________________ जंबूदीव 1376 - अभिधानराजेन्द्रः - भाग 4 जंबूदीव प्रश्नसूत्रादिभिद्यते, उत्तरसूत्रे सप्त नदीलक्षणानि, अष्टाविंशतिश्च सहस्राणि यावत् समुपसर्पन्ति / तद्यथापूर्वसूत्रे मेरुतो दक्षिणदिग्बार्तिनीनामेकंषण्णवतिसहस्राधिकं लक्षमुक्तं, तदर्दू पूर्व पूर्वाब्धिगामीत्यागतान्यष्टानवतिः सहस्राणि, एवमुदीच्यनदीनामप्यवष्टानवतिः सहस्राणि शीतापरिक रनद्यश्च लक्षाणि द्वात्रिंशत्सहस्राणि च, सर्वपिण्डे यथोक्तं मानम् / अथ | पश्चिमाब्धिगामिनीनां संख्याप्रश्नार्थमाह-"जंबुद्दीवे दीवे'' इत्यादि। | इदं चानन्तरसूत्रवत् वाच्यं, संख्या योजनीया, परस्परं निर्विशेषत्वात् / संप्रति सर्वसरित् संकलनामाह ''एवामेव सपुव्वारेणं' इत्यादि व्यक्तं, नवरम् जम्बूद्वीपे द्वीपे पूर्वाब्धिगामिनीनामपराब्धिगामिनीनां च नदीनां संयोजने चतुर्दशलक्षाणि षट्पञ्चाशत् सहस्राणि भवन्ति इत्याख्यातम्। ननु इयं सर्वसरित्संख्या केवलपरिकरनदीनां, महानदीसहितानां वा तासाम् ? उच्यते--महानदीसहितानामिति संभाव्यते, संभावनाबीज तु कच्छविजयगतसिन्धुनदीवर्णनाधिकारे प्रवेशे च सर्व-संख्यया आत्मना सह चतुर्दशभिर्नदीसहस्रः समन्विता भवतीति श्रीमलयगिरिकृतबृहत्क्षेतविचारवृत्त्यादिवचन-मिति / श्रीरत्नशेखरसूरयस्तुस्वक्षेत्रसमासे-"अडसयरि महाणइओ, वारस अंतरणईउ सेसा उ / परिअरणईउ चउदस, एवं छप्पण्णसहसा य॥१॥' इति महानदीनां पृथग्गणनं चक्रु -रिति / तत्त्वं तु बहुश्रुतगम्यम् / नन्वत्र प्रत्येकमष्टाविंशति सहस्रनदीपरिवारा द्वादशान्तनद्यः सर्वनदी संकलनायां कथंनगणिताः? उच्यते-इयं सर्वसरित् संख्या चतुर्दशलक्षादिलक्षणं श्रीरत्नशेखरसूरिभिः स्वोपज्ञक्षेत्र-समासवृत्तौ, तथा प्रतिमहानदीपरिवारमीलने स्वस्वक्षेत्र-विचारसूत्रे श्रीजिनभद्रगणिक्षमाश्रमणादिसूत्रकारैः श्रीमलयगिर्यादिभिर्वृत्तिकारश्चान्तर्नदीपरिवाराः संग्रहेण चोक्ताः / श्रीहरिभद्रसूरिभिस्तु- "खंडा जोअणं' इत्यादि गाथायाः संग्रहण्यां चतुरशीतिप्रमाणा कुरुनदीरनन्तर्भाव्य तत्स्थाने इमा एव द्वादश नदीः चतुर्दशभिः 2 नदीसहस्रैः सह निक्षिप्य यथोक्तसंख्याऽपूरि / तद्यथा- "चउदस सहस्सगुणिआ, अडतीसणईउ विजयमज्झिल्ला। सीआणइणिवडती, सीओआए विएमेव / / 1 / / " कैश्चित्तु जयविजयगतयोः गङ्गासिन्ध्वोः रक्तारक्तवत्यो अष्टाविंशतिसहस्रनदीलक्षणः परिवारः, स एवासन्नतयोपचारेणान्तर्नदीनां परिवारतयोक्त इत्यतोऽवसीयते, यदन्तर्नदीपरिवारमाश्रित्य मतवैचित्र्यदर्शनादिना केनाऽपि हेतुना प्रस्तुतसूत्रकारेणाऽपि सर्वनदीसंकलनायां गणिता इति। अत्रापि तत्त्वं बहुश्रुतगम्यमेव। यदि चान्तर्नदीपरिवारनदीसंकलनाऽपि -क्रियते तदा जम्बूद्वीपे द्विनवतिसहस्राधिकाः सप्तदश लक्षाः नदीनां भवन्ति / यदुक्तम्"सुत्ते चउदसलक्खा, छप्पण्ण-सहस्सजंबुदीवम्मिा हुंति उसत्तरस लक्खा, वाणउई सहस्ससलिला उ / / 1 / / '' इति / एतेषां जम्बूद्वीपप्रज्ञप्त्युक्तार्थानां पिण्डके मीलके विषयभूते इयं संग्रहगाथा भवतीति / अथ जम्बूद्वीपव्यासस्य लक्षप्रमाणताप्रतीत्यर्थ दक्षिणोत्तराभ्यां क्षेत्रयोजनसर्वाग्रमीलनं जिज्ञासूनामुपकाराय दर्श्यते। यथा-१०००००, अत्र सर्वाग्रं दिग्गतमुखवने-ऽन्तर्भावनीय इति। जं०६ वक्षः। अथ जम्बूद्वीपे चन्द्रादिसंख्यां पृच्छतिजंबूद्दीवे णं भंते ! दीवे कइ चंदा पभासिंसु, पभासिंति, पभासिस्संति; कइसूरिसा तवइंसु, तवेंतितविस्संति; केवइया णक्खत्ता जोगं जोइंसु, जोअंति, जोइस्संति, केवइआ महग्गहा चार चरिंसु चरंति, चरिस्संति; केवइआओ तारागणकोडाकोडीओ सोभिंसु, सोभिंति, सोभिस्संतिय? गोयमा! दो चंदा पभासिंसु०३, दो सूरिआ तवइंसु०३, छप्पण्णं णक्खत्ता जोगं जोइंसु०३० छावत्तरं महग्सहसयं चारं चरिंसु०३। “एगं च सयसस्सं, तेत्तीसं खलु भवे सहस्साई। णव य सया पण्णासा, तारागणकोडिकोडीणं / / 1 / / " जम्बूद्वीपे भगवन् ! द्वीपे कति चन्द्राः प्रभासितवन्तः- प्रकाशनीयं वस्तुसयोतितवन्तःप्रभासयन्ति उद्द्योत-यन्ति, प्रभासयिष्यन्ति सद्योतयिष्यन्ति, उद्योत-नामकमों दयाश्चन्द्रमण्डलानामनुष्णप्रकाशो हि जने उद्द्योत इति व्यवहियते तेन, तथा प्रश्ने अनादिनिधने यं जगत्स्थितिरिति जानतः शिष्यस्य कालत्रयनिर्देशन प्रश्नः प्रष्टव्यं तु चन्द्रादिसंख्या / तथा कति सूर्यास्तापितवन्तः आत्मव्यतिरिक्तवस्तुनि तापं जनितवन्तः, एवं तापयन्ति, तापयिष्यन्ति आतपनामकर्मोदयाद् विमण्डलानामुष्णः प्रकाशस्ताप इति लोके व्यवह्रियते, तेन तथा प्रश्नोक्तिः, तथा कियन्ति नक्षत्राणियोगं स्वयं नियतमण्डलचारित्वेऽप्यनियताऽनेकमण्डलचारिभिर्निजमण्डलक्षेत्रमागतैहैः सह संबन्धंयुक्तवन्ति प्राप्तवन्ति, युञ्जन्ति प्राप्नुवन्ति, योक्ष्यन्ति प्राप्स्यन्ति / तथा कियन्तो महाग्रहा अङ्गारकादयश्चार मण्डलक्षेत्रपरिभ्रमि चरितवन्तो अनुभूतवन्तः, चरन्ति अनुभवन्ति, चरिष्यन्ति अनुभविष्य-न्ति ? यद्यपि समयक्षेत्रवर्तिनां सर्वेषामपि ज्योतिष्काणां गतिश्चार इत्यभिधीयते, तथाऽप्यन्यव्यपदेशविशेषाभावेन वक्रातिचारादिभिर्गतिविशेषैर्गतिमत्त्वेन चैषां सामान्यगतिशब्देन प्रश्नः। तथा कियत्यस्तारागणकोट्यः शोभितवत्यः शोभां धृतवत्यः, शोभन्ते, शोभिष्यन्ति ? एषां च चन्द्रादिसूत्रोक्तकारणाभावेन बहुलपक्षादौ भास्वरत्वमात्रेण शोभमानत्वादित्थं प्रश्नाऽभिलापः / अत्र सूत्रेऽनुक्तोऽपि काशब्दो विकल्पद्योतनार्थं प्रतिप्रश्नंबोध्यः। भगवानाह-गौतम ! द्वौ चन्द्रौ प्रभासितवन्तौ, प्रभासेते, प्रभासिष्येते च / जम्बूद्वीपे क्षेत्रे सूर्याक्रान्ताभ्यां दिग्भ्यामन्यत्रशेषयोर्दिशोश्चन्द्राभ्यां प्रकाश्यमानत्वात्, प्रश्नसूत्रे च प्रभासितवन्त इत्यादौ यो बहुवचनेन निर्देशः स प्रश्नरीतिर्बहुवचनेनैव भवतीतिज्ञापनार्थः / एका-द्यन्यतरनिर्णयस्य तु सिद्धान्तोत्तरकाले संभवः, एवं सूर्यसूत्रेऽपि भावनीयम्। तथा द्वौ सूर्यो तापितबन्ती, जम्बूद्वीपक्षेत्रमिति शेष, अस्मिन्नेव क्षेत्रे चन्द्राक्रान्ताभ्यां दिग्भ्यामन्यत्राशेषयोर्दिशोः सूर्याभ्यां ताप्यमानत्वात् तथा षड्पञ्चाशन्नक्षत्राण्येकैकस्य चन्द्रस्य प्रत्येकमष्टाविंशतिनक्षत्रपरिवारान् योगयुक्तवन्तीत्यादि प्राग्बत्। तथाषट्सप्ततिषसप्तत्युत्तरं महाग्रहशतम्, एकैकस्य चन्द्रस्य प्रत्येकमष्टाशीतेग्रहाणां परिवारभावात् चारं चरितवदित्यादि।तथा पद्येनतारामानमाह-"तारागणकोटिकोटीनामेकलक्षं त्रयस्त्रिंशच सहस्राणि, नव च शतानि, पञ्चाशानि पञ्चाशदधिकानि भवन्ति / प्रतिचन्द्रं तारागणकोटीकोटीनां षट्षष्टिसहस्रनवशताधिकपञ्चसप्ततेर्लभ्य-मानत्वादिति / जं०६ वक्ष०।