________________ णय 1855 - अभिधानराजेन्द्रः भाग - 4 णय अस्य व्याख्या-ऐदम्पर्य तात्पर्य पूर्वोक्तं, शुध्यति स्फुटीभवति यत्राऽऽगमे, असावागमः सुपरिशुद्धः प्रमाणभूतः, तदभावे ऐदम्पर्यशुद्ध्यभावे, तद्देशः परिशुद्धाऽऽगमैकदेशः, कश्चिदन्य आगमः स्यात्, न तु मूलाऽऽगम एव, अन्यथाग्रहणाद् मूलाऽऽगमैकदेशस्य सतो विषयस्याऽन्यथाप्रतिपत्तेर्यतः समतामवलम्बमानास्तेऽपि तथेच्छन्ति। 12 // (षो०१६ विव०) तत्राऽपि च न द्वेषः कार्यो, विषयस्तु यत्नतो मृग्यः, तस्याऽपिन सद्वचनं सर्व यत्प्रवचनादन्यदिति। नन्वयं स्वसमयनयवाक्येभ्यः परसमयनयवाक्यानां को विशेषः,फलतो जातितश्च शुद्ध्यशुद्ध्योरविशेषात् ? न हि ज्ञानदर्शनलिङ्ग-चारित्राऽऽदिवादेषु स्वसमये स्थितपक्षोऽपि स्वविषये प्राधान्यं विदधानः ज्ञानाऽऽदिनयविषये च तन्निराकुर्वाणो जात्या शुद्धत्वमङ्गीकुरुते। तथा च स्थितपक्षवचनम्-" जम्हा दंसणनाणा, संपुण्णफलं न दिति पत्तेयं / चारित्तजुआ दिति उ, विसिस्सए तेण चारित्तं " // 1 // इति / अत्र हि ज्ञानाऽऽदिनये नैतद्वक्तुं शक्यम् , यथा त्वया संपूर्णफलप्रापकत्येन चारित्रमुत्कृष्यते, तथा मया तदुपनायकत्वेन" दासेण मे खरो कीओ, दासो वी मे खरो वि मे " इति-न्यायः / इत्यादिन्यावाद् व्यापारतया चारित्रान्यथासिङ्ख्यापादनाच ज्ञानाऽऽदिकमेवोत्कर्षमारोपणीयमिति / विजृम्भितं चेदमध्यात्ममतपरीक्षायां बहुधाऽस्माभिः। तथा च प्राधान्यस्याप्यव्यवस्थितत्वात् कुत्र केन नयेन जात्या व्यवस्थेयम् ? फलतः शुद्धिस्तु स्वपर-समययोरविशिष्टेति चेत् , अत्रास्माकमाभाति-यथा देशप्रदेश-खण्डपरमाणुवादीनां स्कन्ध(संबन्ध) संबन्धाभ्यां भेदः, तथा स्व-समयपरसमयस्थविचित्रनयानां प्रमाणवाक्यान्तर्भावबहिर्भावाभ्याम् / तौ च पदार्थवाक्यार्थाऽऽदिभावेन साकासतया स्वान्त्र्येण निराकाजतया चेति न जातिभेदाऽनुपपत्तिः / स्वसमये नयेषु निराकाङ्गप्रमाणबोधपर्यवसाने तदत्यन्तोत्कर्षरूपके वलज्ञानफलोद्देशः, परसमये नयेषु च उक्तभावनामात्रफलोद्देश इति फलतोऽपि भेदो व्यक्त एवेति सर्वमवदातम्। ननु यद्येवं नयार्था आपेक्षिकाः, तदा अवयव्येकत्वमपि द्वित्वाऽs - दिवबुद्धिजन्यमेव स्यात्; उभयमपि वा ज्ञानाऽऽकारमात्रं इति चेत्। न / एकत्वद्वित्वाऽऽदीनामनन्तानां संख्यापर्यायाणामेकद्रव्यवृत्तीनामेव सतां यथा क्षयोपशमबुद्धिविशेषेण प्रतिनियतानामेव ग्रहणमित्यभ्युपगमात् / युक्तं चैतत् / अन्यथा एकत्रैव घटे तद्रूपतद्रसवतोरैक्यमित्यादिना द्विवचनप्रयोगस्य, बहुषु करि-तुरग-रथ-पदातिषु सेनेत्येकवचनप्रयोगस्याऽनुपपत्तेः। अथैकत्वद्वित्वाऽऽदितत्तद्धर्मप्रकारकबुद्धिविषयत्वाऽऽदिकं गौणमेव द्वित्वाऽऽदिव्यवहारनिमित्तं, तच तत्तद्धविच्छेदेन पर्याप्तमिति नैको द्वावित्यादेः प्रसङ्गः, मुख्यं तु द्वित्वम्अपेक्षाबुद्धिजन्यं द्वित्वमन्यदेवेति न दोष इति चेत् / न / उक्तविषयतारूपद्वित्वाऽऽदेरप्येकत्वपर्याप्तत्वात् तत्तद्धर्मप्रकारतानिरूपितत्वविशिष्टविषयताया अपि क्वचित्संबन्धाऽऽदिभेदेन प्रकारताभेदादेकस्या अभावात् ; भावेऽपि च द्वयस्य प्रत्येकानतिरिक्तत्वेन एकधर्मावच्छेदेन द्वित्वाऽऽदिपर्याप्तिप्रसङ्गाद्, धर्मगतद्वित्वस्यैव तत्पर्याप्त्यवच्छेदकताऽवच्छेदकत्वस्वीकारे च तत्राऽपि द्वित्वस्य वास्तवस्याऽभावाद् रूपत्वरसत्वाऽऽदिप्रकारकबुद्धिविषयत्वस्यैव गौणस्य स्वीकारे, तत्पर्याप्त्यवच्छेदकाऽऽदिगवेषणेऽनवस्थिते वास्तवद्वित्वाऽऽधभावे ज्ञानाऽऽकारतापर्यवसानेन साकारवादप्रसङ्गात् / तस्माद् द्रव्यत्यावच्छिन्नैकत्वाऽऽदेः पर्याप्तिस्वीकारेऽनेकान्तवाद एवानाविला व्यवस्थेति ध्येयम् / अत एव-" दव्वट्टयाए एगे अहं, नाणदसणट्टयाए बुवे अहं।" इत्यादि पारमर्षम्। इदमप्यत्र विचार्यत-द्वित्वाऽऽदिकमपेक्षाबुद्ध्या जन्यवा, व्यङ्ग्यं वेति ? तत्र जन्यमेवेति नैयायिकाः / व्यङ्ग्यमिति प्राभाकराः। तत्र नैयायिकानमयमाशयः-द्वित्वस्य व्यङ्ग्यत्वनये अपेक्षाबुद्धेर्द्वित्वत्वप्रकारकलौकिकप्रत्यक्षत्वकार्यताऽवच्छेदकत्वं वाच्यम् , जन्यत्वनये तु द्वित्वमेवेति लाघवम् / न च व्यङ्ग्यत्वनयेऽपि लौकिकप्रकारतासंबन्धेन द्वित्वमेव तत्कार्यताऽवच्छेदकं वक्तुं शक्यम् , गुणत्वसंख्यात्वतव्यक्तित्वाऽऽदिना विनाऽप्यपेक्षाबुद्धिं तत्प्रत्यक्षप्रसङ्गात् , तेन रूपेण तत्प्रत्यक्ष प्रति तस्याहेतुत्वकल्पने चातिगौरवात्। न च स्वाश्रयविषयतया द्वित्वत्वस्य कार्यताऽवच्छेदकतया न दोष इति वाच्यम् / तथाऽपि व्यङ्ग्यत्वनये स्वाश्रयविषयत्वं कार्यताऽवच्छेदकताऽवच्छेदकः संबन्धः, जन्यत्वनये तु समवाय इतिजन्यत्वपक्ष एव श्रेयान.लाघवात। अथ द्वित्वप्रत्यक्षेऽपि प्रत्यक्षत्वमेव कार्यताऽवच्छेदकम् , द्वित्ववृत्तिविषयतायाः कार्यताऽवच्छेदकसंबन्धत्वेनैवानतिप्रसङ्गात्। अन्यथा द्वित्वप्रत्यक्षस्य विषयतया द्वित्वत्वाऽऽदावपि जायमानत्वेन व्यभिचारात् अपेक्षाबुद्धित्वं कारणताऽवच्छेदक, तच मानसत्वव्याप्यो जातिविशेषः, कारणताऽवच्छेदकः संबन्धः स्वविषयपर्याप्तत्वम्, तेन घटपटैकत्वबुद्धित्वेनाऽपेक्षाबुद्धेर्घटपट द्वित्वप्रत्यक्षहेतुत्वेऽनन्तकार्यकारणभावाऽऽपत्तिः, द्वित्वप्रत्यक्षताऽवच्छिन्नेऽपेक्षाबुद्धित्वेन सामान्यतो हेतुत्वेऽपि घटपटद्वित्वप्रत्यक्षकाले घटकुड्यद्वित्वप्रत्यक्षाऽऽपत्तिः,स्वविषयवृत्तित्वसंबन्धेनापेक्षाबुद्धस्तत्राऽपि सत्त्वादित्यादिदूषणानवकाशः / घटपटैकत्वबुद्धेर्घटकुड्यद्वित्वे स्वविषयपर्याप्तत्वसंबन्धेनाऽसत्त्वादिति व्यङ्ग्यत्वनयेऽपि न गौरवमिति चेत् / न / एवं सति प्रत्यक्षत्वं वा कार्यताऽवच्छेदकं, ज्ञानत्वं वाऽनुभवत्वं वेत्यादौ विनिगमकाभावात्। किश-व्यङ्गयत्ववादिना मैत्रीयापेक्षाबुद्ध्या संनिकर्षाऽऽदिवशाद् चैत्रीयप्रत्यक्षोत्पत्तिवारणाय चैत्रीयापेक्षाबुद्धित्वस्य चैत्रीयप्रत्यक्षत्वाऽऽदिना कार्यकारणभावो वाच्य इति गौरवमेव / अथ तव पुरुषान्तरापेक्षाबुद्धिजनितद्वित्वस्य पुरुषान्तराप्रत्यक्षत्वाय द्वित्वनिष्ठविषयतासंबन्धेन चैत्रीय प्रत्यक्ष मैत्रीयद्वित्वाऽऽदिभेदस्याऽपि हेतुत्वं कल्पनीयम् / यदा-चैत्रीयद्वित्वप्रत्यक्ष प्रति चैत्रापेक्षाबुद्धिजन्यद्वित्वेन हेतुता कल्पनीया, कार्यताऽवच्छेदकः संबन्धो द्वित्वनिष्ठविषयताकारणताऽऽवच्छेदकस्तादात्म्यम् / अत एव-चैत्रमैत्रापेक्षाबुद्धिभ्यां तुल्यविषयाभ्यां युगपदुत्पन्नाभ्यामुत्पादितं द्वित्वमेकमेवेति मतेऽपिन क्षतिरिति कल्पनायामधिकं गौरवमिति चेत्।न। तद्गौरवस्य फलमुखत्वेनाऽदोषत्वात्। यद्यपि द्वित्वाऽऽदावपेक्षाबुद्धेनैकत्वावगाहिबुद्धित्वेन हेतुता, अयं घट एक इति बुद्धितोऽपि द्वित्वोत्पत्त्यापत्तेः; नाऽपि नैकत्वावगाहिबुद्धित्वेन, अयमेकश्चिरनष्टो घटश्चैक इति बुद्धितोऽपि तदापत्तेः; तथाऽपि द्वित्वाऽऽदिजनकताऽवच्छेदका मानसत्वव्याप्या नानाजातयो वाच्याः, अन्यदा कदाचिद् द्वित्वं कदाचित्रित्वमिति नियमोन स्यात्।नच स्मृतित्वव्याप्यत्वमेव तासां न कुतः ? इति वाच्यम्; यद्व्यक्तिविशेष्यत्वैकस्मरणं कस्याऽपि न जातं, तत्र स्मरणाऽनुभवकार्यकारणभावकल्पने संस्कारव्यवधानेन क्षणविलम्बे च गौरवात् , स्मृतित्वव्याप्यत्वेऽपि स्मरणाऽऽत्मकैकत्वबुद्धिकल्पनाक्षणे मानसोत्पत्तौ बाधकाभावादुपनायकज्ञानघटितसामग्रीसत्त्वात् मानसं प्रति तत्तत्स्मृतिसामय्या प्रतिबन्धकत्वकल्पने च महागौरवात् / सन्तु वा चाक्षुषन्वाऽऽदि