SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ णय 1956 - अभिधानराजेन्द्रः भाग-४ णय व्याप्या नानाजातयः, द्वित्वाऽऽदौ मानाभावाद् द्वौ त्रय इत्यादिविलक्षणबुद्धेर्विजातीयज्ञानं प्रकारभेदं विनाऽसंभवात् / अन्यथा-सर्वत्र विषयनिरपेक्षैरेव ज्ञानैस्तद्व्यवहारजननप्रसङ्गात्। नच द्रा-वित्यादिबुद्धेर्विजातीयज्ञानं विषयः, अचाक्षुषत्वाऽऽपत्तेः। न च" इमो द्वौ मधुपौ; एते त्रयः कमलकहारकलहंसाः "इत्यादौ युगपदेव द्वित्वत्रित्वप्रतीतः, एकत्र बुद्धौ द्वित्वजनकताऽवच्छेदकजात्यम्युपगमे जातिसंकरप्रसङ्ग इति वाच्यम् ; द्वित्वत्रित्वोत्पादकापेक्षाबुद्धरुत्पादे सूक्ष्मकालभेदकल्पनात्, 'गिरिरयं वह्निमान् , अहं तदज्ञानवान्' इत्यनुमितिप्रत्यक्षयोरिव। अथ तत्र भिन्नविषयेऽनुमितिसामग्र्या प्रतिबन्धं प्रतिबन्धकत्वादस्तु तयोर्युगपदनुत्पादः, न तु प्रकृते इति चेत् , तर्हि प्रतिबन्धक किश्चिदत्राऽपि कल्प्यतान् , अन्यथाऽनुपपत्तेर्बलीयस्त्वात्। अस्तु वा तदत्रापेक्षाबुद्धावुभयजनकताऽवच्छेदको जातिविशेषः; स च द्वित्वत्रित्वयोस्तजन्यताऽवच्छेदको जातिविशेषः / एतेन समवाय्यसमवायिनिमित्तकारणानामविशिष्टत्वे द्वित्वत्रित्वाऽऽद्युत्पत्ति नियमे किं कारणम् ? द्वाभ्यामेकत्वाभ्यां द्वित्वं त्रिभिस्त्रित्वमारभ्यते इति वक्तुमशक्यत्वात् , एकत्वेषु द्वित्वाऽऽदेरभावात् / न च शुद्धनयापेक्षा बुद्ध्या द्वित्वं, द्वित्वसहितया च तया त्रित्वमुत्पाद्यते इत्यपि सुवचम् , द्वित्वत्रित्वयोर्युगपदेव तत्प्रत्ययविषयत्वात्। न चैकत्वेष्विव द्वित्वाऽऽदिजनकताऽवेच्छदका जातिविशेषा अभ्युपेयाः, तत एव द्वित्वाऽऽदिव्यवहारोपपत्तौ द्वित्वाऽऽधुच्छेदप्रसङ्गादित्यादिपर्यनुयोगो निरस्तः; अपेक्षाबुद्धिनिष्ठद्वित्वत्रित्वाऽऽदिजनकताऽवच्छेदकजातिभेदेनैव ततः सामग्रीभेदात् एकापेक्षाधीजन्यद्वित्वत्रित्वयोरप्यन्यत्र परिपुष्टभेदवज्जातीयत्वेनैव भेदात् // उदयनाऽऽचार्याःतद् द्वित्वप्रागभावगर्भव द्वित्वसामग्री, त्रित्वप्रागभावगर्भा च त्रित्वसामग्रीति तयोर्विशेषः / इतोऽपि हि प्रागभावसिद्धिः; अन्यथा तयोर्विशेषो न स्यात्, पर्याप्तिसंबन्धेन द्वित्वाऽऽदिकं प्रति पर्याप्तिसंबन्धेन तत्प्रागभाव एव नियामकः; अत एवैकस्मिन्नपर्याप्तिसंबन्धेन द्वित्वाऽऽदिप्रत्ययः तत्प्रागभावस्यैकस्मिन्पर्याप्तभावेन तस्याऽपि तदभावादित्याहुः / अथापेक्षाबुद्धिजन्यत्वे द्वित्वस्य' द्वेद्रव्ये ' इति लौकिकप्रत्यक्षानुपपत्तिः; अपेक्षाबुद्धिरथ द्वित्वम् , अथ द्वित्वत्वं निर्विकल्पक, ततो द्वित्वत्वविशिष्टं