________________ णय 1860- अभिधानराजेन्द्रः भाग - 4 णय वच्छेदकमेकत्वान्यसंख्यात्वं वाच्यम् / यद्वा-एकत्वजन्यतावच्छेदकतया द्वित्वमारभ्य परार्द्धपर्यन्तमेका जातिः सिध्यति, लाघवात् / ननु जन्यसंख्यात्वमेवैकल्यजन्यताऽवच्छेदकं, कारणकार्यकार्यप्रत्यासत्तिभेदात् इति तस्यैव द्वित्वाऽऽदिपरार्द्धपर्यन्तसंख्यावृत्तिजातिविशेषितस्य तथात्वम् / व्यङ्गचत्वनये चैकत्वाऽन्यसंख्याप्रत्यक्षत्वम् , उक्तजातिविशेषप्रत्यक्षत्वं वाऽपेक्षाबुद्धेर्जन्यताऽवच्छेदकं वाच्यम् / द्वयोरप्यनयोर्मतयोरेको धान्यराशिरित्यादिप्रत्ययसिद्धेः सामूहिकैकत्वे व्यभिचारः। न च तत्रैकत्वं गौणमेव; वस्तुतस्त्वपेक्षाबुद्ध्या राशिसेनाबनाऽऽदौ बहुत्वविशेष एवोत्पाद्यते, व्यज्यते वेति वाच्यम्; स्वारसिकैकत्वानुभवविरोधात्। एते बहवः कणाः, एते बहवः करि-तुरग-रथपदातयः, एते बहव आम्र-निम्ब-धव-खदिरा इत्यादौ राशित्व-सेनात्ववनत्वाऽऽद्यनापत्तेश्व। अपेक्षाबुद्ध्या तत्र राशित्वाऽदिरूपस्यैव बहत्वत्वमेकत्वद्वित्वान्यसंख्यात्वं त्रित्वमारभ्य परार्द्धपर्यन्तवृत्ति जातिविशेषोवा, राशित्वाऽऽदिरूपबहुत्वे चापेक्षाबुद्धिविशेषजन्यताऽवच्छेदकस्तद्व्याप्य एव जातिविशेषः / बहुत्वंचतदवच्छिन्नोपस्थितिश्चैकवचनान्तराश्यादिपदं वेति शाब्दबोधस्थले नानुपपत्तिः। प्रत्यक्षे च बहव इत्यादौ क्वचिद् दोषवशात्तदग्रहान्नानुपपत्तिरिति वाच्यम्; अनुभूयमानैकत्वप्रतीतेर्बहुत्वविशेषेण समर्थने द्वित्वाऽऽदिप्रतीतेरप्येकत्वविशेषेणैव समर्थयितुं शक्यत्वाद् ; वास्तवाभावे गौणानुपपत्तेरप्युक्तत्वाच / न च ' ताविमौ नीलपीतौ इति गौणद्वित्वाऽऽदिलक्षणं द्वाविमौ घटपटावित्यत्र द्वित्वमनुभूयते। न चैकत्रज्ञाने द्वित्वं प्रकारः, अन्यत्र तुनेत्यपि विनिगन्तुं शक्यम् विजातीयज्ञानविषयत्वसंबन्धेन स्वस्थितस्वप्रकारतया बुद्धिवैलक्षण्योपपादनमप्युभयत्र तुल्ययोगक्षेमम् / एकत्राऽपि च घटे नीलत्वघटत्वाभ्यां द्वित्वमनुभूयत एव, अनुभूयते एव चैते बृक्षा वनमिति बहुत्वाऽवच्छिन्नेऽपि केनचिदुपाधिना एककारत्वमिति स्वसामग्रीप्रभवैकत्वंद्वित्वानन्तपर्यायोपेत-द्रव्य एवाक्षाबुद्धिहेतोरपेक्षाऽऽत्मकभावपथा क्षयोपशमं कदाचिदे-कत्वप्रकारकं कदाचिच द्वित्वाऽऽदिप्रकारकं ज्ञानं जायते, इत्य-पेक्षाबुद्धिगम्यत्वमेव द्वित्वाऽऽदेर्युक्तम् / अत एव नयरूपत्वादस्या नयान्तरसंयोजनया सप्तभङ्गीरीतिरपि संगता / यादृशविषयता-विशिष्टाया अपेक्षाबुद्धेः परैर्जनकत्वं व्यञ्जकत्वं वा स्वीक्रियते, तादृशविषतानिरूपितापेक्षात्वाऽऽख्यविषयता द्वित्वाऽऽदौ नाऽ-स्माकमसुलभा / सामान्यविशेषत्वाऽऽदेरापेक्षिकत्वेऽपीयमेवरीतिरनुसर्तव्या / न चैवमनपेक्षकत्वद्वित्वाऽऽदिप्रत्यक्षाऽनुपपत्तिः, द्रव्यनयावलम्बनेनानपेक्षाऽऽत्मकविषयतान्तरस्याऽपि स्वीकारा-त् / अत एव सापेक्षत्वमपि स्याद्वादः, अस्मदुक्तपक्ष एवापेक्षाबुद्धिद्वित्वबुद्ध्योः पौर्वापर्यानवभासोपपत्तिः, अनन्तकार्यकारणभावप्रतिबध्यप्रतिबन्धकभावाऽऽदिकल्पनागौरवदूषणानवकाशश्चेति सर्वमवदातम्। (7) तस्मात्स्वसमये परसमये एकत्वद्वित्वाऽऽदिप्रकारकनानाविधलौकिकव्यवहारे च नयापेक्षयैव विविक्तो बोध इति स्थितम् / फलितमाहतेन सापेक्षभावेषु, प्रतीत्यवचनं नयः। अभावाऽभावरूपत्वात् , सापेक्षत्वं विधावपि // 5 // (तेनेति) तेनोक्तहेतुना सापेक्षत्वभावेषु परस्परप्रतियोगिषु धर्मेषु प्रतीत्यवचनमपेक्षाऽऽत्मकं वाक्यं नय इति सिद्धम् / नन्वेवं स्यान्नाऽस्त्येवेत्येकवचनं नयः स्यात् , न तु स्यादस्त्यैवेति; तदर्थस्य / विधेरप्रतियोगिकत्वात् / अत एवाऽऽह-विधावपि-अस्तित्वाऽऽ- 1 दिभावेऽपि, अभावाभावरूपत्वान्नास्तित्वाऽऽद्यभावरूपत्त्वात्तेन रूपेण प्रतियोगिनिरूपणाधीननिरूपणतया सापेक्षत्वमस्त्येव। अयं भावः-अभावज्ञानेऽपि न सर्वत्र प्रतियोगिज्ञानापेक्षा, प्रतियोगिज्ञानं विनाऽपीदन्त्वप्रमेयत्वाऽऽदिनानाभावमानस्य सार्वजनीनत्वात् / घटाभावत्वाऽऽदिना घटाऽभावाऽऽदिज्ञाने घटज्ञानाऽऽद्यपेक्षाप्रतियोगिनिरूपणेन तेषां सप्रतियोगिकत्वं ग्रहीष्यते, तर्हि नास्तित्वाभावत्वाऽऽदिनाऽस्तित्वाऽऽदीनां तेन रूपेण तथात्ये तुल्यमभावाभावः प्रतियोग्येवेति परेषामपि मूलसिद्धान्तात् संयोगाऽऽदावेव विशेषणतात्वकल्पनया निर्वाहेण नास्तीति प्रतीतिबलादतिरिक्त एव स इति नव्यमतनियुक्तिकत्वात् / तस्मात्स्वरूपतोऽभावाभावत्वयोरपि निष्प्रतियोगिकत्वं, विशिष्टतया तु द्वयोरपि सप्रतियोगिकत्वमिति स्याद्वाद एव श्रेयान् / अथ निष्प्रतियोगिकाभावपक्षे प्रतियोगिज्ञानस्याऽभाव प्रत्यहेतुत्वे विना प्रतियोगिज्ञानेनेत्याकारकप्रत्ययाऽऽपत्तिः / न चाभावत्वस्याऽपीदन्त्वेन ग्रहादापादकाभावः प्रथममभावाभावत्वयोनिर्विकल्पकेऽभाव इत्याकारकप्रत्यक्षाऽऽपत्तेर्दुवारत्वादिन्द्रियस्य चक्षुस्त्वगादिभेदभिन्नत्वेन महागौरवम् / न च पृथग्प्रतियोगिधीहेतुत्वेऽपि नेत्याकारकप्रत्यक्षाऽऽपत्तिः, उपस्थितस्य प्रतियोगिनोऽभावे वैशिष्टयामाने बोधकाभावात्। न चाऽभावो न घटीय इत्यादिबाधधीदशायां तदापत्तिः, अभावत्वावच्छेदेनाभावे तादृशबाधधिय आहार्यत्वात् , अभावत्वसामानाधिकरण्येन च तद्दशायामपि प्रतियोगिवैशिष्ट्यामानसंभवात् / यद्वाघटत्वाऽऽद्यवच्छिन्नप्रकारतानिरूपिताभावविषयताकस्य प्रत्यक्षे घटाऽऽदिधियो हेतुत्वम् , अन्यथा घटाऽऽद्यभाव इत्याकारकप्रत्यक्षं च न जायते, निखिलप्रतियोगिज्ञानकार्यताऽवच्छेदकाऽऽक्रन्तिदृशप्रत्यक्ष यत्किञ्चित्प्रतियोगिज्ञाने असंभवात्, यावत्प्रतियोगिज्ञानस्य चाऽसंभवात् , अभावत्वांशे निर्विकल्पकत्वं, भावांशे यत्किञ्चित्प्रतियोगिविशिष्टविषयत्वाद्यत्किञ्चित्प्रतियोगित्वात् साध्यमेवेति नानुपपत्तिरिति चेत्। न। प्रतियोगिज्ञानाभावेऽप्यभावत्वमात्रेण प्रत्यक्षस्येष्ठत्वात्, शून्यमिदं दृश्यते इत्यादिप्रत्ययात् तत्स्यमेवाभावत्वस्य भावभेदस्य पिशाचाऽऽदिभेदवद् योग्यस्य घटो नाऽस्तीत्यादौ स्वरूपतो भानमिति प्राचा वचनस्योपपत्तेः। ननूल्लेखस्तुप्रतियोगिवाचकपदनियतोन सार्वत्रिकः। किञ्च-उक्तरीत्या प्रतियोगिज्ञानस्य हेतुत्वे केवला-ऽभावत्वनिर्विकल्पकाऽऽपत्तिः, अभावत्वस्याखण्डत्वात्। अन्य-थाऽभावविशिष्टबुद्धावपि तनिर्विकल्पकायोगात् / अपि च-घट पटौ नेत्यादि प्रत्यक्ष घटज्ञानपटज्ञानाऽऽदिकार्यताऽवच्छेदकाऽनाऽऽक्रान्ततया तद्विरहेऽपि स्यात्, तस्माद् घटपटत्वाऽऽद्यवच्छिन्नप्रकारतानिरूपितविषयताकप्रत्यक्षत्वमेव लाघवाद् घटाऽऽदिधीकार्यताऽवच्छेदक युक्तमिति घटाऽस्तित्वनास्तित्वयोः सप्रतियोगिताऽप्रतियोगिकत्वे तुल्ययोगक्षेमे; त्वदुक्तहेतुसद्भावेऽपि लाघवाद् भावांशत्यागेन केवलाऽभावस्येव केवलभावस्याऽपि न भानमिति वक्तुं शक्यत्वात् , निर्विकल्पके प्रमाणाभावात् क्षयोपशमविशेषेणैव तत्तद्विशिष्टज्ञानोपपत्तौ तस्य तदकल्पकत्वात्। अत एव" द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः / क्व कदा केन किंरूपाः, दृष्टा मानेन केन वा?"॥१॥ इत्यस्मत्संप्रदायवृद्धाः सं गिरन्ते / शुद्धाभावप्रत्यक्षप्रतियोगितासंबन्धावच्छिन्नप्रकारतानिरूपिताभावविषयताक प्रत्यक्ष एव विशेषणताया हेतुत्वान्न भवतीत्यपि रिक्तं वचः; प्रतियोगितामात्रेण द्रव्यं नास्ति, मेयं नास्तीत्यादे