________________ णय 1865 - अभिधानराजेन्द्रः भाग - 4 णय पडिपुण्णजोव्वणगुणो, जह लज्जइ बालभावचरिएहिं। कुणइ य गुणपणिहाणं, अणागयसुहोवहाणत्थं // 43 / / प्राप्तयौवनगुणः पुरुषो लज्जते बालभावसंवृत्ताऽऽत्मीयानुष्ठानस्मरणात्-पूर्वमहमप्यस्पृश्यसंस्पर्शाऽऽदिव्यवहारमनुष्ठितवान् / यथेत्युदाहरणार्थो गाथायामुपन्यस्तः, यथैवं ततोऽतीतवर्तमानयोरेकत्वमवसीयते / करोति च गुणेषुत्साहाऽऽदिषु प्रणिधानमेकायम, अनागतं यत्सुखंतस्योपधान प्राप्तिः, तस्यैतदर्थमपि, तस्मा-त्सुखसाधनात्सुखं प्राप्तव्यमिति, यतश्चैवमतोऽनागतवर्तमानयोरैक्यम्। अत्राऽपि मते यथाऽवस्थितवस्तुस्वरूपप्ररूपणा न प्रतिपूर्यत इति सूत्रान्तरेण दर्शयतिण य होइ जोव्वणत्थो, बालो अण्णो वि लज्जइ ण तेण / ण वि य अणागयवयगुण-पसाहणं जुञ्जइऽविभत्ते / / 44 // न च भवति यौवनस्थः पुरुषो बालः, अपि त्वन्य एव, अन्योऽपि न लज्जते बालचरितेन पुरुषान्तरवत् , तेनाऽन्येन / अथाऽनागतवृद्धावस्थायां सुखप्रसाधनार्थमुत्साहस्तस्य युज्यते अत्यन्तभेदे / एतदेवाऽऽह-विभक्त इति / विभक्तिर्भेदः / अकारप्रश्लेषादविभक्ते भेदाभावे अविचलितस्वरूपतया तत्प्रसाधकगुणयत्नासंभवात् , तस्मान्नाभेदमात्रं तत्त्वं, कथञ्चिद्देदव्यवहतिप्रतिभासवाधितत्या-त्, नापि भेदमात्रम् , एकत्वव्यवहारप्रतिपत्तिनिराकृतत्वादिति भेदाभेदाऽऽत्मके तत्त्वमभ्युपगन्तव्यम्। अन्यथा सकलव्यवहारोच्छेदप्रसक्तिः। एवमभेदभेदाऽऽत्मकस्य पुरुषतत्त्वस्य यथाऽतीतानागतदोषगुणनिन्दाऽभ्युपगमाभ्यां संबन्धः, तथैव भेदाऽभेदाऽऽत्मकस्य तस्य संबन्धाऽऽदिभियोग इति दृष्टान्तदान्तिकोपसंहारार्थमाहजाइकुलरूवलक्खण-सण्णासंबधओ अहिगयस्स! वालाऽऽइभावदिट्ठवि-गयस्स जह तस्स संबंधो / / 15 / / जातिः पुरुषत्वाऽऽदिका, कुलं प्रतिनियतपुरुषजन्यत्वम्, रूप सुरूपकुरूपाऽऽदित्व, लक्षणं तिलकाऽऽदि सुखाऽऽदिसूचकम्, संज्ञा | प्रतिनियतशब्दाभिधेयत्वम् / एभिर्यः संबन्धस्तदात्मपरिणामः, ततस्तमाश्रित्याधिगतस्य ज्ञानस्य तदात्मकत्वेनाभिन्नावभासविषयस्य / यद्वा-संबन्धो जन्यजनकभावः, एभिरधिगतस्य लक्षणतत्स्वभावस्यैकाऽऽत्मकस्येति यावत् / बालाऽऽदिभावैर्दृष्टविगतस्य तैरुत्पादविगमाऽऽत्मकस्य तथा भेदप्रतीतेस्तस्य, यथा तस्य संबन्धो भेदाभेदपरिणतिरूपो, भेदाभेदाऽऽत्मकत्वप्रतिपत्तेर्बाह्याध्यक्षेणाध्यात्मिकाऽध्यक्षतोऽपि तथा प्रतीतेः। तथारूपं तद्वस्त्विति प्रतिपादयन्नाह दृष्टान्तदान्ति कोपसंहारेणतेहिँअतीतानागय-दोसगुणदुगंछणब्भुवगमेहिं। तह बंधमोक्खसुहदु-क्खपत्थणा होइ जीवस्स / / 46 // ताभ्यामतीतानागतदोषगुणजुगुप्साऽभ्युपगमाभ्यां यथा भेदाभेदाऽऽत्मकस्य पुरुषत्वस्य सिद्धिः, तदा दार्शन्तिकेऽपि (तह बंधमोक्खसुहदुक्खपत्थणा होइ जीवस्स इति) तथा बन्धमोक्षसुखदुःखप्रार्थना; तत्र च बन्धनोपादानपरित्यागद्वारेण भेदाभेदाऽऽत्मकस्यैव जीवद्रव्यस्य भवति, बालाऽऽद्यात्मकपुरुषद्रव्यवत्। ततोजीवस्य पूर्वोत्तरभावानुभवितुरभावाद्वन्धमोक्षभावाभावः, उत्पादव्ययध्रौव्याऽऽत्मकतयाऽनाद्यनन्तस्य प्रसाधितत्वात् / तथाहि-मरणचित्तं भावाऽऽद्युत्पादस्थित्यात्मकं, मरणचित्तत्वात् , जीवदवस्थाविनाशचित्तयत् / तथा जन्माऽऽदौ चित्तप्रादुर्भावोऽतीतचित्तस्थितिविनाशाऽऽत्मकः, चित्तप्रादुर्भावत्वात् , मध्यावस्थाचित्तप्रादुर्भाववत्। अन्यथा