प्रत्यक्षं, तदेव च द्वित्वत्वनिर्विकल्पके न स्वोत्तरवृत्तिविशेषगुणविधया जनितोऽपेक्षाबुद्धिविनाशः, ततश्च द्वेद्रव्ये ' इति लौकिकप्रत्यक्ष, तदेव चापेक्षाबुद्धिविनाशाद् द्वित्वविनाश इति द्वित्वत्वाऽभिमता व्यवस्था, साऽत्रानुपपन्ना; अपेक्षाबुद्धेस्तजन्यसंस्कारेण द्वित्वनिर्विकल्पकोत्पत्तिक्षण एव नाशात् / योन्यविभुविशेषगुणनाशं प्रति स्वोत्तरवृत्तियोग्यजातीयविभुविशेषगुणत्वेन हेतुत्वात् सुषुप्तिप्राकालवर्तिज्ञाननाशकतयैव तत्सिद्धेः, अन्यथाऽनुभवध्वंसेनैव संस्काराऽन्यथासिद्धेरिति चेत्। न। अपेक्षाबुद्धेः संस्काराजनकत्वादपेक्षाबुद्धिभिन्नत्वस्यापि संस्कारजनकताऽवच्छेदककोटिप्रदेशात्। न चैवमप्यपेक्षाबुद्धिजनितैकत्वाऽऽदिविशिष्ट बुद्ध्या अपेक्षाबुद्धिनाशयसङ्गः / तदुक्तम्-" अपेक्षाबुद्धिः संस्कारान्माकार्षीत् , विशिष्टबुद्धिस्तु कुर्यादेव " इति वाच्यम्; विशिष्टबुद्धिजननेऽपि द्वित्वसामग्र्यादेरेव फलबलेन प्रतिबन्धकत्वकल्पनात् / वस्तुतोऽपेक्षाबुद्धिनाशे द्वित्वलौकिकप्रत्यक्षस्य विशिष्य कारणत्वकल्पनान्न दोषः / न च तथाऽपि पूर्वापेक्षाजनितद्वित्वनिर्विकल्पके न स्वद्वितीयक्षणोत्पन्ने नापेक्षाबुद्धेस्तृतीयक्षणे नाशप्रसङ्गः, प्रतियोगितयाऽपेक्षाबुद्धिनाशे स्वविषयजनकत्वसंबन्धेन | द्वित्वलौकिकप्रत्यक्षत्वेन हेतुत्वात्। नन्वेवमपि द्वेद्रव्ये ' इति लौकिकप्रत्यक्षं कथं, तदुत्पत्तिक्षणे द्वित्वनाशादिति चेत् ? मैयम् / द्वित्वस्य हि तत्प्रत्यक्षे विषयविधया हेतुत्वं, न तु कार्यसहवर्तितयेति दोषाभावात्। न हि सर्वेषां कारणानां कार्यसहवर्तितयैव हेतुत्वम्, प्रागभाव-पक्षताऽऽदेरहेतुत्वप्रसङ्गादिति। प्राभाकरवृद्धानुसारिणस्तुसोऽयं नैयायिकाऽऽशयोन युक्तः, अनन्तद्वित्वाऽऽदिध्वंसप्रागभावाऽऽदिकल्पनायां गौरवात्, तयङ्ग्यत्वपक्षस्यैव युक्तत्वात् / अन्यथा नानापुरुषीयक्र मे काऽपेक्षाबुद्धिः ? समसंख्यतुल्यव्यक्तिकनानाद्वित्वाऽऽदिकल्पनेऽपि महागौरवात् / मम तु नित्यानामेव तेषां तत्तदपेक्षाबुद्धिव्यङ्ग्यत्वाद् दोषाभावात् / न चैवं तेषां जातित्वाऽऽपत्तिः, असमवायित्व सत्यनेकसमवेतत्वस्य, समवेतत्वस्यैव वा जातिव्यवहारनिमित्तत्वात्। न च विशेषेऽतिप्रसङ्गः, तत्र मानाभावात् / किञ्चद्वित्वाऽऽदेर्जन्यत्वे प्रतियोगितया नाशाजन्यतन्नाशे स्वप्रतियोगिजन्यत्वसंबन्धेनापेक्षाबुद्धिनाशत्वेन हेतुता वाच्या; तथा च-ट्यणुकपरिणामहेतुपरमाणुद्वित्वस्येश्वरापेक्षाबुद्धिजन्यस्य नाशानुपपत्तिः / न च चैत्रीयद्वित्वनाशे चैत्रापेक्षाबुद्धिनाशो हेतुरित्येवं विशेष्यैव कल्प्यते; परमाणुद्वित्वे तु यादृशोपाधिविशिष्टाया ईश्वरापेक्षाबुद्धेर्हेतुत्वं, तादृशोपाधिनाशादेव तनाशः, अविशिष्टायास्तस्या हेतुत्वे सर्वथा द्वित्वोत्पत्तिप्रसङ्गादिति वाच्यम्; स्वाव्यवहितपूर्वक्षणावच्छिन्नत्वेनैव तस्यापेक्षाबुद्धित्वमिति तन्नाशात्परमाणुद्वित्वनाशे तस्य क्षणिकत्वप्रसङ्गात् , अतिरिक्तानुगतोपाधेश्चानिर्वचनात्। अपि च-एवं तत्तद्दिवत्वनाशे तत्तदपेक्षाबुद्धिनाशत्वेन हेतुत्वे महागौरवम्।नचफलमुखत्वादस्यादोपत्वम् अस्यां कल्पनायामेव तावद् गुरुतरं कल्पनीयमिति प्रागेवोपस्थितौ तद्दोषताया वज्रलेपत्वात्, तददोषत्वेप्रागनुपस्थितेरेव बीजत्वात्। अपि च-मानसत्वाऽऽदिव्याप्यजातिविशेषेणापेक्षाबुद्धेर्द्धित्वाऽऽदिहेतुत्वे ईश्वरापेक्षाबुद्ध्या परमाणुद्वित्वाऽऽदिजननापत्तिः, ईश्वरज्ञानसाधारणद्वित्वाऽऽदिजनकताऽवच्छेदकजातिस्वीकारे च जन्यसाक्षात्कारित्वाऽऽदिना साङ्कधर्म त्रित्वाऽऽद्युत्पत्तिकाले द्वित्वाऽऽद्यापत्तिश्च दुर्निवारा / एतेन द्वित्वाऽऽदिजनकताऽवच्छेदकतयाऽपेक्षाबुद्धिनिष्ठलौकिकविषयत्वस्वीकारोऽपि निरस्तः, परार्धाऽऽदिसंख्याऽनुत्पत्तिप्रसक्तेश्च, तदाश्रययावद्रव्यवृत्तिलौकिकविषयताया असंभवात् , ईश्वरीयापेक्षाबुद्धचैव तदुत्पत्त्यङ्गीकारे चाऽन्यत्रापि कारणान्तरोच्छेद इति न किञ्चिदेतदित्याहुः / / केचित्तु द्वित्वत्रित्वाऽऽदिकं तुल्यव्यक्तिवृत्तिकमेव सामान्यम् , अनित्यस्य संयोगाऽऽदेरिव नित्यस्याऽपि द्वित्वाऽऽदेव्यासज्यवृत्तित्वे विरोधाभावात् , भिन्नेन्द्रियग्राह्याणां रूपरसाऽऽदीनामिव समानेन्द्रियग्राह्याणामपि सत्यप्येकावच्छेदेन समानदेशत्वे प्रतिनियतव्यञ्जकव्यङ्गयत्वे विरोधाभावात् , सहचारदर्शनमात्रस्याकिश्चित्करत्वात् / भेदश्च विरुद्धधर्माऽध्यासात् / स च न्यूनाधिकदेशपर्याप्तवृत्तिकत्वमित्याहुः / / परे तु घटकुटकुड्यकुशलेषु द्वित्वत्रित्वाऽऽदिप्रतीतावेकतरनाशे तवृत्तेर्द्वित्वाऽऽदेरपि संयोगाऽऽदेवि विनाशप्रत्ययादनित्यवृत्तिनानाव्यक्तिकमेव द्वित्वाऽऽदिकम् , आश्रयविनाशोत्पादाभ्यामेव तस्योत्पादविनाशौ / असमवायिकारणं तु चाऽऽश्रयस्यैकत्वं, परिणाम वा, एकवृत्तिकमेकत्वमिव तुल्यव्यक्तिवृत्तिकं द्वित्वाऽऽद्यपि नाऽनेकम्, तुल्यव्यक्तिवृत्तिकद्वित्वाऽऽदेः प्रतिबन्धकत्वात् / बुद्धिविशेषस्तद्व्यञ्जको , न तूत्पादको, नित्येषु चैकव्यक्तिकमनेकव्यक्तिकं वा नित्यमित्याहुः / / वयं तु ब्रूमः-जन्यत्वनये अपेक्षाबुद्धेर्जन्यता
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy