________________ णय 1973 - अभिधानराजेन्द्रः भाग-४ णय विशेष्यताशालित्वस्याऽपि तादृशनिर्णयजन्यतावच्छेदके प्रवेशात् , उक्तस्थले दण्डत्वप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यताया एव सत्त्वात् / उभयधर्मावच्छिन्नप्रकारता परित्यज्योभयपर्याप्त प्रकारतानिवेशेन हेतुत्वस्वीकारे तु पर्वतो लौहित्याभाववानिति ज्ञानकाले लोहितवह्निमानिति विशिष्टवैशिष्ट्यबुद्ध्यवगमाऽऽपत्तिः; पर्वतो न लोहित इति ज्ञानस्यलौहित्यप्रकारकपर्वतेविशेष्यकज्ञान एवं प्रतिबन्धकत्वात्। नच रक्तत्वावच्छिविशेष्यताकरक्तप्रकारकस्यरक्तो रक्त इति स्मरणस्य प्रसङ्गः, तत्र तथा निर्णयस्य हेतुत्वादिति वाच्यम्; रक्तत्वावच्छिन्नविशेष्यतायास्तत्र रक्तत्वप्रकारतानिरूपितत्वेऽपि रक्तत्वावच्छिन्नविशेष्यतात्वे तस्यास्तादृशप्रकारतानिरूपितत्वानभ्युपगमात् , तेन रूपेण रक्तत्वप्रकारतानिरूपितत्वेऽपि रक्तत्वावच्छिन्नविशेष्यतात्वेतच्छालिन्य ज्ञानस्यैव, रक्तो रक्त इत्याकारकस्मृतिजनकतया तादृशस्मरणाऽऽपत्त्यसंभवात् / दण्डो रक्तो न वेति संशयानुव्यवसायस्तु वस्तुत्वविशिष्टदण्डवैशिष्ट्यावगाही रक्तदण्डेन संदेहीत्यप्रत्ययात्, किं तु रक्तत्वतदभावप्रकारकत्वदण्डविशेष्यकत्वावगाही रक्तत्वेन तदभावेन च दण्ड संदेहीति प्रत्ययादिति न तत्र व्यभिचार इति केचित्। तचिन्त्यम्। समुचयानुव्यवसायवत्तत्तविशेषणद्वयनिरूपितवैशिष्ट्यविषयताशालित्वस्यैव वक्तुं शक्यत्वात् / रक्तदण्डे न संदेरीत्यनभिलापस्य दण्डिनं जानामीत्यनभिलापवदेवोपपत्तेानत्वेन संदेहाऽनुव्यवसाये चोक्तप्रकाराभावाद्विशेषणोपर्युल्लेख्यमानस्य विशेषणताऽवच्छेदकस्य विशेष्यनिष्ठसंबन्धावगाहिताया एवोक्तज्ञाने समर्थन चान्यत्राप्यतिप्रसङ्गात्। तस्माद्विशेष्ये विशेषणमिति रीत्यैव संशयानुव्यवसाय इति न व्यभिचार इति बहवः / न च संदेहीत्यनुव्यवसायस्य विशेषणमिति रीत्याऽभ्युपगमे रक्तदण्डो द्रव्यमिति व्यवसायानन्तरमपि रक्तदण्ड जानामीत्यनुव्यवसायप्रसङ्ग इति वाच्यम्, रक्तविशिष्ट प्रकारतानिरूपितविषयित्वसांसर्गिकविषयितानिरूपितविशेष्यतासंबन्धेनाऽव्यवसायं प्रतिरक्तत्वप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यताकत्वेन व्यव-सायहेतुताया आवश्यकत्वात्। अन्यथा रक्तो दण्ड इति प्रत्यक्षानन्तरं रक्तवान् दण्डश्चेति समूहाऽऽलम्बनस्मरणाऽऽदिस्थले रक्तदण्डं स्मराभीत्यनुव्यवसायोपपत्तेः।