________________ णय 1956 - अभिधानराजेन्द्रः भाग - 4 णय घेते ततस्तद्गोचरमपरमपि नयद्वयं प्राप्नोतीति चेत् / नैतदनुपद्रवम् / द्रव्यपर्यायाभ्यां व्यतिरिक्तयोः सामान्यविशेषयोरप्रसिद्धः / तथाहिद्विप्रकारं सामान्यमुक्तम्-ऊर्द्धतासामान्यं, तिर्यक्सामान्यं च / तत्रोद्धर्वतासामान्यं द्रव्यमेव; तिर्यक् सामान्यं तु प्रतिव्यक्तिसदृशपरिणामलक्षणं व्यञ्जनपर्याय एव / स्थूलाः कालान्तरस्थायिनः शब्दानां सङ्केतविषया व्यञ्जनपर्याया इति प्रावचनिक प्रसिद्धः / विशेषोऽपि वैसदृश्यविवर्तलक्षणः पर्याय एवान्तर्भवतीति नैताम्यामधिकनयावकाशः / / 5 / / द्रव्यार्थिकभेदानाहुःआद्यो नैगमसंग्रहव्यवहारभेदात् त्रेधा॥६॥ आद्यो द्रव्यार्थिकः॥६॥ तत्र नैगमंप्ररूपयन्तिधर्मयोर्धर्मिणोधर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः // 7 // पर्यायवोर्द्रव्ययोर्द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया यद्विवक्षणं स | एवंरूपो नैके गमा बोधमार्गा यस्याऽसौ नैगमो नाम नयो ज्ञेयः / / 7 / / अथास्योदाहरणाय सूत्रत्रयीमाहुःसचैतन्यमात्मनीति धर्मयोः // 8 // प्रधानोपसर्जनभावेन विवक्षणमितीहोत्तरत्र च सूत्रद्वये योजनीयम्। अत्र चैतन्याऽऽख्यस्य व्यञ्जनपर्यायस्य प्राधान्येन विवक्षणम् , विशेष्यत्वात्। सत्त्वाऽऽख्यस्य तुव्यञ्जनपर्यायस्योपसर्जनभावेन; तस्य चैतन्यविशेषणत्वादिति धर्मद्वयगोचरो नैगमस्य प्रथमो भेदः / / 6 / / वस्तुपर्यायवद् द्रव्यमिति धर्मिणोः || 6 || अत्र हि पर्यायवद् द्रव्यं वस्तु वर्तत इति विवक्षायां पर्यायवद् द्रव्याऽऽख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यम् , वस्त्वाख्यस्य तु विशेषणत्येन गौणत्वम्। यद्वा-किं वस्तुपर्यायवद्रव्यमिति विवक्षायां वस्तुनो विशेष्यत्वात् प्राधान्यम् , पर्यायवद्रव्यस्य तु विशेषणत्वाद् गौणत्वमिति धर्मियुग्मगोचरोऽयं नैगमस्य द्वितीयो भेदः / / 6 / / क्षणमेकं सुखी विषयाऽऽसक्तजीव इति धर्मधर्मिणोः / / 10 // अत्र हि विषयाऽऽसक्तजीवाऽऽख्यस्य धर्मिणो मुख्यता, विशेष्यत्वात्, सुखलक्षणस्य तु धर्मस्याप्रधानता, तद्विशेषणत्वेनोपात्तत्वादिति धर्मधालम्बनोऽयं नैगमस्य तृतीयो भेदः / न चास्यैव प्रमाणाऽऽत्मकत्वानुषङ्गोधर्मधर्मिणोः प्राधान्येनात्र ज्ञप्रसंभवात् तयोरन्यतर एव हि नैगमनयेन प्रधानतयाऽनुभूयते / प्राधान्येन द्रव्यपर्यायहयाऽऽत्मकं चार्थमनुभवद्विज्ञानं प्रमाणं प्रतिपत्तव्यं नान्यत्॥ 10 // (रत्ना०) ___ अथ संग्रहस्वरूपमुपवर्णयन्तिसामान्यमात्रग्राही परामर्शः संग्रहः / / 13 // सामान्यमात्रमशेषविशेषरहितं सत्त्वद्रव्यत्वाऽऽदिकं गृह्णातीत्येवंशीलः, समेकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति संग्रहः / अयमर्थः-स्वजातेदृष्टष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद्ग्रहणं स संग्रह इति / / 13 // अमुंभेदतो दर्शयन्तिअयमुभयविकल्पः -परोऽपरश्च / / 15 / / तत्र परसंग्रहमाहुःअशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रममिमन्यमानः परसंग्रहः / / 15 / / परामर्श इत्यग्रेतनेऽपि योजनीयम्॥१५ / / उदाहरन्तिविश्वमेकं सदविशेषादिति यथा॥१६॥ अस्मिन् उक्ते हि सदिति ज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वेनैकत्वमशेषार्थानां संगृह्यते // 16 // (रत्ना०) अथापरसंग्रहमाहुःद्रव्यत्वाऽऽदीन्यवान्तरसामान्यानि मन्वानस्तद्देदेषु गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः || 16 || द्रव्यत्वमादिर्येषां पर्यायत्वप्रभृतीनां तानि तथा, अवान्तरसामान्यानि सत्ताऽऽख्यमहासामान्यापेक्षया कतिपयव्यक्तिनिष्ठानि तद्भेदेषु द्रव्यत्वाऽऽद्याश्रयभूतविशेषेषु द्रव्यपर्यायाऽऽदिषु गजनिमीलिकामुपेक्षाम् // 16 // उदाहरन्तिधर्माऽधर्माऽऽकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथा // 20 // अत्र द्रव्य द्रव्यमित्यभिन्नज्ञानाभिधानलक्षणलिङ्गानुमितद्रव्यत्वाऽऽत्मकत्वेनैक्यं षण्णामपि धर्माऽऽदिद्रव्याणां संगृह्यते / आदिशब्दाचेतनाचेतनपर्यायाणां सर्वेषामेकत्वम् ; पर्यायत्वाविशेषादित्यादि दृश्यम् / / 20 // (रत्ना०) अथव्यवहारनयं व्याहरन्तिसंग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः॥ 23 // संग्रहगृहीतान् सत्त्वाऽऽद्यर्थान् विधाय, न तु निषिध्य यः परामर्शविशेषः, तानेव विभजते, स व्यवहारनयस्तझैः कीर्त्यते // 23 // उदाहरन्तियथा यत्सत्तद् द्रव्यं पर्यायो वेत्यादिः / / 24 / / आदिशब्दादपरसंग्रहगृहीतार्थगोचरव्यवहारोदाहरणं दृश्यम्।यद्रव्यं तज्जीवाऽऽदिषड्विधं, यः पर्यायःस द्विविधः-क्रमभावी, सहभावी चेति। एवं यो जीवः मुक्तः संसारी च, यः क्रमभावी पर्यायः स क्रियारूपः, अक्रियारूपश्चेत्यादि।। 24 / / (रत्ना०) द्रव्यार्थिकं त्रेधाऽभिधाय पर्यायार्थिकं प्रपञ्चयन्तिपर्यायार्थिकश्चतुर्धा-ऋजुसूत्रः,शब्दः, समभिरूढः, एवंभूतश्व / / 27 // एषु ऋजुसूत्रंतावद्वितन्वन्तिऋजु वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः // 28 // ऋजु अतीतानागतकालक्षणलक्षणकौटिल्यवैकल्यात् प्राञ्जलम् अयं हि द्रव्यं सदपि गुणीभावान्नार्पयति, पर्यायांस्तु क्षणध्वंसिनः प्रधानतया दर्शयतीति / / 28 / /