SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ णय 1872 - अभिधानराजेन्द्रः भाग - 4 णय विशिष्टा वैशिष्ट्यबुद्धिः / तत्र मध्यमद्वये विशेषेण विशेष्यताऽवच्छेदकप्रकारकनिश्चयत्वाभ्यां हेतुता, इतरद्वये तु विशेषणाज्ञानासंसर्गग्रहयोः, विशेष्ये विशेषणामितिरीत्या बुद्धित्वरक्तत्वाऽऽधवच्छिनप्रकारतानिरूपितदण्डत्वाऽऽद्यवच्छिन्नप्रकारकबुद्धित्वम् तेन दण्डो रक्तो दण्डवात्पुरुष इति समूहाऽऽलम्बने नातिप्रसङ्गः, तत्र दण्डत्वावच्छिन्नप्रकारतायाः रक्तत्वावच्छिन्नप्रकारतानिरूपित-त्वात्। न च विशिष्ट वैशिष्ट्यविषयतास्वीकारे रक्तदण्डवानित्यत्र विशेष्ये विशेषणमितिविषयितायां दण्डो रक्तो दण्डवात्पुरुष इति समूहालम्बनव्यावृत्तायां मानाभावः / रक्तरूपदण्डत्वोभयावच्छिनदण्डनिष्ठ प्रकारताभिन्नाया रक्तरूपत्वाऽवच्छिन्नप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारताया आनुभविकत्वम् / किञ्चरक्तदण्डवानित्यादिवाक्यादयुगपदुपस्थितस्वघटकाखिलपदार्थाजायमानाया अनन्वितान्वयबुद्धेः रक्तो दण्डो दण्डवात्पुरुष इति वाक्यजसमूहाऽऽलम्बनावैलक्षण्ये रक्तदण्डाभाववानित्यादिबाधधीकालेऽप्युत्पत्त्यापत्तिरिति तत्प्रतिबध्यताऽवच्छ देकतयैव तत्सिद्धिरुक्तबाधधिया रक्तरूपत्वावच्छिन्नप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वाऽवच्छिन्नविशेष्यताक-धियैव प्रतिबद्ध्यत्वाविशिष्टवैशिष्ट्यविषयताया बाधप्रतिबध्यता-वच्छेदकत्वे उक्तस्थल एवानुपपत्तेः / अपिच-विशकलितज्ञानाद व्यापकविषयताशालिमानसस्वीकारेण तत्साधारण्येनैव प्रतिबद्ध्यत्वं युक्तिमत्। अथैवं दण्डो रक्तो न देति संशयकाले उक्तवाक्याद्विशेष्ये विशेषणमिति रीत्याऽन्वयबोधाऽऽपत्तिरिति चेत् / न / प्रथममिष्टत्वात् , अनन्तरं च विशिष्टस्य वैशिष्ट्यमिति रीत्याऽन्वयधियः संभवात् / तदनुभवोऽप्यविरुद्धः, प्रात्यक्षिकी बुद्धिरप्युक्तसंशयकाले रक्तत्वांशे संशयाकारा इष्टैव / यत्तु घटघटत्वाऽऽदिनिर्विकल्पकोत्तरं घटवदित्याकारा धीविशेष्ये विशेषणमिति रीत्या जायत इति / तत्र घटाऽऽद्यंशे तद्धीप्रकारताया निरवच्छिन्नत्वेऽपसिद्धान्तः, जात्यतिरिक्तस्य किञ्चित्प्रकारेणैव भानात्। तादृशधीविरोधिनोऽसंसर्गग्रहस्यासंभवात्तथा विशेषणधियोऽहेतुत्वाच। तस्या घटत्वाऽऽद्यवच्छिन्नत्वे तु तद्धियो घटो नास्तीत्यादिबुद्धिवद्विशिष्टवैशिष्ट्यधीत्वस्यैवाध्यवसितप्रकारकज्ञानमेवोपनायकम् , तस्य च कार्यतावच्छेदकं लौकिकविषयिताशून्यम् , तद्विषयिकज्ञानत्वापेक्षया लाघवाद्विशिष्टवैशिष्ट्याऽऽख्यविषयताशालिप्रत्यक्षत्वमेवेति घटत्वप्रकारकज्ञानोत्तरं जायमानायां घटवदिति बुद्धौ विशिष्टवैशिष्ट्यधीत्वमेव; निर्विकल्पकोत्तरंतु विशेष्ये विशेषणमितिरीत्या लौकिकविषयताशालिज्ञानस्यैव स्वीकारात्। न च दण्ड इत्याद्यात्मकमानसबोधासंग्रहः, तत्र ज्ञानांशे दण्डस्य प्रकारकत्वात्। न चात्मन्युपनीतभावे च ज्ञानाभावेऽपि तत्रागत्या लौकिकविषयाशून्यत्वं निवेशनीयम, तादात्म्येन स्वस्मिन् स्वप्रकारकत्वाभ्युपगमादित्यादिनिरस्तम् / नव्यनये निर्विकल्पकसाधारप्रत्यासत्तिस्वीकारेणोपनयकार्यताऽवच्छेदके लौकिकविषयिताशून्यत्वस्यैव निवेशात् घटवदित्यादौ सर्वत्र विशेष्ये विशेषणमिति-रीत्या विषयतायां प्रागसकृदुक्तबाधकस्यैव न साम्राज्यार्थवेति ? भावः, दण्डी न वेति संशयकाले दण्डाभाववदितिधीविशिष्ये विशेषणमिति रीत्या स्यात्, तयाऽभावे प्रतियोगिताऽवच्छे दक विशिष्ट प्रतियोगिनो बुद्धेरप्रसिद्ध्या तत्प्रतिबन्धकत्वस्याप्ययोगादिति चेत् / न / तादृशबुद्धेरप्रसिद्धत्वे दण्डाभावसंसर्गाग्रहाऽऽदिसामान्य-सामग्या / विशिष्टवैशिष्ट्यविषयिताबोध एव हेतुत्वात् , तादृशबुद्धेरापादकाभावाद्विशेष्ये विशेषणमिति विषयितायाः वैशिष्ट्यविषयिताकबोध एव हेतुत्वात , तादृशबुद्धेरापादकाभावाद्विशेष्ये विशेषणमिति विषयिताया विशिष्टवैशिष्ट्यविषयिताव्यापकत्वे दण्डाभाववदिति ज्ञानेऽपि तस्याः सत्त्वेन तदवच्छिन्नं प्रति प्रतिबन्धकत्वसंभवाच्च / अत एव दण्डो रक्तोन वेति संशयकाले यदि विशेष्ये विशेषणमिति रीत्याऽपि रक्तदण्डवानिति धियो नोत्पत्तिः, तदा तत्र दण्डो रक्त इत्यादिनिश्चयाभावविशिष्टो दण्डो रक्तो न वेत्यादिसंशयः प्रतिबन्धकः स्वीक्रियते / इत्थं च व्यापकत्वाद् विशिष्ये विशेषणमिति रीत्या विषयतैवानुमितिप्रवृत्त्यादिजनकताऽवच्छे-दिका। विशिष्टवैशिष्ट्यबुद्धित्वं तुरक्तदण्डात्वाऽऽदिविशिष्ट पर्याप्तिप्रकारताकबुद्धिल्वं रक्तदण्डेन जानामीति प्रतीतेरिति संप्रदायविदः / तदसत् / अस्या एवाऽनुमित्यादिजनकताऽवच्छेदकत्वे विशिष्टवैशिष्ट्यविषयितायां मानस्य दुरापास्तत्वात् / रक्तदण्डवानित्यादिज्ञानेऽपि रक्तत्वाऽऽदिप्रकारतानिरूपितदण्डाऽऽदिनिष्ठविशेष्यताया एवानुभवात् रक्ताऽऽदेर्दण्डाऽऽदिविशेष्य इत्येव प्रतीतेः। तस्मादिशिष्टवैशिष्ट्यविषयताकबुद्धित्वमेवानुमित्यादिजनकताऽवच्छेदकम्। विशेष्ये