नचदण्डो रक्तइतिज्ञानोपरमेऽपि रक्तदण्ड करोमीत्याकारककृतिसाक्षात्कारोत्पत्त्या व्यभिचारः, हेतुताऽवच्छेदके ज्ञानज्ञानिनिवेशे च रक्तदण्डइत्यनुदबुद्धसंस्काराद्रक्तत्वनिर्विकल्पकदशाया विशिष्टबोधाऽऽपत्तिः, उद्बोधकानां संस्कारजविशिष्टवैशिष्ट्यबोधहेतुत्वेऽपितदभावे सामान्यसामग्रया फलजननेनाबाधकभावादिति वाच्यम् , कृतिसाक्षात्कारपूर्व नियमतो दण्डो रक्त इति स्मरणानभ्युपगमात् / वस्तुतः संस्कारल्यावृत्तज्ञानेच्छाकृतिवृत्तिजातिविशेष कल्पयित्वा विशेषणताऽवच्छेदकप्रकारकविजातीयगुणत्वेनैव हेतुत्वं स्वीक्रियते, अनन्तस्मृतिव्यक्तितद्धेतुत्वकल्पनापेक्षया तादृशजातिकल्पानाया एवोचितत्वात् / न च कृतिसाक्षात्कारपूर्व विषयस्मृतिकल्पनमावश्यकम्, अन्यथोपनायकज्ञानविरहेण विषयभानासंभवेन कृतिसाक्षात्कारानुदयप्रसङ्गादिति वाच्यम्; ज्ञानलक्षणप्रत्यासत्तेरपीच्छाकृतिसाधारणतद्विषयकविजातीयगुणत्वेनैव हेतुत्वोपगमात् / अवश्यं च गुणमानसजनकावच्छेदकतया संस्काराऽऽदिव्यावत्तजातिविशेषकल्पनम् / अन्यथा संस्काराऽऽदिमानसताऽऽपत्तेरिति विशिष्टवैशिष्ट्यानुभवत्वमेव च जन्यताऽवच्छेदकमास्थीयते, स्मरणे च | तादृशविषयतानियामक इति बहवः। केचित्तु अनुभवत्वजातौ मानाभावेन ज्ञानत्वस्याऽपि नित्यसाधारणतया जन्यताऽवच्छेदकत्वाजन्यप्रत्यक्षवृत्तिजातिविशेष एव विशेषणताऽवच्छेदकप्रकारकनिर्णयजन्यताऽवच्छेदकोऽनुमित्यादौ च परामर्शाऽऽदिरेव तादृशविषयतानियामकः, एवं शाब्दबोधेऽवान्तरवाक्यार्थबोध एव, तथाऽप्यविजातीयप्रत्यक्षत्वस्य तज्जन्यताऽवच्छेदकत्वे इतरव्यापकीभूताभावप्रतियोगिपृथिवीत्ववति पृथिवीत्याकारक परामर्शादितरभेदत्वप्रकारकज्ञानदशायामिव तच्छून्यदशायामपि पृथिवीतरभेदवतीत्याकारक विशिष्ट वैशिष्ट्यविषयताशालिनाऽनुमितेरापत्तिः, तादृशानुमितान्वयव्याप्तिज्ञानस्यैव हेतुत्वान्नापत्तिरित्युक्तौ च स्वातन्त्र्येणतेरभेदत्वप्रकारकज्ञानस्य सत्ये तादृशानुमित्यनुदयाऽऽपत्तिः।न च पृथिव्यामितरभेदविशेष्यकानुमितेरेव स्वीकारान्नेयमापत्तिः, साध्यविशेष्यकानुमितौ साध्यप्रसिद्धेर्विरोधितया तत्र तादृशानुमित्युत्पादासंभवात्। नच विशेष्ये विशेषणमिति रीत्या पृथिवीतरभेदवतीत्याकारानुमितिस्तत्रजायत एवेति वाच्यम् ,तथासति साध्यज्ञानशून्यकाले तादृशपरामर्शात्पृथिव्यामितरभेदः पृथिवीतरभेदवतीत्याद्याकारकद्विविधविषयताशालिन्या अनुमितेरापत्तेः / न च विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य हेतुत्वान्नेयमापत्तिः, एवमपि प्रमेयत्वेनेतरभेदज्ञानकाले तथाविधानुमितेरापत्तिसंभवात्। न च प्रमेयत्याऽऽदिनासाध्यज्ञानकाले साध्यविशेष्यकानुमितिप्रतिबन्धकीभूतसाध्यसिद्धिसत्त्वेतत्र तथाविधविषयताशाल्यनुमित्यापत्तिरिति वाच्यम् , साध्यताऽवच्छेदकप्रकारकसिद्धेरेव साध्यविशेष्यकानुमितिविरोधित्वात्। अन्यश्चेतरभेदत्वरूपेण भेदान्तरावगाहिसिद्धिकाले तादृशानुमितिवारणाय तत्र पक्षविषयतानिवेश्यसिद्धेः प्रतिबध्यप्रतिबन्धकभावान्तराऽऽपत्तेः, तस्मादितरभेदत्वप्रकारकज्ञानकालीनव्यतिरेकव्याप्तिज्ञानजन्यानुमितिविशिष्टवैशिष्ट्यविषयतास्वीकार आवश्यकः, तत्साधारण्यं च विशेषणताऽवच्छेदकप्रकारकज्ञानजन्यताऽवच्छेकस्यावश्यकम् / तथा च सतीतरभेदत्वप्रकारकज्ञानशून्यकाले विशेष्ये विशेषणमिति रीत्येतरभेदत्वप्रकारकद्विविधविषयताशाल्यनुमित्यापत्तिः, विशिष्ट वैशिष्ट्यानवगाहिन्या विशेष्ये विशेषणमिति रीत्या जायमानाया अनुमितेरप्रसिद्धः / विशिष्ट वैशिष्ट्यावगाहिन्यां च विशेषणताऽवच्छेदकप्रकारकनिर्णयस्य हेतुत्वादिति चेत् , एवमप्यनुमितौ स्वातन्त्र्येणैव हेतुत्वम् , अनुमितिसाधारणजन्यताऽवच्छेदकत्वे नित्यव्यावर्तनाय जन्यत्वनिवेशस्यावश्यकत्वम्, मिथो विशेषणविशेष्यभावे विनिगमनाविरहेण नानाकार्यकारणाभावस्याऽऽवश्यकत्वादवच्छेदकप्रकारकज्ञानशून्यकालीनस्मरणेईश्वरज्ञाने च विशेष्ये विशेषणमित्येतादृशविषयतामात्रमभ्युपेयते, अतो न व्यभिचारः, न वा नित्यसाधारणमित्याहुः / केचित्तु-विशेषणताऽवच्छेदकसंशयकाले विशिष्टवैशिष्ट्य-बोधस्वीकृत्य विशेषणताऽवच्छेदकप्रकारकज्ञानत्वेनैव हेतुत्व-माहः / तदसत्। संशयसाधारणज्ञानस्य हेतुत्वेऽप्रामाण्यनिर्णयस्यैवोत्तेजकतया निर्णयत्वेन हेतुत्वे त्वप्रामाण्यज्ञानस्यैव तथात्वे निर्णयत्वेन हेतुत्वकल्पनाया एवोचितत्वात् / अन्यथा विशेषणताऽवच्छेदप्रकारक ज्ञानीयनिर्णयत्वापेक्षया गुरुशरीरस्याप्रामाण्यज्ञाननिर्णयत्वस्य निवेशने महागौरवप्रसङ्गात् / अथ विशेषणताऽवच्छेदकसंशयकाले तत्र चाप्रामाण्यशङ्कायां भवन्मतस्य