SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ णय 1871 - अभिधानराजेन्द्रः भाग-४ णय त्वग्रहे स्वविशेषसमवेतत्वसंबन्धेनोक्तस्य हेतुत्वे घटाक्यवगततद्ग्रहात् शुक्लावयवावच्छेदेन चित्रपटसन्निकर्षेऽपि तद्रूपचित्रत्वप्रत्यक्षाऽऽपत्तिरिति वाच्यम्, विशेष्यतया चित्रत्वप्रकारकप्रत्यक्ष एव चरमसमवेतत्वविनिर्मुक्तसंबन्धेन तद्धेतुत्वात् / न च नीलेतररूपत्वाऽऽधवच्छिन्नप्रकारताग्रहो न हेतुर्नीलपीतत्वाऽऽदिनाऽवयवगतनीलपीताऽऽदिग्रहेऽप्यवयविचित्रप्रत्यक्षोत्पादादिति वाच्यम् , विलक्षणचित्रप्रत्यक्षे तेन तेन रूपेण तत्तद्ग्रहस्यापि हेतुत्वात् / वस्तुतो नीलेतररूपत्वाऽऽदिव्याप्यत्वेन नीलेतररूपत्वपीतत्वाऽऽद्यनुगमान्न क्षतिरिति चेत् / न / त्र्यणुकचित्ररूपाग्रहे चतुरणुकचित्रप्रत्यक्षानुपपत्तेः, चित्रावयवाऽऽरब्धे चित्रग्रहेऽवयवविषयकनीलेतररूपत्वाऽऽदिव्याप्यचित्रत्वावच्छिन्नप्रकारकग्रहस्यैव हेतुत्वात्। यदिच नीलेतररूपपीतेतररूपाऽऽदिमदवयवावच्छिन्नेन्द्रियसंनिकर्षस्यावयवनीलाऽऽदिगतनीलत्वाऽऽदिग्रहप्रतिबन्धकदोषाभावानां च चित्रप्रत्यक्षेहेतुत्वम् अतस्त्रसरेणुचित्रस्याऽपि चक्षुषा ग्रह इत्युद्भाव्यते, तदाऽनन्तहेतुहेतुमद्भावकल्पनागौरवात्। चित्रत्वं व्यासज्यवृत्त्यैव, तत्र च समानाधिकरणनानारूपग्रहव्यङ्ग्यत्वमित्येव कल्प्यमानं शोभते। न ह्येवं गौरवं, चित्रत्वग्रहे सामानाधिकरण्येन रूपविशिष्टरूपग्रहत्वेनैव हेतुत्वादुक्तहेत्वभावे चित्रत्वविनिर्मुक्तचित्रप्रत्यक्षस्य चोभयोस्तुल्यत्वात् / यदि च ना-नाऽवयवावच्छिन्नपर्या(य)प्तवृत्ति एक चित्रमप्यनुभूयतेऽत एवैकावयवावच्छेदेन चित्राभावप्रतीतेरप्युपपत्तिरिति स्वीक्रियते, तदैकानेकचित्रद्रव्यस्वभावाभ्युपगमं विना न काऽप्युपपत्तिः, देशस्कन्धनियतधर्माणां तद्ग्राहकसामग्रीग्राह्यत्वेनैवोक्तोपपत्तेः। देशस्कन्धपरिमाणविशेषग्रहेऽपीयमेव गतिरिति दिक् / किच-नीलेतररूपाऽऽदिषट्कस्यैव चित्ररूपे हेतुत्वमित्येतावतैव नोपपत्तिः, अवयवगतोत्कृष्टापकृष्टनीलाभ्यामपि चित्रसंभवात् / ते चोत्कर्षापकर्षा विचार्यमाणा अनन्ता एव / तदाह श्रीसिद्धसेनः" पशुप्पण्णम्मि विप-जयम्मि भयणागई पडइ दव्यं / जं एगगुणाऽऽईया, अणतकप्पा गुणविसेसा "||6|| (स०३का०) व्याख्या-प्रत्युत्पन्ने वर्तमानेऽपि पर्याय भजनागतिं भेदाभेदप्रकार पतत्यासादयति द्रव्यम्, यस्मादेकगुणाऽऽदयः कृष्णत्वाऽऽदयोऽनन्तप्रकारास्तत्र गुणविशेषाः प्रकारवाचिनः। तेषां च मध्ये केनचिदेव गुणविशेषेण युक्तं तदिति कृष्णं हि द्रव्यं द्रव्यान्तरेण तुल्यमधिक मूनं वा भवेत् , प्रकारान्तराभावात् / आद्ये सर्वतुल्यत्वे तदेकताऽऽपत्तिः / उत्तरयोः संख्येयाऽऽदिभागगुणवृद्धिहानिभ्यां षट्स्थानकप्रतिपत्तिरवश्यंभाविनी / तथा च प्रतिनियतहानिवृद्धियुक्तकृष्णाऽऽदिपर्यायेण सत्त्वं, नाऽन्येनेति / इत्थं च नीलत्वाऽऽद्यवान्तरजातीनामनन्तत्वात तरतमशब्दमात्रेण तदनुगमस्य कर्तुमशक्यत्वात् / तत्तदवान्तरजातीयनीलपीताऽऽदीनामनन्तचित्रहेतुत्वकल्पने गौरवमिति षट्स्थानपतितवर्णपर्यायेण चित्रद्रव्यमेव स्वसामग्रीप्रभवमभ्युपगन्तव्यम्; आर्यसमाजसिद्धधर्मस्याऽपि तथा भव्यत्वकार्यतावच्छेदकत्वस्वीकारात् / एतेन चित्रप्रत्यक्षमनेकताऽवच्छेदकमपि चक्षुःसंयोगनिष्ठं वैजात्यं स्वीकर्तव्यमित्यपि निरस्तम् / सूक्ष्मेक्षिकयाऽनन्तावान्तरचित्रानुभवादनन्तवैजात्यकल्पनाऽऽपत्तेरत्यन्ताप्रामाणित्वादिति द्रष्टव्यम् / / अव्याप्यवृत्तिरूपपक्षेऽप्यययवगतोत्कृष्टापकृष्टनीलाभ्यामवयविनी- 1 लेतयोरवच्छिन्नयोः सामान्यसामग्रीवशादर्थादनवच्छिन्नस्य नीलस्योत्पत्तिप्रसङ्गोऽवयविनीलेतरत्वाऽऽद्यवच्छिन्न एवावयवनीलेतरत्वाऽऽदिना हेतुत्वे नीलत्वावच्छिन्नस्याऽऽकस्मिकत्वप्रसङ्गः / किमाकस्मित्वमिति चेत् ? तद्धर्मावच्छिन्नार्थ तयाप्रवृत्तिविरहः, एतत्कारणसत्त्वे नीलत्वावच्छिन्नस्यावश्यमुत्पत्तिरित्यनिश्चयश्च प्रतीयते। तत्र नीलसामान्यमनवच्छिन्नम्, अवच्छिन्नाश्वतद्विशेषाः। केवलशुक्लेऽपि च स्वल्पबह्ववयवावच्छेदेनेन्द्रियसन्निकर्षेऽणुमहत्वोपेतशुक्लविशेषाः, तदनुवक्तं शुक्लसामान्यं चेत्येकानेकवर्णविशिष्टद्रव्यपरिणामाभ्युपगमं विना न कथमपि विस्तारः / एतेनाऽव्याप्यवृत्तिनीलाऽऽदिकल्पने ग्राहकान्तरकल्पने अव्याप्यवृत्तिद्रव्यसमवेतप्रत्यक्षत्वाऽवच्छिन्नं प्रति चक्षुःसंयोगकावच्छेदकावच्छिन्नसमवायसंबन्धावच्छिन्नाऽऽधारतासंनिकर्षण, संयोगाऽऽदिप्रत्यक्षस्थले क्लुप्तेनैवानतिप्रसङ्गात् / नीलपीतोभयकपालाऽऽरब्धघटीयनीले च नीलकपालिक्येव परम्परयाऽवच्छेदिकेत्यभ्युपगमादित्यादि निरस्तम् / शाखामूलोभयावच्छिन्नदीर्घतन्तुतरुसंयोगवन्नीलेतरोभयाऽऽद्यवयवावच्छिन्नविलक्षणरूपस्याऽनुभवसिद्धत्वेन