तस्याप्यभावप्रसक्तिः / न चास्याभावः, हर्षविषादाऽऽद्यनेकविवर्ताऽऽत्मकस्यानन्यत्वात् बाह्यस्यान्तर्मुखाऽऽकारतया स्वसंवेदनाऽध्यक्षतः शरीरवैलक्षण्यतोऽनुभूतेः / न च तथा प्रतीयमानस्याप्यभावः, शरीराऽऽदेरपि बहिर्मुखाऽऽकारतया प्रतीयमानस्थाऽभावप्रसक्तेः / न च नित्यैकान्तरूपे आत्मनि जन्ममरणेऽप्यसंभवे, कुतो बन्धमोक्षप्रसक्तिः ? न च नित्यस्याऽप्यात्मनोऽभिनवबुद्धिशरीरेन्द्रियैर्योगो जन्म, तद्वियोगो मरणमितिकल्पना संगता, अस्याः पूर्व निषिद्धत्वात् / न चैकान्तोत्पादविनाशाऽऽत्मके विषये इहलोके परलोके च परलोकव्यवस्था, बन्धाऽऽदिव्यवस्था वा युक्ता / यत ऐहिककायत्यागे-नाऽऽमुष्मिकतदुपादानमेकरयापरलोकः, पूर्वग्रामपरित्यागादथ तदितरैकपुरुषरूपवत्। न च दृष्टान्तेऽप्येकत्वमसिद्धम् , उभयावस्थायास्तस्यैकत्वेन प्रतिपत्तेः / न चेयं मिथ्या, बाधकाभावात् , विरुद्धधर्मसंसर्गाऽऽदेः बाधकस्याऽध्यक्षबाधाऽऽदिना निरस्तत्वात्। न च पूर्वावस्यात्याग एकस्योत्तरावस्थोपादानमन्तरेण दृष्टः, पृथुबुध्नोदराऽऽद्याकारविनाशवन्मृद्रव्यस्य कपालोत्पादनमन्तरेण दर्शनात्। न च कपालोत्पादनमन्तरेण घटविनाश एवन सिद्धः, घटकपालव्यतिरेकेणाऽपरस्य नाशस्याप्रतीतेरिति वक्तव्यम् , कपालोत्पादस्यैव कथञ्चिद् घटविनाशाऽऽत्मकतया प्रतिपत्तेः, अत एव सहेतुकत्वं विनाशस्य, कपालोत्पादस्य सहेतुकत्वात्। न च कपालानां भावरूपतैव के वला, घटानिवृत्तौ तद्विविक्तताया नेष्टभावप्रसक्तेः / न चैकस्योभयत्र व्यापारविरोधः, दृष्टत्वात् / न च घटनिवृत्तिकपालयोरेकान्तेन भेदः, कथञ्चिदेकत्वप्रतीतेः / न च मुदगराऽऽदे श प्रत्यव्यापारे क्वचिदभ्युपयोगे कपालेषु न तदुपयोगः, अन्त्यावस्थायामपि घटक्षणान्तरीत्पत्तिप्रसक्तेः, तस्य तदुत्पादनसाम ाविनाशात्, तस्य स्वर(स)तो विनाशात्तदव्यतिरेकसामर्थ्यस्याविनाशः / न पूर्व तद्विनाशेऽपि तस्याविनाशो विरोधिमुद्गरसन्निधानात् / ननु समानजातीया क्षणान्तरं जनयतीति चेत् / न / घटविरोधी न च तद्विनाशयतीति व्याहतत्वात् / न च तद्धत्वभावात्सामर्थ्याभावः, तथाविधकार्यजननसमर्थहेतोर्भावात् / अन्यथा प्रागपि तथाविधफलोत्पत्तिर्न भवेत् / न च स्वहेतुनिवर्तित एव दण्डाऽऽदिसन्निधौ सामर्थ्याभावः, दण्डाऽऽदिसन्निधिमपेक्षमाणस्य तस्य तद्धेतुत्वोपपत्तेः, अन्यत्रापि तद्भावस्य तन्मात्रनिबन्धनत्वात्। न च तद्व्यापारानन्तरं तदुपलम्भात्तस्य तत्कार्यत्वे मृद्रव्यस्याऽपि तत्कार्यताप्रसक्तिः, तस्य सर्वदोपलम्भात् , सर्वदा तस्यानभ्युपगमे उत्पादविनाशयोरभावप्रसक्तिश्चेति प्रतिपादितत्वाच; तस्यैव तद्रूपतया परिणतौ कथञ्चिदुत्पादस्यापीष्टत्वात्। यदि चपूर्वोत्तराऽऽकारत्यागोपादानतयैकं मृदादिवस्त्वध्यक्षतोऽनुभूयते, तदा तत्तदपेक्षकारणं कार्यविनष्ट च उत्पन्नमनुत्पन्न चैककालमनेककालं च भिन्नमभिन्नं चेति कथं नाभ्युपगमविषयः ? न चाऽत्र विरोधः, मृद्ध्यतिरिक्ततया घटकपालयोरुत्पन्नविनष्टस्थितिस्वभावतया प्रतीतेः / न च प्रतीयमाने वस्तुस्वरूपे विरोधः, अन्यथा ग्राह्यग्राहकाऽऽकाराभ्यामेकत्वेन स्वसंवेदनाऽध्यक्षतः प्रतीयमानस्य संवेदनस्य विरोधप्रसक्तेः / न च संशयदोषप्रसक्तिरिति, उत्पत्तिस्थितिनिरोधना निश्चितरूपतया वस्तुन्यविगमात् / न च स्थाणुर्वा