________________ णय 1865 - अभिधानराजेन्द्रः भाग-४ णय आदेशमन्तरेण विवक्षितधर्मास्तित्वमस्य न संभवति, यस्य वस्तुनो देशोऽसत्वे निश्चितोऽसन्नेवायमित्यवक्तव्याऽनुविद्धोऽपरस्मादनुविद्ध उभयथा सन्न श्वेत्येवं युगपनिश्चितस्तदा तद्रव्यं नास्ति चावक्तव्यं च भवति, विकल्पवशाद् व्यपदेशाद् द्रव्यमपि तद्व्यपदेशमासादयति / केवलद्वितीयतृतीयभङ्गकव्युदासेन षष्ठभङ्गः प्रदर्शितः। सप्तमप्रदर्शनायाऽऽहसब्भावाऽसब्भावे, देसो देसो य उभयहा जस्स। तं अत्थि णत्थिऽवत्त-व्वयं च दवियं वियप्पवसा!। 40 // यस्य देशिनो देशोऽवयवो देशो धर्मो वा सदभावे नियतो निश्चितोऽपरस्त्वसद्भावादभावेऽसत्त्वे. तृतीयश्चोभयथेत्येव देशानांसद-सन्न वक्तव्यः, व्यपदेशात्तदपि द्रव्यमस्ति च नास्ति चावक्तव्यं च भवति, विकल्पवशात् तथाभूतविशेषणाध्यासितस्य द्रव्यस्यानेन प्रतिपादनादपरसङ्गव्युदासः / एते च परस्पररूपापेक्षया सप्तभङ्गाऽऽत्मकाः प्रत्येक स्वार्थ प्रतियन्ति, नान्यथेति प्रत्येकं तत्समुदायो वा सप्तभङ्गाऽऽत्मकः प्रतिपाद्यमपि तथाभूतं दर्शयतीति व्यवस्थितमत्र चाऽऽद्यभङ्गकस्विधा; द्वितीयोऽपि त्रिथैव; तृतीयो दशधा; चतुर्थोऽपि दशधैव; पञ्चमाऽऽदयस्तु / त्रिंशदधिकशतपरिमाणाः / प्रत्येक श्रीमन्मल्लवादिप्रभृतिभिर्दर्शिताः, पुनश्च षविंशत्यधिकाः चतुर्दशशतपरिमाणास्त एव च व्यादिसंयोगकल्पनया कोटिशो भवन्तीत्यमिहितं तैरेव / अत्र तु ग्रन्थविस्तरभयात्तथा न प्रदर्शिताः, तत एवावधार्याः / अथानन्तधर्माऽऽत्मके वस्तुनि तत्प्रतिपादक- वचनस्य सप्तधा कल्पनेऽष्टमवचनविकल्पपरिकल्पनमपि किं न क्रियते? इतिन वक्तव्यम् , तत्परिकल्पननिमित्ताभावात्। तथाहि-नैतत्साऽवयवाऽऽत्मकादपर निमित्तं तत्परिकल्पयितुं युक्तम् , चतुर्थाऽऽदिवचनविकल्पेषु तस्यान्तर्भावप्रसक्तेः / नाऽपि निरवयवाऽऽत्मकमन्योन्यनिमित्तकं तत्परिकल्पनामर्हति, प्रथमाऽऽदिषु तत्पूर्वप्रसक्तेः / न च गत्यन्तरमस्तीति नाऽष्टमभङ्गपरिकल्पना युक्ता। किश्चाऽसौ क्रमेण वीतधर्मद्वयं प्रतिपादयति, योगपद्येन वा प्रथमपक्षे गुणप्रधानभावेन तत्प्रतिपादने प्रथमद्वितीययोरन्तर्भावः / प्रधानभावेन तत्प्रतिपादने भङ्गान्तरकल्पनायां प्रथमद्वितीयभड़क एव प्रसज्यते। प्रथमतृतीयसंयोगात्पञ्चप्रसक्तिः, द्वितीय-तृतीयसंयोगात् षष्ठप्रसक्तिः, प्रथमद्वितीयतृतीयसंयोगात्सप्तमः, प्रथमसंयोगे द्विसंयोगकल्पनायां / पुनरुक्तदोषः, तस्मान्न कथञ्चिदष्टमभङ्गसंभव इत्युक्तन्यायाद्वस्तुप्रतिपादने सप्तविध एव वचनमार्गः। अन्योऽन्यापरित्यागव्यवस्थितस्वरूपवाक्यनयानां शुद्धयशुद्धिविभागेन संग्रहाऽऽदिव्यपदेशमासादयतां द्रव्यार्थिकपर्यायार्थिकनयावेव मूलाधार इति प्रदर्शनार्थमाहएवं सत्तवियप्पो, वयणपहो होइ अत्थपञ्जाए। वंजणपजाए पुण, सवियप्पो णिव्वियप्पो उ॥४१॥ एवमित्यनन्तरोक्तप्रकारेण सप्तविकल्पः सप्तभेदः वचनमार्गो वचनपथो भवत्यर्थपर्यायऽर्थनये संग्रहव्यवहारर्जुसूत्रलक्षणे सप्ताप्यनन्तरोक्ता भङ्गका भवन्ति / तत्र प्रभूमः संग्रहे सामान्यग्राहिणि, द्वितीयस्तु नास्तीत्ययं तु व्यवहारे विशेषग्राहिणि, ऋजुसूत्रे तृतीयः, चतुर्थः संग्रहव्यवहारयोः, पञ्चमः संग्रहऋजुसूत्रयोः, षष्टो व्यवहारऋजुसूत्रयोः, सप्तमः संग्रहव्यवहारऋजुसूत्रेषु / व्यञ्जनपर्याये शब्दनये सविकल्पः, प्रथमे पर्यायशब्दवाच्यताविकल्पसद्भावेऽप्यर्थस्यैकत्वात् / द्वितीयतृतीये निर्विकल्पः, द्रव्यार्थसामान्यलक्षणान्तर्गतपर्यायाभिधायकत्वात् , समभिरूढस्य पर्यायभेदभिन्नार्थत्वात् , एवंभूतास्याऽपि विवक्षितक्रियाकालार्थत्वाल्लिङ्गसंज्ञाक्रियाभेदेन भिन्नस्यैकशब्दवाच्यत्वात् शब्दाऽऽदिषु तृतीयः, प्रथमद्वितीयसंयोगे चतुर्थः, तेष्वेव चानभिधेयसंयोगे पञ्चमषष्ठसप्तमा वचनमार्गा भवन्ति / अथवा-प्रदर्शितस्वरूपा सप्तभङ्गी संग्रहव्य-वहारर्जुसूत्रेषु चार्थनयेषु भवतीत्याह-" एवं सत्तवियप्पा" इत्या-दिगाथाम्।अस्यास्तात्पर्याऽर्थः-अर्थनय एव सप्तभङ्गाः,शब्दाsऽदिषु त्रिषु नयेषु प्रथमतृतीयावेव भङ्गो / यो ह्यर्थमाश्रित्य वक्तस्थसंग्रहव्यवहारसूत्राऽऽख्यप्रत्ययः प्रादुर्भवति सोऽर्थनयः, अर्थवशेनतदुत्पत्तेः, अर्थ प्रधानतयाऽसौ व्यवस्थापयतीति कृत्वा / शब्दं तु स्वप्रभवमुपसर्जनतया व्यवस्थापयति, तत्प्रयोगस्य परार्थत्वात्। यस्तु श्रोतरि तच्छब्दश्रवणादुद्गच्छति शब्दसमभिरूढ एवं-भूताऽऽख्यः प्रत्ययस्तस्य शब्दप्रधानं, तद्वशेन तदुत्पत्तेरर्थः प्रधानं तथाऽप्युपसर्जन तदुत्पत्तावनिमित्तत्वात् , स शब्दनय उच्यते / तत्र च वचनमार्गः सविकल्पनिर्विकल्पतया द्विविधःसविकल्पं सामान्यनिर्विकल्पपर्यायः, तदभिधानाद्वचनमपि तथा व्यपदिश्य ते / तत्र शब्दसमभिरूढी संज्ञाक्रियाभेदेऽप्यभिन्नमर्थ प्रतिपादयत इति तदभिप्रायेण सविकल्पो वचनमार्गः प्रथमभङ्गकरूपः / एवं-भूतस्तु क्रियाभेदाद्भिन्नमेवार्थतत्क्षणे प्रतिपादयतीति निर्विकल्पो द्वितीयभङ्गकरूपस्तद्वचनमार्गः / अवक्तव्यभङ्गकस्तु व्यञ्जननये न संभवत्येव, यतः श्रोत्रभिप्रायो व्यञ्जननयः, स च शब्दश्रवणादर्थ प्रतिपद्यते, न शब्दाश्रवणात् / अवक्तव्यस्तु शब्दाभावविषय इति नावक्तव्यभङ्गको व्यञ्जनपर्याये संभवतीत्यभिप्रायवता व्यञ्जनप-र्याये तु सविकल्पनिर्विकल्पी प्रथमद्वितीयवेव भङ्गावभिहितावाचार्येण / तुशब्दस्य गाथायामेवकारार्थत्वात्। इदानीं परस्पररूपापरित्यागप्रवृत्तसंग्रहाऽऽदिनयप्रादुर्भूततथाविधा एव वाक्यनयास्तथाविधार्थप्रतिपादका इत्येतत्प्रतिपाद्यान्यथाऽभ्युपगमे तेषामप्यध्यक्षविरोधतोऽभाव एवेत्येतदुपदर्शनाय केवलानां तेषां तावन्मतमुपन्यस्यतिजह दवियप्पियं तं, तहेव अस्थि त्ति पज्जवणयस्स। ण य स समयपन्नवणा, पञ्जवणयमेत्तपडिपुण्णा / / 42 / / यथा वर्तमानकालसंबन्धितया यद् द्रव्यमर्पितं प्रतिपादयितुमभीष्ट, तत्तथैवाऽस्ति, नान्यथा, अनुत्पन्नविनष्टनयभाविभूतयोरविद्यमानत्वेनाप्रतिपत्तेः; अप्रतीयमानयोश्च प्रतिपादयितुमशक्तेरिति प्रसङ्गात् वर्तमानसंबन्धेनैव तस्य प्रतीतेरिति पर्यायार्थिकनयवाक्यस्याऽभिप्रायः। एतदेकान्तवादी दूषियितुमाह-नेति प्रतिषेधे, सइति तथाविधो वाक्यनयः परामृश्यते, समय इति सम्यङ् मीयते परिच्छिद्यत इति समयोऽर्थः, तस्य प्रज्ञापना प्ररू-पणा, पर्यायनयमात्रे द्रव्यनयनिरपेक्षे पर्यायनये प्रतिपूर्णा पुष्कला संपद्यते। न स वाक्यनयः सम्यगर्थप्रत्यायन पूरयतीति पर्यायनयस्य साधारणैकान्तप्रतिपादनरूपस्याध्यक्षवाधनात्। तद्वाधां चाग्रतः प्रतिपादयिष्यते। द्रव्यार्थिकवाक्यनयेऽप्ययमेष न्याय इति तदभिप्रायं तावदाह