________________ णय 1861 - अभिधानराजेन्द्रः भाग-४ णय रापत्तेः, प्रकारीभूतकिश्चिद्धर्माऽवच्छिन्नस्यैव प्रतियोगिताविशेषणेऽपि न विस्तारः, घटाऽभावपटाऽभावयोरुभयोः संनिकर्षे घटाऽभावांशे प्रतियोगिविशेषितस्य पटाभावाशे च तदविशेषितस्य समूहाऽऽलम्बनस्य प्रमाणात्। किश्चैवमिदन्त्वादिनाऽभावप्रत्यक्षं न स्यात् न स्याचाभावप्रतियोगिघट इत्याद्याकारं, तादृशप्रत्यक्षेष्वपि पृथक्कारणत्वकल्पने चाऽतिगौरवम्। तस्मात्सन्निकर्षमात्रस्यैव किञ्चिद्धर्मावच्छिन्नविषयतानिरूपितविषयताकप्रत्यक्षत्वाऽवच्छिन्ने, विशिष्टाऽऽकारप्रत्यक्षत्वाऽवच्छिन्ने वा हेतुत्वम्। अतो नापायमात्रस्य विचारजन्यचरमशुद्धद्रव्योपयोगितुल्यतेति भावांशेऽभावांशे वा न शुद्धविषयकं प्रत्यक्षमित्यभाव एव सापेक्षो, न भाव इति किमिदमर्द्धजरतीयम् / एतेनाऽभावलौकिक प्रत्यक्षस्य घटाऽऽद्यन्यतमविशिष्टविषयकत्वनियमाद्विशेषसामग्री विना सामान्य-सामग्रीमात्रात् कार्यानुत्यत्तेन भावनिर्विकल्पकं, नेत्याकारकप्रत्यक्ष वा; विशेषणाऽऽदिज्ञानरूपविशेषसामग्र्यभावात् / न चाऽभावलौकिकप्रत्यक्षत्वघटत्वाऽऽदिविशिष्टविषयक प्रत्यक्षत्वयोर्याप्यव्यापकभावाऽभावात्कथं विशेषसामग्रीत्वमिति वाच्यम् : कार्यताऽवच्छेदकीभूततद्धर्माऽऽश्रययत्किञ्चिद्व्यक्तिनिष्ठकार्यतानिरूपितकारणताऽवच्छे दकयावत्प्रत्येकतत्तदवच्छिन्नसामग्रीत्वादवश्यं कार्यतद्धर्मावच्छिन्नोत्पत्तिरित्येव नियमात , तद्धर्मव्याप्यधर्माऽवच्छिन्नयत्किश्चिद्व्यक्तिनिष्ठकार्यतानिरूपितेत्याधुक्तौ व्याप्तिज्ञानपरामर्शयोः सत्त्वे बाधधीसत्त्वेऽप्यनुमित्यापत्तौ (सद्धर्म) तद्धर्मव्याप्यव्यापकधर्माऽवच्छिन्नयत्किशिव्यक्तिनिष्ठकार्यतानिरूपितेत्याधुक्तौ गौरवात् / घटत्वाऽऽदिविशिष्टवैशिष्ट्यविषयकप्रत्यक्षत्वस्याऽभावलौकिक प्रत्यक्षत्वव्याप्यतत्तदभावालौकिक प्रत्यक्षत्वव्याप्यतत्तदभावलौकिक प्रत्यक्षत्वव्यापकत्वात्प्रकृतसिद्धेश्चेत्यादि नव्यकल्पनाऽपि निरस्ता / एवं सति द्रव्यविषयकप्रत्यक्षस्य, वस्तुविषयकप्रत्यक्षस्य वा यत्किञ्चित्पर्याप्तिविशिष्टविषयकत्यनियमेन भावनिर्विकल्पकस्य शुद्धभावप्रत्यक्षस्याऽपि चाऽसंभवात् / अत एव सविचारया सामान्यदृष्ट्या सर्व निर्विकल्पकम् , विशेषदृष्ट्या च सर्व सविकल्पकमित्यनेकान्तः पुरुषदृष्टान्तेन सम्मतौ प्रतिपा-दितः। तथाहि" वंजणपज्जायस्स उ, पुरिसो पुरिसो त्ति निच्चमविअप्पो। बालाऽऽइवियप्पं पुण, पासइ से अत्थपज्जाओ॥ 34 / / सविअप्प णिव्विअप्पं, इय पुरिसं जो भणेज्ज अवियप्पं / सविअप्पमेव वा णिच्छएण ण य णिच्छिओ समए॥ 35 // " व्याख्या-व्यञ्जयति न्यनक्ति अर्थानिति व्यञ्जनं शब्दः, न पुनः शब्दनयः, तस्य ऋजुसूत्रसमानपर्यायविषयत्वात्। तस्य पर्यायो वाच्यता तद्ग्राहक नयेन पुरुषः पुरुष इति पुरुषत्वप्रकारकज्ञानविषय इति नित्यमाजन्मनो मरणान्तं यावदविकल्पः पुरुषत्वाऽतिरिक्ताप्रकारकज्ञानविषयः / इदमुपलक्षणम्-द्रव्यवस्तुत्वाऽऽदिनाऽप्यविकल्पत्वस्य शुद्धद्रव्योपयोगे तु पदद्वयस्य निर्धर्मकत्वलक्षणया शुद्धधर्मिविषयकभानविषयत्वमेवाविकल्पकत्वं द्रष्टव्यम्।' से तस्य पुरुषस्याऽर्थपर्याय ऋजुसूत्राद्यर्थग्राहकनयः पुनर्बालाऽऽदिविकल्पमेव वा, निश्चयमविकल्प स्यात्काराऽङ्किततदुभयपदघटितमहावाक्यबोधस्वरूपपुरुषद्रव्यं यो भणेद्-अविकल्पमेव सविकल्पमेव वा निश्चयेनैकान्तेन स्वसमये परनार्थे न निश्चितः-निश्चयो निश्चितं तदस्यास्तीति निश्चितः, अर्श आदित्वादचप्रत्ययो, न तदन्यथेत्यर्थः / दुर्नयानिवेशान्नयज्ञत्वाद्वा संपूर्णानका न्तवस्तुस्वरूपापरिच्छेदादिति रहस्यम्॥तदेवं निषेधव विधावपिपक्षत्वं प्रतिपादितम्। एवं स्वद्रव्याऽऽद्यपेक्षया सन्परद्रव्याऽऽद्यपेक्षयाऽसन् इति तृतीयोल्लिख्यमानावच्छेदकप्रतीत्याऽपि सापेक्षत्वं भावनीयम् / अत एव परेऽपिव्याप्यवृत्तावव्याप्यवृत्ताविव प्रतीतिबलात् तत्तदवच्छिन्नवृत्तिकल्पन स्वीकुर्वते इति दिक् / नयो० / रत्ना०। (8) सामान्यविशेषः / एवं निर्विकल्पसविकल्पस्वरूपे प्रतिपा-वि पुरुषाऽऽदिवस्तुनि तद्विपर्ययेण तद्वस्तु प्रतिपादयन् वस्तुस्वरूपानबोधस्वात्मनि ख्याप्रयतीति दर्शनार्थमाहसविअप्पणिग्विअप्पं, इय पुरिसं जो भणेज्ज अविअप्पं / सविअप्पमेव वा णि-च्छएण ण य निच्छिओ समए।। 