SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ णय 1975 - अभिधानराजेन्द्रः भाग - 4 णय शिष्ट्यबुद्धिस्थले नवत्यंशे निश्चयाऽऽत्मकमेकं ज्ञानं हेतुभूतं कल्पनीयम्। ततः पूर्व चैकै कहासेनाष्टानवतिज्ञानानि पश्चानुपूर्व्या हेतुभूतानि कल्पनीयानीति सर्वमिदमनुभवसिद्धम् / तत्र विशृङ्खलोपस्थितवद्विशेषणमिति रीत्या बोधस्वीकारे च तत्र दण्डांशेऽनुभूयमानस्य निश्चयाऽऽकारस्य नियामकः, तत्र संशयसामग्र्यभाव एवाऽवाच्यः / तथा चविशिष्टवैशिष्ट्यविषयिता वहिव्याप्यतदभाववद-धूमवानित इव पर्वतो वहिव्याप्यधूमवान्न वेत्यादितोऽपि व्यावृत्ताऽस्तु, तदवच्छिन्ननियामकश्च तत्तत्संशयसामग्र्यभाव एवेति विषयताविशेषपर्यनुयोगे किमुत्तरम् ? तस्मात् क्षयोपशमविशेषजन्यताऽवच्छेदिकाः समनियता एवैता विषयिताः, अत्राऽपेक्षाभेदेन प्रतीयमाना असमुदितपर्याप्ता अनेकाः प्रतिपत्तव्याः, ग्राह्यस्येव ग्राहकस्य चित्रस्वभावस्यापेक्षयैव विवेचयितुं शक्यत्वात्। हन्तवमखण्डोऽपि विषयताविशेषः सिद्धयेत्, सामान्यदृष्ट्या तथाऽप्यनुभवात्। तथा च-एतेनैव परामर्शाऽदेर्हेतुत्वाऽऽपत्तिरिति चेत्। सत्यम् / भावसंग्रहेण विषताविशेषणे शक्तिविशेषणे वा हेतुत्वेऽभावसंग्रहेण चाभावविशेषणे तथात्वे बाधकाभावाद् व्यवहारोच्छेदस्य व्यवहारनयसिद्धकार्यकारणभावे तैरेव निराकरणात्। अनुभवसिद्धास्तु ग्राह्यग्राहकनिष्ठाः सामान्यविशेषधर्मान कल्पनामात्रेणाऽऽपादितुं शक्या इति दिक्। " उत्तिष्ठन्तु विकल्पवीचिनिचयाः पर्यायमर्यादया, द्रव्यार्थाऽऽदियुते तु चेतसि चिरंशाम्यन्तु तत्रैव ते। वस्तु प्रस्तुतमस्तु सागरसमं सर्वोपपत्तिक्षम, बाह्य वा स्फुटमान्तरं समुचितस्याद्वादमुद्राङ्कितम्॥१॥ ईहाऽपायपरम्परापरिचयः सर्वोऽप्ययं युज्यते, वस्त्वंशेऽप्युपयोगमाकलयतामन्तर्मुहूर्तावधि। अन्येषां तु विकल्पशिल्पघटितो बोधस्तृतीयक्षणध्वंसी ध्वस्तसमस्तहेत्वमिलितः कस्मिन् विचारे क्षमः? // 2 // तदेवमेकानेकरूपा नयप्रमाणप्रतिपत्तयः प्रामाणिका इति स्थि-तम्॥ 7 / नयो०। (11) ननु यदि प्रमाणं नयाः तर्हि ' प्रमाणनयैरधिगमः' इति प्रमाणनयभेदकल्पनावैयर्थ्यप्रसक्तिः / अथाप्रमाणं, तथाऽप्यधिगमानुपपत्तिः, तत्पृथग्भूतस्यापरस्यासंवेदनात् , प्रमाणाभावाप्रसक्तिश्च / असदेतत् / यतोऽप्रमाणं नयाः, नयन्तीतररूपसापेक्ष स्वविषयं परिच्छिन्दन्तीति नया इति व्युत्पत्तेः / न चापरिच्छेदकाः, नयतेर्गत्यर्थत्वेन ज्ञानार्थत्वात् , ज्ञानस्य च परिच्छेदाऽऽत्मकत्वा-त्।न च परिच्छेदाऽऽत्मकत्वेऽपि प्रमाणता, समस्तनयविषयी-कृतानेकान्तवस्तुग्राहकत्वेन प्रकृष्ट मानं प्रमाणम् इतरांशसव्य-पेक्षस्वांशग्राही नव इति, तत्स्वतस्त्ववस्थितेः। न चाऽनेकान्ता-ऽऽत्मकवस्तुग्राहिणो नया न भवन्ति, प्रत्येकं स्वविषयनियतत्वात् तेषां तद्व्यतिरिक्तस्य वाऽन्यस्य तद्विषयस्याऽननुभवात् / प्रमाणा-भावोऽपि न आत्मनः, कथञ्चित् तद्व्यतिरिक्तस्य प्रमाणत्वेनानु-भवसिद्धत्वात् / तत्तन्नयविषयीकृताशेषवस्त्वंशाऽऽत्मकैकद्रव्यग्राहकत्वस्य तत्र प्रतीतेः। न च संशयाऽऽदिज्ञानैरात्मनः प्रमाणात्वेऽतिप्रसङ्गः, प्रमीयतेऽनेन प्रमिणोतीति वा प्रमाणमिति प्रशब्देन तस्य निरस्तत्वात् / न चाऽऽत्मनः