SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ णय 1966 - अभिधानराजेन्द्रः भाग - 4 णय पुरुषो वेति प्रतिपक्षादिव प्रकृतानिश्चये सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद् विशेषस्मृतेश्व संशय इति निमित्तमस्तिनच व्यधिकरणेनादोषप्रसक्तिरिति, घटकपालविनाशोत्पादयोर्मुद्रव्याऽऽधिकरणतया प्रतिपत्तेः / न चोभयदोषानुषङ्गः, त्र्यात्मकस्य वस्तुनो जात्यन्तरत्वात्। सङ्करदोषप्रसक्तिरपि नास्ति, अनुगतव्यावृत्तेस्तदात्मके वस्तुनि स्वस्वरूपेणैव प्रतिभासनात् / अनवस्थादोषोऽपि न संभवी, भिन्नोत्पादव्ययध्रौव्यव्यतिरेकेण तदात्मकस्य वस्तुनोऽध्यक्ष प्रतिभासनात् स्वयमतदात्मकस्याऽपरयोगेऽपि तदात्मकताऽनुपपत्तेः, अन्यथाऽतिप्रसङ्गात् / तथा प्रतिभासादेवाभावाद्दोषोऽपिनसंभवी, अवाधितप्रतिभासस्यतदभावेऽभावाद् , भावेवानतावदवस्तुव्यवस्थितिरिति सर्वव्यवहारोच्छेदप्रसक्तिः। न च त्र्यात्मकत्वमन्तरेण घटस्य कपालदर्शनाद्विनाशानुमानं संभवति, तत्र तेषां प्रतिबन्धानवकाशात् / न हि तद्विनाशनिमित्तानि मुद्गराऽऽदीनि, हेतुत्वाद्भावस्य कारणत्वात्सत्त्वासत्त्वाच यद्यपिघटहेतुकानि तानि, तथाऽपि घटसद्भावमेव गमयेयुर्न तदभावम्, न हि धूमः / पावकहेतुकस्तदभावगमक उपलब्धः, नवा भिन्ननिमित्तजन्यता तयोः प्रतिबन्धः, भावस्यांशकार्यताऽभ्युपगमात् / नाऽपि तादात्म्यलक्षणः, तयोस्तादात्म्यायोगात्। न च घटस्वरूपव्यावृत्तत्यात्तेषां तदभावप्रतिपत्तिजनकत्वम् , सकलत्रैलोक्याभावप्रति-पत्तिजनकत्वप्रसक्तेः, तेषां ततोऽपि व्यावृत्तस्वरूपत्वात् / न च घटविनाशरूपत्वात्तेषां वायं दोषः, तेषां वस्तुरूपत्वाद्विनाशस्य च निःस्वभावत्वात् , तथा च तादात्म्यविरोधः, अन्यथा घटानुपलम्भवत्तेषामपि तदनुपलब्धिर्भवेत् , तस्मात्प्रागभावाऽऽत्मकः सन घटः प्रध्वंसाभावाऽऽत्मकता प्रतिपद्यत इत्यभ्युपगन्तव्यम्। अन्यथा पूर्वोक्तदोषानतिवृत्तिः। सत्त्वलक्षणस्याऽपि हेतोर्गमकत्वमनेनैव प्रकारेण संभवति / अन्यथोत्पत्त्यभावादस्त्वित्वाभावः, तदभावे विनाशस्याऽप्यभावः, असतो विनाशायोगादिति त्र्यात्मकमेकं वस्त्वभ्युपगन्तव्यम्, अन्यथा तदनुपपत्तेरिति प्राक् प्रदर्शितत्वाद् न पुनरुच्यते / यथा चाऽऽत्मनः परलोकगामित्वं शरीरमात्रव्यापकत्वं च तथा प्रतिपादितमेव / ननु शरीरमात्रय्यापित्वे तस्य गमनाभावाद्देशान्तरे तद्ग्रहणोपलब्धिर्न भवेत् , न च तदधिष्ठितशरीरस्य गमनाविरोधात्पुरुषाधिष्ठितदारुयन्त्रवत् / न च मूर्त्तामूर्तयोघंटाऽऽकाशयोरिव प्रतिबन्धाभावान्मूर्तशरीरगमनेऽपि नामूर्तस्याऽऽत्मनो गमनमिति वक्तव्यम् , संसारिणस्तस्यैकान्तेनामूर्तत्वासिद्धेस्तव प्रतिबद्ध्यत्वाभावासिद्धेः। एतदेवाऽऽहअण्णोणाऽणुगयाणं, इमं व तं व त्ति विभयणमजुत्तं / जह दुद्धपाणियाणं, जावंतविसेसपज्जाया।। 47 // अन्योन्यानुगतयोः परस्परानुप्रविष्टयोरात्मकर्मणोरिद वा तद्वेतादं कर्म अयमात्मेति यद्विभजनं पृथक्करणं तदयुक्तमघटमानकम् , प्रमाणाभावेन कर्तुमशक्यत्वात् , यथा दुग्धपानीययोः परस्परप्रवेशानुप्रविष्टयोः / किंपरिमाणोऽयमविभागो जीवकर्मप्रदेशयोरित्याह-यावन्तो विशेषपर्यायाः, तावान् , अत एवमवस्तुत्वप्रसक्तेरन्त्यविशेषपर्यन्तत्वात्सर्वविशेषाणाम्। अन्त्य इति विशेषणाऽन्यथाऽनुपपत्ते वकर्मणोरन्योऽन्यानुप्रवेश इत्याहरूवाऽऽइपज्जवा जे, देहे जीवदवियम्मि सुद्धम्मि। ते अण्णोण्णाऽणुगया, पण्णवणिज्जा भवत्थम्मि।। 