विशेषणमिति बुद्धित्वं तु विशेषणताऽवच्छेदकसंशयकालीनज्ञानसाधारणमित्यलं संशयप्रतिबन्धकत्वेन, विशिष्टपर्याप्त प्रकारत्वासंभवभिया परामर्शवैशिष्ट्यबुद्धित्वमित्यपि न युक्तम् / वहिव्याप्ये धनवानित्यादौ विशिष्टव्याप्तेरसिद्धत्वेन प्रकारत्वासंभवभिया परामर्शः, दीधितौ खण्डशो निरुक्तेरानर्थक्याऽऽपातात् / अनेन वैशिष्ट्य च वैज्ञानिकम, तेन लोहितवह्निमानित्यादौन विशिष्टवैशिष्ट्यबोधानुपपत्तिरितिमथुरानाथाद्युक्तमपास्तम् / विशिष्टवैशिष्ट्यविषयताविशेषणता:वच्छेदकसंबन्धभेदेन भिन्नेति सर्वैः स्वीकारेण समवायाऽऽदिघटिततद संभवस्य वैज्ञानिकसंबन्धेन समाधातुमशक्यत्वाच्च, तत्तत्संबन्धेन विशेषणताऽवच्छेदकप्रकारकनिश्चयस्य तत्तत्संबन्धनिरूपितवैज्ञानिकसंबन्धेनैव विशिष्टवैशिष्ट्यबुद्धित्वाऽवच्छिन्नं प्रति हेतुत्वकल्पने त्वतिगौरषम् , संशयदशायामपि शुद्धसंबन्धेन कार्याऽऽपत्तिश्च / न चेष्टापत्तिः, अनुभवविरोधात्। अन्यथा विशिष्टवैशिष्ट्यं न कार्यतावच्छेदकम् , अर्थसमाजसिद्धत्वाद्विशेषणज्ञानद्वयादेव तादृशबोधाऽऽपत्तिरिति मिश्रमतसाम्राज्याऽऽपत्तिः, दण्डी रक्तो न वेति सशयानन्तरमजायमानस्य, दण्डो रक्त इति निश्चयानन्तरं च जायमानस्य बोधस्याऽनुभवसिद्धत्वात् / एवं हि तत्रोक्तकार्यकारणभावेन तन्मतं निराक्रियते, नियतसंबन्धगर्भत्वेऽपीयमेव युक्तिरिति / इदं तु स्याद्रक्तदण्डवानित्यत्र दण्डाऽऽश्रितैव प्रकारता, तदवच्छेदकता चरक्तदण्डल्ये च पर्याप्ता, रक्तेन दण्डत्वेन चामुमत्र जानामीति प्रतीते-~धिकरणस्याप्यवच्छेदकत्वात् / तत्ववच्छेदकत्वाऽऽदिकम इदं रजतमित्यादि पीतशङ्खवदित्यादिभ्रमवदविरुद्धम् / साऽवच्छेदकता तत्तद्धमाशे समानाधिकरणव्यधिकरणतत्तत्संबन्धावच्छिन्ना, तत्र निरूपकबुद्धित्वं, विशिष्टवैशिष्ट्यबुद्धित्वं बहिव्याप्ये धनवानित्यादावपि संभवतीत्यलं दीधितिकृतः खण्डशो निरुक्ताः, इयमेवानुमित्यादिजनकताऽऽवच्छेदिका नानाप्रकारताऽऽदिघटितधर्मस्य जनकताऽऽद्यवच्छेदकत्वे गौरवादिति / अथ दण्डो रक्त इति निर्णयस्य रक्तत्वदण्डत्योभयधर्माऽवच्छिनप्रकारताकत्वं जन्यताऽवच्छेदकमित्यभ्युपगमेऽपि रक्तत्वधर्मिताऽवच्छेदकदण्डत्वप्रकारकनिर्णयजन्ये दण्डरक्तवानिति विशिष्टवैशिष्ट्यबोधे व्यभिचार इति चेत् / न / रक्तत्वप्रकारतानिरूपितदण्डत्वावच्छिन्न
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy