________________ णय 1863 - अभिधानराजेन्द्रः भाग - 4 णय विधाने तस्याकार्यत्वात् / एवं च घटस्याभावादवाच्यः, अनेकान्तपक्षेऽपि युगपदभिधातुमशक्यत्वात् कथश्चिदवाच्यः सिद्धः // 11 // यद्वासर्वमर्थान्तरभूतं, तस्य विशेषवदेकत्वादनन्वयिरूपता, अत एव न तावद्वाच्यमन्त्यविशेषवत्, अन्न्यविशेषस्तु निजः सोऽप्यवाच्यः, अनन्वयात् / प्रत्येकवक्तव्याभ्यां ताभ्यामादिष्टो घटोऽवक्तव्यः, अनेकान्तपक्षे तु कथञ्चिदवक्तव्यः। अथवा-सद्भूतरूपाः सत्त्वाऽऽदयो घट इत्यत्र दर्शने अर्थान्तरभूताः सत्त्वाऽऽदयो निजसद्भूतरूपत्वाभ्यामादिष्टो घटोऽवक्तव्यः, यतः सद्भूतरूपस्य सत्त्वरजस्तमःस्वरूपत्वे रजस्तमसामभावप्रसक्तिः, तेषां परवलक्षण्येनैव सत्त्वात्सदभतरूपत्वे च / वैलक्षण्यभावादभाव इति विशेष्याभावादवाच्यः / असत्त्वे त्वसत्कार्योत्पादप्रसङ्गः। न चैतदभ्युपगम्यते, अभ्युपगमेऽपि विशेषणाभावादवाच्यः / अथैवं रूपाऽऽदयोऽर्थान्तरभूता असद्भूतरूपमेवं निजं. ताभ्यामादिष्टोऽवक्तव्यः, यथा ह्यरूपाऽऽदिव्यावृत्ता रूपाऽऽदयः,तएव च रूपाऽऽदीना घटतामवाच्याः, रूपाऽऽदित्वाघटस्य,न हि परस्परविलक्षणबुद्धिग्राह्या रूपाऽऽदय एकानेकाऽऽत्मकप्रत्ययग्राह्यरूपाऽऽदिरूपघटतां प्रतिपद्यन्ते, इयं घटता अवाच्यरूपाऽऽदित्वाद् घटस्य न हि परस्परविलक्षणेति विशेष्यलोपादवाच्यः। यदिवा-रूपाऽऽदयोऽर्थान्तरभूताः, असद्भूतार्थो निजः, ताभ्यामादिष्टो घटोऽवक्तव्यः, रूपाऽऽद्यात्मकैराभासप्रत्ययविषयध्यतिरेकेणापरसंबन्धान्नयगतेर्विशेष्याभावाद्रूपाऽऽदिमान् घट इत्यबाह्यगतैवाकारप्रतिभासाद्व्यतिरेकेणापररूपाऽऽदिप्रतिभास इति विशेषणाभावादप्ययाच्यः, अनैकान्तेतु कथञ्चिदवाच्यः / / 15 / / अथवा-बाह्योऽर्थान्तरभूतः, उपयोगस्तु निजः, ताभ्यामादिष्टोऽवक्तव्यः / तथाहि-य उपयोगः स घट इति यधुपेतः, तर्जुपयोगमात्रकमेव घट इति सत्त्वोपयोगस्य घटत्वप्रसक्तिरिति प्रतिनियतस्वरूपाभावादवाच्यः / अथाऽयं घटस्य उपयोग इत्युच्यते, तथाऽप्युपयोगस्यार्थत्वप्रसक्तिरित्युपयोगाभावे घटस्याऽप्यभावः, ततश्च कथशिदवाच्यः // 16 // एते च त्रयो भङ्गा गुणप्रधानभावेन सकलधर्माऽऽत्मकैकवस्तुप्रतिपादकाः स्वयं तथाभूताः सन्तो निरवयवप्रतिपत्तिद्वारेण सकलादेशाः / वक्ष्यमाणास्तु चत्वारः सावयवप्रतिपत्तिद्वारेणाशेषधर्माऽऽकान्तं वस्तु प्रतिपादयन्तोऽपि विकलादेशा इति केचित्प्रतिपन्नाः / वाक्यं च सर्वमेकानेकाऽऽत्मकं सत्स्वाभिधेयमपि तथा- भूतमवबोधयति, यतो न तावन्निरवयवेन वाक्येन वस्तुस्वरूपाभिधानं संभवति / अनन्तधर्माऽऽक्रान्तैकाऽऽत्मकत्वाद्वस्तुनो निरवयववाक्यस्य त्वेकस्वभाववस्तुविषयत्वात्तथाभूतस्य चवस्तुनोऽसंभवान्निरवयवस्य तस्य वाक्यमभिधायकम्,नाऽपि सावयवं वाक्यं वस्त्वभिधायकं संभवति; वस्तुन एकत्वात्। नच वस्तुनो व्यतिरिक्तास्तद्देशाः, तद्व्यतिरेकेण तेषामप्रतीतेरेकस्वरूपव्याप्त्याऽनेकांशप्रतिभासः, न च तदेकाऽऽत्मकमेव, अनेकांशानुरक्तस्यैवैकाऽऽत्मनः प्रतिभासात्, अतो वस्तुन एकानेकस्वभावत्वा तथाभूतवस्त्वभिधायकाः शब्दा अपि तथाभूता एव, नैकान्ततः सावयवाः, उतनैकान्ततो निरवयदरूपा वा तत्र विवक्षाकृतप्रधानभावः सदेकधर्माऽऽत्मकस्यापेक्षितोऽपराशेषधर्मक्रोडीकृतस्य वाक्यार्थस्य स्यात्कारपदलाञ्छितवाक्यताप्रतीतेः, स्यादस्ति घटः, स्यान्नाऽस्ति घटः, स्यादवक्तव्यो घटः, इत्येते त्रयो भङ्गा इति सकलादेशाः / विवक्षाविरचिताद्विचित्रधर्मानुरक्तस्य स्यात्- कारपदसंसूचितसकलधर्मस्वभावस्य धर्मिणो वाक्यार्थरूपस्य प्रतिपत्तेश्चत्वारो वक्ष्यमाणका विकलादेशाः-स्यादस्ति च नास्ति घट इति प्रथमो विकलाऽऽदेशः, स्यादस्ति चाऽवक्तव्यश्च घट इति द्वितीयः, स्यान्नास्ति चाऽवक्तव्यश्व घट इति तृतीयः, स्यादस्ति च नास्ति चावक्तव्यश्च घट इति चतुर्थः / एत एव सप्त भङ्गाः स्यात्पदलाञ्छनविरहिणोऽवधारणैकस्वभावा विषयाभावतो दुर्नया भवन्ति / धर्मान्तरोपादानप्रतिषेधाकरणात् स्वार्थमात्रप्रतिपादनप्रवणा एत एव सुनयरूपतामासादयन्ति, स्यात्पदलाञ्छनविवक्षितैकधर्मावधारणवशाद्वा सुनयाः। द्रव्यादेरेकदेशस्य व्यवहारनिबन्धनत्वेन विवक्षितत्वाधर्मान्तरस्य वा निषिद्धत्वादतः स्यादस्तीत्यादिप्रमाणमस्त्येवेत्यादिदुर्नयः, अस्तीत्यादिकः सुनयाः। ननु संव्यवहारात् स्यादस्त्येवेत्यादिः सुनय एव व्यवहारकारणम् , स्वपराव्यावृत्तवस्तुविषयप्रवर्तकवाक्यव्यवहारकारणत्वात् , अन्यथाऽतद्योगादेवं निरवय ववाक्यस्वरूप दर्शयितुमाहअह देसो सम्भावे, देसोऽसब्भावपज्जवे णियओ। तंदवियमत्थि नत्थिय, आएसविसेसियं जम्हा / / 37 / / (अथेति) यदा देशो वस्तुनोऽवयवसद्भावेऽस्तित्वे नियतः सन्नेवायमित्येवं निश्चितोऽपरश्च देशोऽसद्भावे एव पर्याय नास्तित्व एव नियतोऽसन्नेवायमित्यवगतः; अवयवेभ्योऽवयविनः कथञ्चिदभेदादवयवधर्मस्तस्याऽपि तथाट्यपदेशो यथा कुण्डो देवदत्त इति; ततोऽवयवसत्त्वासत्त्वाभ्यामवयव्यपि सन्न संभवति। ततस्तद्रव्यमस्ति च नास्ति चेति भवत्युभयप्रधानावयवभागेन विशेषितं यस्मात्। तथाहियदवयवोन विशिष्टधर्मिणोऽस्ति, परद्रव्याऽऽदिरूपेण च स एव नाऽस्ति। तथा च पुरुषाऽऽदिवस्तुविवक्षितपर्यायेण बालाऽऽदिना परिणतं, कुमाराऽऽदिना या परिणतमित्यादि-दिष्टमिति योज्यम्। पूर्वभङ्गकप्रदर्शितन्यायेन पञ्चमभङ्गकप्रदर्शनमाहसमावे आइट्ठो, देसो देसो य उभयहा जस्स। तं अस्थि अवत्तव्वं, च होइदविअं वियप्पवसा / / 3 / / सद्भावेऽस्तित्वे यस्य यस्य संभवति घटाऽऽदेर्धर्मिणो देशो धर्म आदिष्टोऽवक्तव्यानुविद्धस्वभावः, अन्यथा तदसत्त्वात् , न ह्यपरधर्माप्रविभक्ततामन्तरेण विवक्षितधर्मास्तित्वमस्य संभवति / खरविषाणाऽऽदेरिव तस्यैवापरो देश उभयथाऽस्तित्वनास्तित्वप्रकाराभ्यामेकदैव विवक्षितोऽस्तित्वानुबिद्ध एवावक्तव्यस्वभावः; अन्यथा तदसत्त्वप्रसक्तिः / न ह्यस्तित्वाभावे उभयातिरिक्तता शशशृङ्गाऽऽदेरिव तस्य संभवति, प्रथमतृतीयकेवलभङ्गव्युदासस्तथा-विवक्षावशात्कृतो द्रष्टव्यः, तत्र प्रथमतृतीययोर्भङ्गकयोः परस्पराविशेषणभूतयोः प्रतिपाद्येनाधिगन्तुमिष्टत्वात् , प्रतिपादकेनाऽपि तथैव विवक्षितत्वाद् , तत्र तु तद्विपर्ययादतद्धर्माऽऽत्मकस्य धर्मिणः प्रतिपाद्यानुरोधेन तथाभूतधर्माऽऽकान्तत्वेन च वक्तुमिष्टत्वात्तद्रव्यमस्ति चाऽवक्तव्यम् , तद्धर्मविकल्पनवशात्। धर्मयोस्तथापरिणतयोस्तथा व्यपदेशे धर्मोऽपि तद्द्वारेण तथैव व्यवदिश्यतेति षष्ठभङ्गक दर्शयितुमाहआइट्ठोऽसम्भावे, देसो देसो अ उभयहा जस्स। तंणऽत्थि अवत्तव्वं, च होइ दवियं वियप्पवसा / / 36 / /