48 // रूपरसगन्धस्पर्शाऽऽदयो ये पर्याया देहाऽऽश्रिता जीवद्रव्ये विशुद्धरूपे च ये ज्ञानाऽऽदयस्तेऽन्योन्यानुगता जीवे रूपाऽऽदयो देहे ज्ञानाऽऽदय इति प्ररूपणीया भयस्थे संसारिणि, अकारप्रश्लेषाद्वाऽसंसारिणि। न च संसारावस्थायां देहाऽऽत्मनोरन्योन्यानुबन्धाद्रूपाऽऽदिभिस्तद्व्यपदेशः, मुक्तावस्थायां तु तदभावान्नासौ युक्त इति वक्तव्यम् , तदवस्थायामपि देहाऽऽद्याश्रितरूपाऽऽदिग्रहणपरिणतज्ञानदर्शनपर्यायद्वारेणाऽऽत्मनस्तथाविधत्वात् , तथा व्यपदेशसंभवादात्मपुद्गलयोश्व रूपाऽऽदिज्ञानाऽऽदीनामन्योऽन्यानुप्रवेशात्कथश्चिदेकत्वमनेकत्वं च मूर्तत्वममूर्त्तत्वं वा व्यतिरेकात्सिद्धमिति। एतदेवाऽऽहएवं एगे आया, एगे दंडो य होइ किरियाए। करणविसेसेण य तिवि-हजोगसिद्धी उ अविरुद्धा / / 46 // एवमित्यनन्तरोदितप्रकारेण मनोवाक्कायद्रव्याणामात्मन्यनुप्रवेशादात्मैव, नतद्व्यतिरिक्तास्त इति तृतीयाङ्कस्थान (एगे आया इति) प्रथमस्तत्र प्रतिपादितः सिद्धएक आत्माएको दण्ड एका क्रियेति भवति, मनोवाक्कायेषु दण्डक्रियाशब्दौ प्रत्येकमभिसंबन्धनीयौ, करणविशेषेण च मनोवाक्कायस्वरूपेणाऽऽत्मन्यप्रवेशावाप्तविविधयोगस्वरूपत्वात्रिविध-योगसिद्धिरपि आत्मनोऽविरुद्धैवेति / एकस्य सतस्तस्य त्रिविधयोगाऽऽत्मकत्वादनेकान्तरूपता व्यवस्थितैवानचाऽन्योन्यानुप्रवेशादेकाऽऽत्मकत्वे बाह्याभ्यन्तरविभागाभाव इति। अत्र हर्षविषादाssद्यनेकविवर्ताऽऽत्मकमेकं चैतन्यं, यथेह बालकुमारयौवनाऽऽद्यनेकावस्थैकाऽऽत्ममेकं शरीरमध्यक्षतः संवेद्यत इत्यस्याविरोधः, बाह्याभ्यन्तरविभागावपि निमित्तान्तरतद्व्यपदेशसंभवात्। एतदेवाऽऽहण य बाहिरओ भावो, अभितरओ य अस्थि समयम्मि। जो इंदियं पुण् पडुच होइ अभितरो भावो / / 50 // आत्मपुद्गलयोरन्योऽन्यानुप्रवेशादुक्तप्रकारेणार्हतप्रणीतशासनेन बाह्यो भावोऽभ्यन्तरोवा संभवति, मूर्तामूर्युत्पादितत्वादनेकाऽऽत्मकत्वाच्च, संसारोदरवर्तिनः सकलवस्तुनोऽभ्यन्तर इति व्यपदशेस्तु नोइन्द्रियमनःप्रतीतस्याऽऽत्मपरिणतिरूपस्य पराप्रत्यक्षत्वाच्छरीरवानिव / न च शरीराऽऽत्मावयवयोः परस्परानुप्रवेशात् शरीराभेदे आत्मनोऽपि तद्वत्परप्रत्यक्षताप्रसक्तिः, इन्द्रियज्ञानस्याशेषपदार्थस्वरूपग्राहकत्वायोगादित्यस्य प्रतिपादयिष्यमाणत्वात्। अतः शरीरप्रतिबद्धत्वमात्मनोन भवति, अमूर्तत्वात्। अत्र योगे हेतुरसिद्धः, यदि चात्मपरिणतिरूपमनसः शरीरादाव्यन्तिको भेदः स्यात्तद्विकाराविकाराभ्यां शरीरस्य तत्त्वं न स्यात् , तदुपकारापकाराभ्यां या आत्मनः सुखदुःखानुभवश्च न भवेत् , शरीरविघातकृतश्च हिंसकत्वमनुपपन्नं भवेत्। शरीरपुष्ट्यादेरागाऽऽधुपचयहेतुत्वं, शरीरस्य कृशोऽहं स्थूलोऽऽहमिति प्रत्ययविषयत्वं च दूरोत्सारितं भवेत् / पुरुषान्तरशरीरस्येव घटाऽऽकाशयोरपिप्रदेशोऽन्योन्यप्रदेशलक्षणो बन्धोऽस्त्येवेत्ययुक्तो दृष्टान्तः, अन्यथा घटस्यावस्थितिरेव न भवेत्, न वाऽन्योन्यानुप्रवेशसभावेऽप्याकाशवच्छरीरपरतन्त्रताऽऽत्मनोऽनुपपन्ना, मिथ्यात्वाऽऽदेः पारतन्त्र्यनिमित्तस्याऽऽत्मनि भावात् , आकाशे
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy