SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ णय 1857 - अभिधानराजेन्द्रः भाग - 4 णय उदाहरन्तियथा सुखविवर्तः सम्प्रत्यस्तीत्यादिः॥ 26 / / अनेन हि वाक्येन क्षणस्थायिसुखाऽऽख्यं पर्यायमात्रं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नार्म्यते; आदि-शब्दाद् दुःखपर्यायोऽधुनाऽस्तीत्यादिकं प्रकृतनयनिदर्शनमभ्यूहनीयम् // 26 / / (रत्ना०) शब्दनयं शब्दयन्तिकालाऽऽदिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः / / 32 / / कालाऽऽदिभेदेन कालकारकलिङ्गसंख्यापुरुषोपसर्गभेदेन // 32 // उदाहरन्तियथा बभूव भवति भविष्यति सुमेरुरित्यादिः // 33 // अत्राऽतीतवर्तमानभविष्यल्लक्षणकालत्रयभेदात् कनकाऽचलस्य भेद शब्दनयः प्रतिपद्यते।द्रव्यरूपतया पुनरभेदममुप्योपेक्षते। एतच्च कालभेदे उदाहरणम्। करोति क्रियते कुम्भ इति कारकभेदे; तटस्तटी तटमिति लिङ्गभेदे, दाराः कलत्रमित्यादि संख्याभेदे, एहि मन्थे रथेन यास्यसिन हि यास्यसि यातस्ते पितेतिपुरुषभेदे, संतिष्ठतेऽवतिष्ठत इत्युपसर्गभेदे // 33 // (रत्ना०) समभिरूढनयं वर्णयन्तिपर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं सममिरोहन सममिरूढः // 36 // शब्दनयो हि पर्यायभेदेऽप्यभिदमभिप्रेति, समभिरूढस्तु पर्यायभेदे भिन्नानानभिमन्यते, अभेदं त्वर्थगतंपर्यायशब्दानामुपेक्षत इति।। 36 / / उदाहरन्तिइन्दनादिन्द्रः, शकनाच्छक्रः, पूरणात् पुरन्दर इत्यादिषु यथा / / 37 // इत्यादिषु पर्यायशब्देषु यथा निरुक्तिभेदेन भिन्नमर्थं समभिरोहऋभिप्रायविशेषः समभिरूढः, तथाऽन्येष्वपिघटकुटकुम्भाऽऽदिषु द्रष्टव्यः // 37 // (रत्ना०) एवंभूतनयं प्रकाशयन्तिशब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाऽऽविष्टमर्थ वाच्यत्वेनाऽभ्युपगच्छन्नेवंभूतः // 40 // समभिरूढनयो हीन्दनाऽऽदिक्रियायां सत्यामसत्यां च वासवाऽऽदेरर्थस्येन्द्राऽऽदिव्यपदेशमभिप्रैति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत् तथा रूढेः सद्भावात् / एवम्भूतः पुनरिन्दनाऽऽदिक्रियापरिणतमर्थ तत्क्रियाकाले इन्द्राऽऽदिव्यपदेशभाजमभिमन्यते; न हि कश्चिदक्रियाशब्दोऽस्यास्ति, गौरश्व इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वाद्गच्छतीति गौः, आशुगामित्वादश्व इति / शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दाएव-शुचिभवनात् शुक्लो, नीलनान्नील इति। देवदत्तो यज्ञदत्त इति यदृच्छाशब्दाभिमता अपि क्रियाशब्दा एव-देव एनं देयात्, यज्ञ एनं देयादिति। संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाश्चाभिमताः क्रियाशब्दा एव-दण्डोऽस्याऽस्तीति दण्डी, विषाणमस्यास्तीति विषाणीत्यस्ति क्रियाप्रधानत्वात्। पञ्चतयी तु शब्दानां व्यवहारमात्राद्न निश्चयादित्ययं नयः स्वीकुरुते॥ 40 // उदाहरन्तियथेन्द्रनमनुभवन्निन्द्रः, शकनक्रियापरिणतः शक्रः, पूरणप्रवृत्तः पुरन्दर इत्युच्यते // 41 // रत्ना०७ परि०। (6) ननु सर्वत्र वास्तव्येवापेक्षा नयप्रवृत्तिहेतुः, उत वैज्ञानिक्य-पि? उच्यते-क्वचिद् वैज्ञानिक्यपि,यत्र मतभेदोऽध्यवसायः। तथा चाऽऽहनानानयमयो व्यक्तो, मतभेदो ह्यपेक्षया। कोट्यन्तरनिषेधस्तु, प्रस्तुतोत्कटकोटिकृत् // 4 // (नानेति) हि निश्चितं मतभेदः-बौद्धौपनिषदादिदर्शनभेदः, नानानयमयः-स्वेच्छानिवेशितत्वेनाऽनेकनयविकाररूपः, वस्तुत्वप्रकृतिरूपोवा; अपेक्षया व्यक्तः, शुद्धपर्यायशुद्धद्रव्याऽऽद्यपेक्षयैव तत्तदर्थव्यवस्थितेः।नयविशेषतात्पर्यमतद्, न त्वपेक्षेति चेत्। न। तात्पर्यस्याऽपि वस्तुसंबन्धरूपापेक्षामालम्ब्य प्रवृत्तेः, असति संबन्धे तात्पर्यस्य प्रामाण्याप्रसरात् / सा चेयमपेक्षा वैजातिकः संबन्धः; अत एव विकल्पसिद्धस्य धर्मिणः प्रतिषेधाऽऽदिसाधनमामनन्ति साम्प्रदायिकाः / ईश्वरो नास्ति, प्रकृति स्तीत्यादौ विशिष्टज्ञानाऽऽकारविषयत्वेन तत्र धर्मिणो विकल्पसिद्धत्वाद्विशिष्टवस्तुसिद्धौ कथं विशिष्टाऽऽकारो भवेदिति चेत् ? यथा तत्र विशिष्टानतिरेकेऽपि विशिष्टाभावोऽतिरिक्तः प्रतिबिम्बबलात् सिद्धः, तथा मम विशिष्टाऽऽकारोऽपीति किं बाधकम् ? खण्डशः प्रसिद्धधर्मधर्मिरूपसदुपरागेणासदाकारोत्पत्तेनस्त्यिस्यातिप्रसङ्गः ? यद्वा-आलयविज्ञानसन्ततिरूप आत्माऽपि यदि क्षणिकः, किं पुनर्वाच्यं बाह्यवस्तुष्विति वैराग्यप्रतिपन्थितृष्णोच्छेदकानित्यभावनोद्देशेन बौद्धदर्शनस्य ? मुमुक्षुणा सर्व परित्यज्य स्वात्मनिष्ठेन भवितव्यम्; स च एक एवेति शोकद्वेषाऽऽदिनिबन्धनानेकसंबन्धबुद्धिमलप्रक्षालनगङ्गाजलसमानिकत्वभावनोद्देशेन च वेदान्तिकदर्शनस्य प्रवृत्तेः; तत्तदर्शनार्थज्ञानेषु तत्तद्भावनोद्देशप्रयुक्तमेवा-पेक्षात्वं, तेनैव तस्य सुनयत्वव्यवस्थितेः। अन्यथा बौद्धसिद्धान्ते बाह्यार्थज्ञानाऽऽदिवादानां, वेदान्तिसिद्धान्ते च प्रतिबिम्बाभासावच्छेददृष्टिसृष्टिवादाऽऽदीनामन्योऽन्यविप्रतिषिद्धत्वेन जात्या दुर्न-यत्वं सम्यग्दृष्टिपरिग्रहेणाऽपि निराकर्तुमशक्यत्वात्। न हि जात्या हलाहलं सवैद्यहस्तोपादानमात्रेणाऽमृतायते, रसायनीकरणं तु तस्योक्तापेक्षयैवेति दृढतरमवधेयम्। ननूक्तापेक्षयाऽतिशुद्धर्जुसूत्राऽऽदीनामितरनयार्थप्रतिषेधवृत्तौ कथं न दुर्नयत्वम् ? इतरांशौदासीन्यस्येव सुनयलक्षणत्वात्।दृश्यन्ते चते नयाः स्वसमये, परसमये चस्वेतरनयार्थबाधेनेव प्रगल्भमाना इत्याशक्ड्याऽऽह-कोट्यन्तरस्येतरनयार्थस्य, निषेधो निराकरणं, प्रस्तुता या उत्कटकोटिस्तत्कारी, विशिष्टविधेर्विशेषणविश्रामण प्रस्तुतकोटरुत्कटत्वकृदित्यर्थः / अयं भावः-यदीतरनयार्थप्रतिषेधो द्वेषबुद्ध्या तदा दुर्नयत्वमेव, यदि चोक्तभावानदाढ्यानुगतस्वविषयोत्कर्षाऽऽधानाय, तदा सुनयत्वमेव, जात्या र्दुनयस्याऽपि चिन्ताज्ञानेन फलतः सुनयीकरणाद्, भावनाज्ञानेन ऐदम्पर्यार्थप्रधानकरणप्रमाणवाक्यैकदेशत्वाऽऽपादनाच। तदाहुः श्रीहरिभद्रसूरयः षोडशप्रकरणे"ऐदम्पर्य शुद्ध्यति, यत्राऽसावागमः सुपरिशुद्धः। तदभावे तद्देशः, कश्चित् स्यादन्यथाग्रहणात्।।१२।।"
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy