________________ णय 1854 - अभिधानराजेन्द्रः भाग - 4 णय वृक्षेशाखाऽऽपेक्षयैव कपिसंयोगवत्त्वव्यवहारात् / न चाऽवच्छेदकावगा वाय(व्यवहारो)नत्वपेक्षाऽऽत्मक इति वाच्यत् , शाखाऽवच्छिन्नो वृक्षः कपिसंयोगवान , न तु संपूर्ण इति प्रत्ययस्य स्कन्धदेशापेक्षा विनाऽनुपपत्तेः / कथं चैवं सामान्यविशेषापेक्षां विना" घटपटयोः रूपं, घटपटयोर्न रूपम् " इत्यादयो विचित्रनयापेक्षाप्रत्ययाः समर्थनीयाः / संग्रहनयाऽऽश्रयणेनैव हि घटपटोभयरूपसामान्योद्भूत (त) त्वविवक्षया घटपटयो रूपमिति प्रत्ययस्योपपत्तेः, द्वयोर्भेदविवक्षायां प्रत्येकाऽन्वयस्य धर्मद्वयावच्छिन्नवाचकपदोपादानस्थल एव व्युत्पन्नत्वात् / व्यवहाराऽऽश्रयणात्तु प्रकृतप्रयोगोऽनुपपन्न एव, मिलितवृत्तित्वान्वय एव तस्य साकाङ्गत्वाद् घटपटयोन रूपमिति बोधस्यैव तस्मादुत्पत्तेः / यत्तु घटपटयोन रूपमिति वाक्यं तात्पर्यभेदेन योग्यायोग्यं-घटपटयोः रूपत्वाव-च्छिन्नाभावान्वयातात्पर्य ऽयो ग्यमेव, रूपत्वावच्छेदेन घटपटोभयवृत्तित्वाभावान्वयतात्पर्ये च योग्यमेव; घटपटयो रूपमित्यादौ च घटपटोभयवृत्तित्वस्यापि रूपत्वाऽऽदिसामानाधिकरण्येन अन्वयबोध एव साकाङ्गत्वाद् न तयोर्घटरूपमित्यपि स्यादिति कैश्चित्कल्प्यते। तद्सत् / प्रतिवस्तुन्याकाङ्क्षावैचित्र्यस्यापेक्षाबोधाऽऽत्मकफलवैचित्र्यार्थमेवाऽऽश्रयणात् , उभयरूपसामान्यस्य प्रत्येकरूपविशेषात्कथचिझेदानभ्युपगमे त्वदुक्तान्यव्युत्पत्तिग्रहाद् घटपटयोर्घटरूपमिति जायमानस्य बोधस्य प्रामाण्याऽऽपत्तेश्च; अस्माकं तु स्यादर्थानुप्रवेशस्यैवातिप्रसङ्गभञ्जकत्वान्न दोषः। किश्चैवम्-द्वयोर्गुरुत्वं नगन्ध इत्यादी का गतिः ? गुरुत्वसामानाधिकरण्येनेव गन्धत्वसामानाधिकरण्येनाऽपि पृथिवीजलोभयत्वा (ऽऽश्रयवृत्तित्वात विधिनिषेधविषयार्थानिरुक्तेः। अत्र सप्तम्याः स्वार्थान्वयिताऽवच्छेदकस्वरूपत्वादुभयाख्याऽतिरिक्तवाऽऽधेयताऽर्थः ? तत्र च प्रकृत्यर्थस्य तन्निष्ठनिरूपितत्वविशेषणान्वयात्पृथिवीजलोभयविशिष्टाऽऽधेयतात्वेन गुरुत्वं विधेयतया, गन्धश्च निषेध्यतया प्रतीयते, इत्युक्तौ चनामान्तरेण गुरुत्वसामान्यस्यैव विधेयत्वं, गन्धसामान्यस्यैव च निषेध्यत्वमायुष्मतामतिरिक्ताऽऽधारताया अनिरूपणात् / अन्यथा घटपटयोन घटरूपमित्यादी जातिघटयो सन्नित्यादाविव घटपटोभयनिरूपितत्वाभाववदाधेयतावद् घटरूपमित्यन्वयोपपादनेऽपि घटपटरूपे इत्यस्योपपादयितुमशक्यत्वाद् घटरूपत्वाऽऽदिस्वरूपाया आधेयताया उभयानिरूपितत्वात् / तत्र द्वित्वाऽऽदिस्वरूपैवाऽऽधेयतेति चेद् , द्वयोः