कर्तृत्वात् करणरूपप्रमाणताऽनुपपत्तिः, उत्पादव्ययध्रौव्याऽऽत्मकस्य तस्याऽनेककयत्वेन कर्तृकरणभावाविरोधात्। एतेन प्रत्येकं मिथ्यादृष्टयो नयाः समुदिताः सम्यक्त्वं प्रतिपद्यन्त इत्यत्र नयसमुदायार्थं दृष्टे प्रत्येकमदृष्टत्वाद्जात्यन्धसमूहवदित्येतन्निरस्तम्, अदृष्टतत्समूहसम्यक्त्वानभ्युप-गमात् ; स्वविषयपरिच्छेदकत्वाच नयानामदृष्टत्वाच / नयानाम-दृष्टत्वादिति हेतुरसिद्धिः, परिपूर्णवस्त्वनधिगन्तृत्वाऽऽदिहेतौ प्रतिज्ञार्थकदेशाऽसिद्धिः, सिद्धसाध्यता च समुदायिनो दृष्टत्वनिषेधे साध्ये; अथ तत्समुदायस्य दृष्टत्वनिषेधः साध्यः, तदाऽध्यक्ष-विरोधः, समुदाय्यतिरिक्तस्यैकान्तेन समुदायस्याभावात् धर्मिणो-ऽप्रसिद्धिः, साध्यतावचनसमुदायाभावे नया एव परस्परव्यावृत्त-स्वरूपा इति न क्वचित् सम्यक्त्वम् , नयप्रमाणाऽऽत्मकै कवैष-म्यप्रतिपत्तेः, रत्नावलीवदिति। एतदाहजहऽणेगलक्खणगुणा, वेरुलियाऽऽईमणी विसंजुत्ता। रयणावलिववएसं, न लहंति महग्घमुल्ला वि॥ 22 // यद्वा-यत्प्रत्येकं न नयेषु सम्यक्त्वंतत्तेषा समुदायेऽपि न भवति, यथा सिकतासु प्रत्येकमभवत् तैलं तासां समुदायेऽपि न भवति / अत्र हेतोरनैकान्तिकताप्रतिपादनार्थमाह-(जहऽणेगलक्खणे-त्यादि) यथाऽनेकप्रकाराः-विविधानि हेतुत्वाऽदीनि लक्षणानि नीलत्वाऽऽदयश्च गुणा येषां ते, वैडूर्याऽऽदयोऽनध्यमणयः पृथग्भूता रत्नावलीव्यपदेशं न लभन्ते महार्घमूल्या अपि। तहणिययवायसुविणिच्छिया वि अण्णोण्णपक्खणिरवेक्खा। सम्मइंसणसई, सव्वे वि णया णं पार्वेति / / 23 / / तथा प्रमाणावस्थायामितरसव्यपेक्षस्वविषयपरिच्छेदकाले वा स्वविषयपरिच्छेदकत्वेन सुनिश्चिता अप्यन्योऽन्यपक्षनिरपेक्षाः प्रमाणमित्याख्यां सर्वेऽपि नया न प्राप्नुवन्ति निजकवादनिरपेक्षाः, सामान्याऽऽदिवादे सुविनिश्चिता हेतुप्रदर्शनकुशला अन्योऽन्यपक्षनिरपेक्षत्वात्सम्यग्दर्शनशब्दं सुनया इत्येवं रूपं सर्वेऽपि संग्रहा-ऽऽदयो नया न प्राप्नुवन्ति। जह पुण ते चेव मणी, जहा गुणविसेसभागपडिबद्धा। रयणावलि त्ति भण्णइ, जहंति पाडिकसण्णाओ॥ 24 // यथा पुनस्त एव मणयो यथा गुणविशेषपरिपाट्या प्रतिबद्धा रत्नावलीत्याख्यामासादयन्ति, प्रत्येकाभिधानानि च त्यजन्ति, रत्नानुबिद्धतया रत्नावल्यास्तदनुबिद्धतया च रत्नानां प्रतीतेः, रत्नावलीति तत्र व्यपदेशः, न पुनः प्रत्येकाभिधानम् // 24 / / तह सव्वे णयवाया, जहाऽणुरूवं णिउत्तवत्तव्वा। सम्मइंसणस,लहंति ण विसेससण्णाओ।।२५।। तथा सर्वे नयवादा यथाऽनुरूपं विनियुक्तवक्तव्या इति / यथे- ति वीप्साऽर्थे, अनुरिति सादृश्य, रूपमिति स्वभावः, तेनानुरूपमित्यव्ययीभावः। पुनर्यथाशब्देन स एव" यथा सादृश्ये"।२।१।७। (पाणि०) इत्यनेन। यद्यदनुरूपंतत्र विनियुक्तंवक्तव्यम्, उपचारात्त-द्वाचकः शब्दो येषां ते तथा, यथाऽनुरूपं द्रव्यध्रौव्याऽऽदिषु प्रमाणाऽऽत्मकत्वेन व्यवस्थिताः सम्यग्दर्शनं प्रमाणमित्याख्यां लभन्ते, न विशेषसंज्ञाः पृथग्भूताभिधानानि; एकाऽऽत्मकत्वेन चैतन्य-प्रतिपत्तेः; अन्यथा चाऽप्रतिपत्तेरिति / ननु नयप्रमाणाऽऽत्मकचैतन्यस्याध्यक्षसिद्धत्वेन रत्नावलीतिदृष्टान्तोपादानं व्यर्थम् , न / अध्यक्षसिद्धमप्यनेका
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy