SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ णय 1855 - अभिधानराजेन्द्रः भाग - 4 णय र्द्धनिखातवंशाऽऽदिपरिमाणग्रहः / यद्वा-अर्द्धनिखातवंशाऽऽदेर्महत्याऽऽदिकं गृह्यत एव, महानयं वंश इति प्रतीतेः / तदवान्तरवैजात्यं तु नानुभूयत इति तत्तद्वैजात्यग्रहं प्रत्यावरकसंयोगस्य विराधिता। न च निखाताऽनिखातसदृशवंशयोः सन्निकर्षकतायां तन्महत्त्वाऽऽदिवृत्तिवैलक्षण्यानुभवाद् वैजात्यप्रत्यक्षं (प्रत्यक्षं) प्रत्यावरकसंयोगानां प्रतिबन्धकत्वासंभव इति वाच्यम्; तादृशवैलक्षण्यप्रकारकं प्रत्यक्षं प्रत्येव तेषां विरोधित्वात् / विशेष्यत्वं प्रतिबध्यताऽवच्छेदकः संबन्धः, स्वाश्रयमेव तत्त्वं प्रतिबन्धतावच्छेदकम् , इत्यनतिप्रसङ्गात्। न चैवम्, निखातसनिकर्षात् तादृशवैलक्षण्यविशेष्यकसाक्षात्काराऽऽयत्तेर्दुर्वारत्वात्। किञ्च-एवमावृत्तैक-पार्श्वविच्छेदेन यस्य चक्षुःसंयोगानोक्तवैजात्यस्य ग्रहः, तस्यैवान्यदा पुरुषान्तरस्य वा तदानीं पाश्चन्तिरावच्छेदेन चक्षुःसंयोगेऽप्यग्रहः स्यात् , आवरकसंयोगस्य विरोधिनः सत्त्वात् / तत्तत्कालीनतत्तत्पुरुषीयमहत्त्वाऽऽदिप्रत्यक्षं प्रत्येवोक्तप्रतिबन्धकत्वे त्वनावरणकालीनस्य विलक्षणमहत्त्वाऽऽदिप्रत्यक्षस्याऽऽवरणदशायामुत्पत्तिप्रसङ्गः। न हि तत्रापि सन्निकर्ष विना अन्यविशिष्टकारणं क्लिप्तं येन तद्विलम्बात्तद्विलम्बः स्यात्। अपि च-एवमावृत्तादृष्टनष्टस्थले प्रतिबद्ध्याप्रसिद्धिः स्वप्राचीस्थपुरुषीयोक्तवैजात्यसाक्षात्कारणत्वावच्छिन्न एव स्वप्रतीच्यवच्छिन्नाऽऽवरकसंयोगत्वेन प्रतिबन्धकत्वेतु द्रव्यचाक्षुषेऽप्येवमित्यादिसंयोगप्रतिबन्धकत्वेन निर्वाह व्यवहितार्थादर्शनान्यथाऽनुपपत्त्या चक्षुःप्राप्यकारित्वसाधनप्रयासस्य वैफल्याऽऽपत्तिरिति न किञ्चिदेतत्। एतेन तादृशवैलक्षण्यसाक्षात्कारप्रयोजकतया चक्षुरादिसंयोगनिष्ठवैजात्यान्तरस्वीकारेणैव निर्वाह इति कल्पनाऽपि तेषामपास्ता, तद्वतोरिति न्यायेनाऽऽभिमुख्यविशेषेणाऽऽयरणाभावविशेषेण वा निर्वाह तादृशवैजात्यकल्पनायां महागौरवात् , अन्यापेक्षयैव स्वदेशापेक्षयाऽपि न्यूनाधिकभावरूपवैजात्यानुभवस्यापेक्षा विनाऽनुपपत्तेश्चेति दिक् / / 3 / / नयो० / द्रव्या०। (5) तत्र नय इति किमुच्यते ? कतिभेदश्चायम् ? इत्याहएगेण वत्थुणोऽणे-गधम्मुणो जमवधारणेणेव / नयणं धम्मेण तओ, होइनओ सत्तहा सो य / / 2180 / / अनेकधर्मणोऽनन्तधर्माऽऽत्मकस्य वस्तुनो यदेकेन नित्यत्वाऽऽदिना, अनित्यत्वाऽऽदिना वा धर्मेणावधारणेनैव सावधारणं नयनं प्ररूपणं तकोऽसौ नयो भवति। अनन्तधर्माऽऽत्मकंवस्त्वेकांशेनैव नयति प्ररूपयतीति नयः / कथं पुनरेकस्य वस्तुनो युग-पदनन्तधर्माऽऽत्मकत्वम् ? अत्रोच्यते-सर्वमेव वस्तु तावत्सपर्यायम् / ते च पर्याया द्विविधाःरूपरसाऽऽदयो युगपद्भाविनः, नवपुराणाऽऽदयस्तु क्रमभाविनः / पुनः शब्दार्थपर्यायभेदात्सर्वेऽपि द्विविधाः / तत्र' इन्द्रो दुश्च्यवनो हरिः " इत्यादिशब्दैर्येऽभिलप्यन्ते, ते सर्वेऽपि शब्दपर्यायाः। ये त्यभिलपितुं न शक्यन्ते श्रुतज्ञानविषयत्वातिक्रान्ताः केवलाssदिज्ञानविषयास्तेऽर्थपर्या- याः / पुनरेते द्विविधाः-स्वपर्यायाः, परपर्यायाश्च / पुनस्तेऽपि केचित्स्वाभाविकाः, केचित् तु पूर्वापराऽऽदिशब्दवदापेक्षिकाः / पुनरेते सर्वेऽप्यतीतानागतवर्तमानकालभेदालिविधा इत्यादिना प्रकारेण समयानुसारतः सुधिया वस्तुनो युगपदनन्तधर्मकत्वं भावनीयम्। स च नयः सप्तविधः सप्तप्रकार इति। 2180 / / विशे० / आ० म०। ननु नयस्य प्रमाणाभेदेन लक्षणप्रणयनमयुक्तम् , स्वार्थव्यव- | सायाऽऽत्मकत्वेन तस्य प्रमाणस्वरूत्वात् / तथाहि-नयः प्रमाणमेव, स्वार्थव्यवसायकत्वादिष्टप्रमाणवत् , स्वार्थव्यवसायकस्याप्यस्य प्रमाणत्वानभ्युपगमे प्रमाणस्यापि तथाविधस्य प्रमाणत्वं न स्यादिति कश्चित् / तदसत् / नयस्य स्वार्थकदेशनिर्णीतिलक्षणत्वेन स्वार्थव्यवसायकत्वासिद्धेः / ननु नयविषयतया सम्मतोऽर्थकदेशोऽपि यदि वस्तु तदा तत्परिच्छे दी नयः प्रमाणमेव, वस्तुपरिच्छेदलक्षणत्वात्प्रमाणस्य / स न चेद्वस्तु तर्हि तद्विषयो नयो मिथ्याज्ञानमेव स्यात्, तस्यावस्तुविषयत्वलक्षणत्वादिति चेत् / तदवद्यम्। अर्थकदेशस्य वस्तुत्वावस्तुत्वपरिहारेण वस्त्वंशतया प्रतिज्ञानात्। तथा चाऽवाचि" नाऽयं वस्तुन चाऽवस्तु, वस्त्वंशः कथ्यते बुधैः। नाऽसमुद्रः समुद्रो वा, समुद्रांशो यथैव हि // 1 // तन्मात्रस्य समुद्रत्वे, शेषांशस्याऽसमुद्रता। समुद्रबहुता वा स्यात् , तत्त्वे क्वास्तु समुद्रवित् ? // 2 // " यथैव हि समुद्राशस्य समुद्रत्वे शेषसमुद्रांशानामसमुद्रत्वप्रसङ्गात् समुद्रबहुत्वाऽऽपत्तेर्वा तेषामपि प्रत्येकं समुद्रत्वात् तस्याऽसमुद्र-त्वे वा शेषसमुद्रांशानामप्यसमुद्रत्वात् क्वचिदपि समुद्रव्यवहारा-योगात् समुद्रांशः समुद्रांश एवोच्यते, तथा-स्वार्थकदेशो नयस्य न वस्तु, स्वार्थकदेशान्तराणामवस्तुत्वप्रसङ्गाद्वस्तुबहुत्वानुषक्तेर्वा नाप्ययस्तु, शेषांशानामप्यवस्तुत्वेन क्वचिदपि वस्तुव्यवस्थाऽनु-पपत्तेः। किंतर्हि वस्त्वंश एवासौ तादृक्प्रतीतेर्बाधकाभावात् ? ततो वस्त्वंशे प्रवर्त्तमानो नयः स्वार्थकदेशव्यवसायलक्षणो न प्रमाण, नापि मिथ्याज्ञानामिति // 1 // (रत्ना०) नयप्रकारसूचनायाऽऽहु:सव्याससमासाभ्यां दिप्रकारः॥३॥ स प्रकृतो नयः व्यासो विस्तरः, समासः संक्षेपः, ताभ्यां द्विभेदःव्यासनयः,समासनयश्चेति॥३॥ व्यासनयप्रकारान् प्रकाशयन्तिव्यासतोऽनेकविकल्पः // 4 // एकांशगोचरस्य हि प्रतिपत्त्रभिप्रायविशेषस्य नयस्वरूपत्वमुक्तं, ततश्वानन्तांशाऽऽत्मके वस्तुन्येकैकांशपर्यवसायिनो यावन्तः प्रतिपत्तॄणामभिप्रायास्तावन्तो नयाः, ते च नियतसंख्यया संख्यातुं न शक्यन्त इति व्यासतो नयस्यानेकप्रकारत्वमुक्तम्॥ 4 // समासनयं भेदतो दर्शयन्तिसमासतस्तु द्विभेदो-द्रव्यार्थिकः, पर्यायार्थिकश्च / / 5 / / नय इत्यनुवर्तते; द्रवति द्रोष्यति अदुद्रुवत् तांस्तान् पर्यायानिति द्रव्य, तदेवार्थः, सोऽस्ति यस्य विषयत्वेन स द्रव्यार्थिकः / पर्येत्युत्पादविनाशौ प्राप्नोतीतिपर्यायः स एवार्थः, सोऽस्ति यस्यासौ पर्यायार्थिकः / एतावेव च द्रव्यास्तिकपर्यायास्तिकाविति, द्रव्यस्थितपर्यायस्थिताविति, द्रव्यार्थपर्यायार्थाविति न प्रोच्यते। ननु गुणविषयस्तृतीयो गुणार्थिकोऽपि किमिति नोक्त इति चेत् . गुणस्य पर्याय एवान्तर्भूतत्वेन पर्यायार्थिकनैव तत्संग्रहात्। पर्यायो हि द्विविधः कमभावी, सहभावी च। तत्र सहभावी गुण इत्यभिधीयते; पर्यायशब्देन तु पर्यायसामान्यस्य स्वव्यक्तिव्यापिनोऽभिधानान्न दोषः। ननु द्रव्यपर्यायव्यतिरिक्तौ सामान्यविशेषौ वि
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy