________________ णय 1567- अभिधानराजेन्द्रः भाग - 4 णय च तदभावात् / न च शरीराऽऽवत्तत्वे सति तस्य मिथ्यात्वाऽऽदिबन्धहेतुभियोगः, तस्मात्र तत्प्रतिबद्धमितीतरेतराश्रयत्वम् , अनादित्वाभ्युपगमेनास्य निरस्तत्वात् / न च शरीरसंबन्धात् प्रागात्मनोऽमूर्त्तत्वम् , सदा तैजसकार्मणः शरीरसंबन्धात् प्रागात्मनोऽमूर्त्तत्वम्, सदा तैजसकार्मणः शरीरसंबन्धात् संसारावस्थायां तस्यान्यथाभावात् स्थूलशरीरसंबन्धित्वायोगात् / पुद्गलोपष्ट - म्भव्यतिरेकेणोद्धगतिस्वभावस्यापरदिग्गमनासंभवात्स्थूलशरीरेणातिसूक्ष्मस्य रज्ज्वादिनेवाऽऽकाशस्य संबन्धायोगात् संसारिशून्यमन्यया जगत्स्यादिति संसार्यात्मनः सूक्ष्मशरीरसंबन्धित्वं सर्वदाऽभ्युपगन्तव्यम्। अथ शरीराऽऽत्मनोस्तादात्म्ये शरीरावयवच्छेदे आत्मावयवस्यापि छेदप्रसक्तिः, अच्छेदे तयोर्भेदप्रसङ्गः।न।कथञ्चिच्छेदस्याभ्युपगमाद्, अन्यथा शरीरात्पृथग्भूतावयवस्य कम्पोपलब्धिन भवेत् / न च छिन्नावयवानुप्रविष्टस्य पृथगात्मत्वप्रसक्तिः, तत्रैव पश्चादनुप्रवेशाच्छिन्ने हस्ताऽऽदौ कम्पाऽऽदितल्लिङ्गादर्शनादियं कल्पना / न चाऽन्यत्र गमनात् तस्य तल्लिङ्गानुपलब्धिरेकत्वादात्मनः, शेषस्याऽपि तेन सह गमनप्रसक्तावेकर संततावनेक आत्मेत्येकज्ञानवद् ज्ञानिनामेकत्राऽनुभवाधारे प्रतिभासप्रसक्तेः, शरीरान्तरव्यवस्थितात्मान्तरवत्। न च पृथग्भूतहस्ताऽऽद्यवयवव्यवस्थितोऽसौ, न तत्रैव विनष्ट इति कल्पनाऽपि युक्तिसंगता, शेषस्याऽप्येकत्वेन तद्वद्विनाशप्रसक्तेः। ततोऽन्यत्रागतेस्तत्रासत्त्वादविनष्टत्वाच तदनुप्रवेशोऽवसीयते, गत्यन्तराभावात्। न चैकत्वे आत्मनो विभागाभावात् छेदाभाव इति वक्तव्यम् , शरीरद्वारेण तस्यापि सविभागत्वात् / अन्यथा सावयवशरीरव्यापिता तस्य कथं भवेत् ? नचामूर्तद्रव्याऽऽदिव्यवच्छिन्नावयवस्य सर्वदैव तस्य तथाभावः, उत्तरकालमपि तदवयवोपष्टम्भोपलब्धस्यार्थस्य तथैव स्मरणादन्यथा त्वतदर्शनात् / न चासावारभ्य मूर्तद्रव्यवव्यणुकाऽऽदिप्रक्रमेणावस्थितसंयोगैस्तैरभावः, येन तद्वत्त्वस्य तथैव भावप्रसक्तिः। नचानारब्धत्वात्तस्य निरवयवत्वं, शरीरसर्वगतत्वाभावप्रसक्तेः। नचशरीरासर्वगतोऽसौ, तत्र सर्वत्रैव स्पर्शापलम्भात्। न तद्व्यापकस्य तच्छेदे छेदः, अतिप्रसङ्गात्।नचतदवयवच्छेदेन छिन्नः, तत्र कम्पाऽऽद्युपलब्धेरतस्तत्रैवानुप्रविष्ट एकत्वादितिज्ञायते कथं छिन्नाछिन्नयोः संघटनं पश्चादिति / न चैकान्तेन च्छेदाभावात्पद्मनालतन्तुवद् विच्छेदाभ्युपगमाद् विघटनमपि तथाभूतादृष्टवशादविरुद्धमेव / न चाऽऽत्मनः शरीरमात्रव्यापकत्वेऽन्यशरीरगत्यन्तरसंबन्धान्यथानुपपत्त्या गतिक्रियाप्रसक्तेरनित्यत्वप्रसक्तिर्दोषः, कथञ्चित्तस्येष्टत्वात्, गृहान्तर्गतप्रदीपप्रभावत् संकोचविकाशाऽऽत्मकत्वेन तस्य न्यायप्राप्तत्वात्। न च देहाऽऽत्मनोरन्योन्यानुबद्धत्वे देहे भस्मसाद्भावे आत्मनोऽपि तथात्वप्रसक्तिः, क्षीरोदकवृत्तयोर्लक्षणभेदान्नाभेदात्। न हि भिन्नस्वरूपयोरन्योन्यानुप्रवेशे सत्यप्येकक्षयोऽपरस्य क्षयाय, यथा पच्यमाने क्षीर प्रथममुदकक्षयोऽपि न क्षीरक्षयाय / न चेह लक्षणभेदो नास्ति / तथाहिरूपरसगन्धस्पर्शाऽऽदिधर्मवन्तः पुद्गलाः, चेतनालक्षणश्वात्मेति सिद्धस्तयोर्लक्षणभेदः / यथा चैकान्तामूर्ताऽऽदिरूपत्वेऽर्थक्रियाऽऽदेर्व्यवहारस्याभावस्तथा प्रतिपादितमनेकधेति मूर्त्तामूधिनेकान्ताऽऽत्मकत्वमात्मनोऽभ्युपगन्तव्यम्। अस्य च मिथ्यात्वाऽऽदिपरिणतिवशोपात्तपुद्गलान्ताद् विभागलक्षणो बन्धः, तद्वशोपनतसुखदुःखाऽऽद्यनुभवस्वरूपश्च भोगोऽनेकान्ताऽऽत्मत्वे सत्युपपद्यते / अन्यथा तयोरयोग इति प्रतिपादनार्थमाह- / (दव्वट्टियस्सेत्यादि) अथवा परस्परसापेक्षद्रव्यास्तिकपर्यायास्तिकयोः प्ररूपणा प्रदर्शितन्यायेन संभविनी, निरपेक्षयोः कथंसा ? इत्याहदव्वट्ठियस्स आया, बंधइ कम्म फलं च वेएइ। विइयस्स भावमेत्तं, ण कुणइ ण य कोइ वेएइ / / 51 / / द्रव्यास्तिकस्येयं प्ररूपणाऽऽत्मकस्थायी कर्म ज्ञानाऽऽदिनिब-न्धकं बध्नाति स्वीकरोति, तस्य कर्मण: फलं च कार्यभूतं वेदयते भुङ्क्ते आत्मैव / द्वितीयस्य तु पर्यायार्थिकस्येयं प्ररूपणानैवाऽऽत्माप्यस्ति, किंतु भावमात्रं विज्ञानमात्रमितिन करोति,नच कश्चिद्वेदयते, उत्पत्तिक्षणानन्तरध्वंसिनः कर्तृत्वानुभवितृत्वायो-गात्। तथेयमपि तयोर्भूतयोः प्ररूपणेत्याहदव्वट्ठियस्स जो चेव कुणइ सो चेव वेयई णियमा। अण्णो करेइ अण्णो, परिमुंजइ पज्जवणयस्स / / 52 / / य एव करोति स एव वेदयते, नित्यत्वात् , द्रव्यास्तिकस्यैतन्मतम् / अन्यः करोत्यन्यश्च भुक्ते, क्षणिकत्वात , पर्यायस्य नयस्यैतन्मतम्। ननु पूर्वगाथोक्तमेव पुनरपि तदेव तावत्पिष्टपेषणमाचार्येण कृतं भवेत्। न / उत्पत्तिसमनन्तरमेव करणं भोगो वा संभवीति प्राक् प्रतिपादितम्, इहोत्पत्तिक्षण एव कर्ता तदनन्तरक्षणश्च भोक्तेति न पुनरुक्तम्। भोक्तृत्वं चपरैः भुक्तिर्येषां क्रिया सैव कारकः सैव चोचित इति। इयमसंयुक्तयोरनयोः स्वसमयप्ररूपणा न भवति, या तु स्वसमयप्ररूपणा, तामाहजं वयणिअवियप्पा, संजुजंतेसु होंति एएसु / सा ससमयपण्णवणा, तित्थयरासायणा अन्ना / / 53 / / ये वचनीयस्याभिलापस्य विकल्पास्तत्प्रतिपादका अभिधानभेदाः, संयुज्यमानयोरन्योऽन्यसंबद्धयोर्भवन्त्यनयोर्द्रव्यास्तिकपर्यायास्तिकवाक्यनययोः, तेच कथञ्चिन्नित्य आत्मा कथञ्चिदमूर्त इत्येवमादयः, सैषा स्वसमयस्येति तदर्थस्य प्रज्ञापना निदर्शना। अन्या तु निरपेक्षयोस्नयोरेव नयोर्या प्ररूपणा तीर्थकरस्याऽऽसादनाऽधिक्षेपः।" एगमेगेण जीवस्य पएरने अणंतेहिं णाणावरणिज्जपोग्गलेहिं आवेढिए पवेडिए " इति तीर्थकृद्वचने प्रमाणोपपन्ने सत्यपि" नामूर्त मूर्ततामेति, मूर्त नायात्यमूर्त्तताम् / द्रव्यं कालत्रयेऽपीत्थं, च्यवते नात्मरूपतः " / / 1 / / इति तीर्थकृन्मतमेवैतन्त्रयवादनिरपेक्षमिति कैश्चितप्रतिपादयस्तिस्याधिक्षेपप्रदानात् परस्परनिरपेक्षयोः नययोः प्रज्ञापना तीर्थकराऽऽसादनेति। अस्थापवादमाहपुरिसज्जायं तु पडुच जाणओ पण्णविज्ज अण्णयरं / परिकम्मणानिमित्तं, दाएहा सो विसेसं पि।। 54 / / पुरुषजातं प्रतिपन्नपर्यायान्यतरस्वरूपं श्रोतारं या प्रतीत्याऽऽश्रित्य ज्ञायकः स्याद्वादवित् , प्रज्ञापयेदवक्षीत, अन्यतरत् पर्यायं द्रव्यं वाऽभ्यु-पेतपर्यायं द्रव्यमेवाङ्गीकृतद्रव्यार्थ च पर्यायमेव कथयेत् / किमित्येकमेव कथयेत् ? परिकर्मनिमित्तं बुद्धिसंस्कारार्थ, परिकर्मितमते दर्शयिष्यते। सः स्याद्वादाभिज्ञः विशेषमपि द्रव्यपर्याययोः परस्पराविनिर्भागरूपम् , एकांशविषयविज्ञानस्यान्यथा विपर्ययरूपताप्रसक्तिः स्यात् ; तदितराभावे तद्विषयस्याऽ