तद्ग्राहकोभयाऽऽदिपर्याप्तावच्छेदकताकाऽधिकरणतागर्भसंनिकर्षाऽऽदिकल्पनाया अप्यावश्यकत्वादुपदर्शितसंयोगस्थलेऽपि एकैकावच्छिन्नसंयोगद्वयस्वीकारेच तद्वत्तिकृता सर्वेश्च नीलेतराऽऽरब्धेsवयविनि नीलानीलं स्वस्वावच्छेदेन समुत्पद्यमान रूपमविरोधाद् व्यापकमेवोत्पद्यते, सजातीयविजातीयेषु नानापदार्थेषु जायमानं समूहाऽऽलम्बनमिवैकं ज्ञानमिति सर्व विलूनशीर्ण स्यात् , यथा दर्शनसंस्कारतात्पर्याभ्यां नानकसंयोगरूपाभ्युपगमे व्यञ्जितं स्याद्विनैव ? एतेन नानारूपवदवयवाऽऽरब्धे व्याप्यावृत्तीन्येव नीलपीताऽऽदीन्युत्पद्यन्ते, नीलाऽऽदिकं प्रति नीलेतराऽऽदिप्रतिबन्धकत्वनीलाऽऽदिकारणत्वकल्पनापेक्षया व्याप्यवृत्तिनीलपीताऽऽदिकल्पनाया एव न्याय्यत्वादित्यपि परेषां मतं निरस्तम्, नीलकपालावच्छेदेन चक्षुःसन्निकर्षे पीताऽऽदेरुपलम्भाऽऽपत्तेरपि तत्र दोषत्वात् / तदाह सम्मतिटीकाकार:- "आश्रयव्यापित्वेऽप्येकावयवसहितेऽप्यवयविन्युपलभ्यमाने-ऽपरावयवानुपलब्धावप्यनेकरूपप्रतिपत्तिः स्यात् , सर्वरूपाणामाश्रयव्यापित्वादिति।" न च नीलाऽऽद्यवयवावच्छिन्नसन्निकर्षस्य नीलाऽऽदिग्राहकत्वकल्पनाददोषः, पीतकपालिकाऽवच्छिन्ननीलपीतोभयकपालावच्छेदेन संनिकर्षेऽपि नीलग्रहप्रसङ्गात्। न च केवलनीलावयवावच्छिन्नसन्निकर्ष एव ग्राहक इति वाच्यम् , नीलपीतोभयव्यणुकाऽऽरब्धत्रसरेणुनीलप्रत्यक्षाऽऽपत्तेः / परमाणुसंनिकर्षेऽस्यैव परमाण्ववच्छिन्नसंनिकर्षस्याऽपि द्रव्याग्राहकत्वेन तद्गतरूपाग्राहकतया चित्रस्वभावत्वमानुभविकम्, तथा ग्राहके ज्ञानेऽपि तत्राखण्डाया एकाऽऽकारतायाः, सखण्डानां च नानाऽऽकारताविशेष्यतासांसर्गिकविषयताना नयनिरूपितानां शुद्धानां चानुलोमप्रतिलोमभावेन समानम् , संवितसंवेद्यतानियामक वैचित्र्यशालिनीनां च बह्वीनामनुभवात् / अत एव " सावज्जजोगविरओ, तिसु गुत्तो छसु सुसंजुतो। उवउतो जयमाणो, आया सामाइयं होइ॥ 1 // " इति सप्तनयाऽऽत्मकमहावाक्यार्थजज्ञाने एकाऽवशिष्टा प्रमाणाऽऽकारता, अनेकाश्वांशिक्यो नयविषयतापरस्परसंयोगजाश्च बढ्योऽनुभूयन्ते। नैयायिकास्तुविशेषणं, तत्र च विशेषणान्तरम् 1, विशिष्टस्य वैशिष्ट्यम् 2, एक विशिष्ट ऽपरवैशिष्ट्यम् 3, एकत्र द्वयम् 4, इत्येवं चतुर्धा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy