताऽवच्छेदकनिश्चयत्वस्य दुर्वचत्वात् , तत्प्रवेशे वैयांचेति / विशिष्टवैशिष्ट्यमिति बुद्धित्वं तु रक्तदण्डत्वोभयधर्मावच्छिन्नविशेष्यतानिरूपितप्रकारता-शालिबुद्धित्वम् / कारणता च तत्र दण्डत्वावच्छिन्नविशेष्यतानिरू-पितरक्तत्वप्रकारताशालिनिर्णयत्वेन। कार्यता च रक्तत्वविशिष्ट-दण्डत्वावच्छिन्नविशेष्यताशालिज्ञानत्वेनैव। तेनैकद्वयमिति रीत्या दण्डो रक्तोऽप्रमेयश्चेति ज्ञाने न व्यभिचारः, तत्र दण्डत्वविशिष्ट-विशेष्यताया रक्तत्वानवच्छिन्नत्वेन, रक्तत्वं धर्मितावच्छेदकीकृत्य प्रमेयत्वाऽऽदिबाधकालेऽपि तथाविधज्ञानाऽऽपत्तिरिति तादृश-विशेष्यताया रक्तत्वावच्छिन्नत्वमावश्यकमिति वाच्यम्। एकाऽपि प्रमेयत्वाऽऽदिप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यताभिन्नाया एव रक्तत्वावच्छिन्नविशेष्यताया अभ्युपगमादेकस्याविशेष्यताया रक्तदण्डत्वोभयानवच्छिन्नत्वेनाव्यभिचारात्; तत्रापि रक्तत्वधर्मि-ताऽवच्छेदकदण्डत्वप्रकारकनिर्णयजन्ये दण्डो रक्तः प्रमेय इत्येता-दृशबोधे व्यभिचारवारणाय तादृशविशेष्यतायां रक्तप्रकारकताऽऽ-दिनिरूपितदण्डत्वावच्छिन्नविशेष्यताभिन्नत्वं निवेशनीयम् / एकत्र द्वयमिति विषयिता च प्रकारिताद्वयावच्छिन्नविशेष्यतारूपा / यथा-चैत्रो दण्डी / कुण्डलीत्यत्र / न चैकमेकत्र त्रयादिकमप्यतिरिच्येत, एकत्र द्वयमिति संज्ञयैव संग्रहात् / अयं च दण्डी चैत्रो न कुण्डली, दण्डी चैत्रः कुण्डलीत्युभयत्र सत्त्वादुद्देश्यताऽवच्छेदकत्वविधेयत्वयोः प्रकारताविशेषत्वात् तादृशबाधधीप्रतिबद्ध्यताऽवच्छेदकत्वादेव चास्याश्चैत्रत्वेन शरीरद्वयेनेदं कुण्डलग्रहादेकत्र चैत्रो दण्डी कुण्डली चेति विधियो विशेषो रक्तदण्डाभावधियः समूहालम्बनादिव, इयं चैकविशिष्टेऽपरवैशिष्ट्यविषयिताव्यापिका दण्डी कुण्डली चैत्रो द्रव्यमित्यत्रेव दण्डी कुण्डली चैत्र इत्यत्राऽपि सत्त्वात्तत्प्रयो-जकसामग्रीव्यापकसामग्रीकत्वाचेति वदन्ति / तदसत् / सामान्य-विशेषापेक्षयेकानेकाऽऽत्मकवस्त्वनभ्युपगमे एकान्तवादस्य कुत्राप्यघटमानत्वात् / विशिष्टबुद्धिष्वपि हि सामान्यत एका, विशेषतश्च परनिरूपितत्वेन बहुतरा अपि विषयता अनुभूयन्त इति चतुर्द्ध वेति कोऽभिनिवेशः ? अत एवैकत्र द्वयस्थलेऽप्ये कत्र भासमानयोर्विशेषणयोः परस्परमपि सामानाधिकरण्येन वैशिष्ट्यभानाद्विषयताभेदः, यदि च तत्र प्रकारकतया तयोर्निरूपितत्वविशेषानातिरेकः, तदा विशिष्टवैशिष्ट्यस्थलेऽपि एकप्रकारताऽवच्छिनापरप्रकार-तयोपपत्तावतिरेके किं मानम् ? विशेष्ये विशेषणमिति स्थले हि रक्तत्वप्रकारतानिरूपिता दण्डत्वावच्छिन्ना प्रकारता, विशिष्टवैशिष्ट्यस्थले चरक्तप्रकारताऽवच्छिन्ना दण्डत्वावच्छिन्ना प्रकार-तेत्येवं विशेषसंभवात् / स्वीक्रियता वा तत्रावच्छे दकत्वाऽऽदेरित्येव प्रकारताप्रकारताद्वयघटितरूपेण तु यथा हेतुतावच्छेदकत्वं तथा प्रागुक्तमेव, यथा संनिवेशध्रौव्येणेति न रक्तत्वदण्डत्योभयावच्छिनप्रकारतयैव रक्तदण्डस्यैव विशिष्टवैशिष्ट्यविषयता / अन्यथा रक्तदण्डद्रव्यवानित्यतो रक्तदण्डवानित्यस्य वैलक्षण्यातक्तत्वदण्ड-स्यैट त्वनिष्ट द्वित्वावच्छिन्नपर्याप्तधीरनाकारवच्छे दकताक प्रकारताऽऽश्रयणेऽतिगौरवात् / गुणवान् दण्डवानित्यतो वैलक्षण्यसंपादनाय रक्तत्वत्वविशिष्टदण्डत्वोभयापर्याप्तावच्छेदताकप्रकारकतानुधावने रक्तत्वेन दण्डो, पीतावगाहिनि तादृशबोधेऽवगतेश्च तस्माद् रक्तत्वावच्छिन्नावच्छेदकतानिरूपकदण्डत्वावच्छिन्नप्रकारताकबुद्धित्वमेव रक्तदण्डवानिति विशिष्टवैशिष्ट्यबुद्धित्वमाश्रयणीयम्, अनुमितिहेतुपरामर्शोऽपि हेतुताऽवच्छेदकतानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपिताधिकरणनिष्ठावच्छेदकतानिरूपिताधेयत्वावच्छिन्नावच्छे दकतानिरूपितहेतुताऽवच्छेदकावच्छिन्नप्रकारताकत्वमेव निवेश्यताम् / न च यत्र व्याप्तिधूमत्वयोरेकत्वे द्वयमिति रीत्यैव हेतुनिष्ठप्रकारताऽवच्छेदकत्वे तादृशपरामर्शादनुमित्यापत्तिः, इष्टापत्तौ च विरोधव्यभिचारयोर्हेत्वाभासत्वानुपपत्तिः, तादृशज्ञानस्य तदज्ञानाप्रतिबध्यत्वादिति तत्साधारणाय व्याप्तिप्रकारतानिरूपितविशेष्य-तात्वेन धूमत्वावच्छिन्नप्रकारता निवेशनीया / तत्वेन धूमत्वावच्छिन्नत्वं च धूमप्रकारतायां तत्रैव यत्रधूमत्वस्य व्याप्तिधर्मिताऽवच्छेदकत्वम् अन्यत्र तुधूमप्रकारकत्वेनैवेति नातिप्रसङ्गः।तथा च-प्रागुक्तरीत्या व्याप्यत्वाऽवच्छिन्ननिवेशस्यैवौचित्यात्।नचाऽयमेकान्तोऽपियुक्तः,परस्परानिरूपितावान्तरावयवैः स्थानीयविषयताया अप्यनुभवात्। न च विशिष्टपर्याप्सप्रकारतैकान्तपक्षोऽपि युक्तः, विशिष्टविशिष्टपर्याप्तप्रकार-तान्तरस्याऽपि सिद्ध्यापत्तेः, तत्सिद्धाविष्टापत्तिः। दण्डविशिष्ट-पुरुषविशिष्टभूतलपर्याप्तप्रकारताकबुद्धौ च दण्डाशे निश्चयाऽऽत्मकदण्डविशिष्टपुरुषवभूतलमिति निश्चयो हेतुः, अत एव दण्डाशे पुरुषांशे च संशयनिश्चयाऽऽत्मकतादृशज्ञानादण्डाशे विज्ञेप्ये विशेषणमिति रीत्या पुरुषांशे विशिष्टनिरूपितवैशिष्ट्यविषयताशालिज्ञानाऽऽपत्तिरित्यभ्युपगमे च विशेषणविशिष्ट