35 / / सविकल्पनिर्विकल्पं स्यात्कारपदलाञ्छितं पुरुषं द्रव्यं यः प्रतिपादकस्तद्वस्तु ब्रूयादविकल्पमेव सविकल्पमेव वा, निश्चयेनेत्यवधारणेन, स यथाऽवस्थितवस्तुप्रतिपादने प्रस्तुतेऽन्यथाभूतं वस्तुतत्त्वं प्रतिपादयन्न निश्चित इति निश्चित तदस्यास्तीति निश्चितः, अर्श आदित्वादच् / समये परमार्थिनो वस्तुसत्त्वस्य परिच्छेत्तेति यावत् / तथाहि-प्रमाणपरिच्छिन्नं तथैव वादिसुसंवादि वस्तुप्रतिपादयन् वस्तुनः प्रतिपादक इत्युच्यते। न च तथाभूतं वस्तु केनचित्कदाचित् प्रतिपन्नं प्राप्यते वा, येन तथाभूतं तद्वचस्तत्र प्रमाणं भवेत् ; तथाभूतवचनाभिधानात् / च चाप्रमाणतया लोके व्यपदेशमासादयेत्। परस्पराकान्तभेदाभेदाऽऽत्मकस्य वस्तुनः सदसद्भावमभिधायकस्य वचसः पुरुषस्याऽपि तदभिधानद्वारेण सम्यग् मिथ्यावादि-त्वं प्रतिपाद्याधुना भावविषयं तत्रैवैकान्तानेकान्ताऽऽत्मकमंशं प्रतिपादयतो विवक्षया सुनयदुर्नयप्रमाणरूपतां तत्प्रतिपादकं वचो यथाऽनुभवति, तथा प्रपञ्चतः प्रतिपादयितुमाह। यद्वा-यथैव तद्वस्तु व्यवस्थितं तथैव वचनात्प्रतिपादयतो निपुणत्वं भवति / अन्यथा साङ्ख्यबौद्धकणभुजामिव भिन्नभिन्नपरस्परनिरपेक्षोभय-वस्तुस्वरूपाभिधानायावस्तुधर्ममर्हन्मतानुसारिणामपि स्यादस्तीत्यादिसप्तविकल्परूपतामनापन्नवचनलक्षणस्यात्कारपदालाञ्छितवस्तुधर्मप्रतिपादयतामनिपुणता भवेदिति प्रपञ्चतः सप्तविकल्पोत्थाननिमित्तमुपदर्शयितुं गाथासमूहमाहअत्यंतरभूएहि अ, नियएहि य दोहि समयमाईहिं। वयणविसेसाऽऽईयं, दव्वमवत्तव्वयं पडइ॥३६॥ अस्यास्तात्पर्याऽर्थः-अर्थान्तरभूतः पटाऽऽदिः, निजो घटः, ताभ्यां निजार्थान्तरभूताभ्यां सदसत्त्वं घटवस्तुनः प्रथमद्वितीय-भङ्गनिमित्त प्रधानगुणभावेन भवतीति प्रथमद्वितीयौ भड़ौ / यदा तु द्वाभ्यामपि युगपत्तद्वस्त्वभिधातुमभीष्टं भवति, तदाऽवक्तव्यभङ्ग-कनिमित्तं तथाभूतस्य वस्तुनोऽभावात् तत्प्रतिपादकवचना- तीतवत् तृतीयभङ्गसद्भावो, वचनस्य वा तथाभूतस्याभावाद-वक्तव्यं वस्तु / तथाहि-असत्त्वोपसर्जनसत्त्वप्रतिपादने प्रथमो भङ्गः, तद्विपर्ययेण तत्प्रतिपादने द्वितीयः, द्वयोस्तु धर्मयोः प्राधान्येन गुणभावेन च प्रतिपादने न किश्चिद्वचः समर्थ, यतो न तावत्समासवचनं तत्प्रतिपादकम; नापि वाक्यं संभवति / स-मास षड्विधः / तावन्न बहुब्रीहिरत्र समर्थः, तस्याऽन्यपदार्थ-प्रधानत्वात्, अत्र चोभयप्रधानत्वात्। अव्ययीभावोऽपि नात्र प्रवर्त्तते, तस्यात्रार्थेऽसंभवात् / द्वन्द्वसमासे तु यद्यप्युभयपद