प्रत्येक रूपावच्छेदेन द्वित्वाभावान्निषेधस्याऽपि प्रवृत्तिः स्यात् / अनुयोगिताऽवच्छेदकावच्छेदेनैव सप्तम्यर्थाऽऽधेयत्वान्वयव्युत्पत्ते ऽयं दोष इति चेत्, तथाऽपिघटरूपाऽऽकाशे इत्यादिकं कथम् ? एतद्वित्वाऽऽदिस्वरूपाया आधेयताया उभयानिरूपितत्वात् , तत्र तात्पर्यवशाद् द्वित्वान्वयेऽप्युभयस्यानाधेयत्वाभावात्; तस्मान्नयापेक्षाभेदेनाऽत्र विचित्र एव बोधः स्वीकार्यः / / 2 / / (4) नन्वनन्तधर्ममिश्रितं वस्तुकथं विवेचयितुमशक्यम् ? अनन्तानामपि धर्माणां धर्मि(H) भिन्नत्वेन धर्मिग्राहकप्रत्याक्षाऽऽदेरेव तद्विवेकरूपत्वात् , सति च तद्वि वेके किमपेक्षाऽऽश्रयणेन ? इत्याशङ्कयाऽऽहयद्यप्यनन्तधर्माऽऽत्मा, वस्तु प्रत्यक्षगोचरः। तथाऽपि स्पष्टबोधः स्यात् , सापेक्षो दीर्घताऽऽदिवत् // 3 // / यद्यपि वस्तु घटपटाऽऽदिकम् अनन्तधर्माऽऽत्मकं सत् प्रत्यक्षगोचरः प्रत्यक्षाऽऽदिप्रमाणविषय एकस्मिन् घटाऽऽदौ गृह्यमाणे गृह्यमाणधर्मोपरागेण द्रव्यार्थातिदेशेनातीतानागतवर्तमानानांतवृत्तिधर्माणां यावतामेव ग्रहात् परेषां सामान्यलक्षणप्रत्यासत्तिस्थानेऽभिषिक्तस्य घटविषयकतिर्यक् सामान्योपयोगस्य घटताया व्यापकविषयताकप्रत्यक्षत्वं तादृशज्ञानत्व वा यथा कार्यताऽवच्छेदकत्वं तथा तद्विषयकोर्द्धतासामान्यस्य तादात्म्यसंबन्धिनाऽऽधेयत्वसंबन्धेन वा घटव्यापकविषयताकप्रत्यक्षत्वस्य तादृशज्ञानत्वस्य वा कार्यताऽवच्छेदकताया न्यायसिद्धत्वात् / अत एव-" जे एग जाणइ, से सव्वं जाणइ " इति पारमर्षवचनानुरोधोऽपि, एक-वस्तुग्रहे तद्गतस्वपरपर्यायकुक्षिप्रवेशेन सर्वेषां ग्रहादनुवृत्तिव्यावृत्तिसंबन्धपर्यालोचने तावत्प्रमाणस्यैव वस्तुनोऽनुभवात् / तदाह महावादी सम्मतौ-" एगदवियम्मि जे अत्थपज्जया वयणपजवा वा वि। तीयाणागयभूआ, तावइयं तं हवइ दव्वं / / 31 // " (सम्म०१ काण्ड) इति। नन्वेवं सर्वस्य सार्वज्ञाऽऽपत्तिरिति चेत्। न / द्र-व्यार्थे इष्टत्वात् ; उक्तभगवद्वचनरुच्यनुवेधेन सम्यक्संपन्नत्वानतिप्रसङ्गाद् यद्यप्येवं, तथापि स्पष्टबोधः सत्त्वासत्त्वाऽऽदिप्रतिनियतधर्मप्रकारको बोधः, सदसदाद्याकारको वा बोधः सापेक्षः शाब्दस्थले नयापेक्षया जनितः, प्रत्यक्षस्थले चावध्यच्छेदकाऽऽदिज्ञानापेक्षः स्यात्। किंवत् ? दीर्घताऽऽदिवत्-आदीयतेऽनेनेत्यादि ज्ञानं, दीर्घताप्रत्यक्षवदित्यर्थः / यथा हि दण्डाऽऽदिज्ञानकाले तत्परिमाणग्रहेऽप्ययमस्मादीर्घ इति दीर्घत्वप्रकारकं ज्ञानं नियतावध्यपेक्षयैव, तथा सदसदाद्यात्मकवस्तुग्रहेऽपि सत्त्वाऽऽदिप्रकारकं ज्ञानंस्वद्रव्याऽऽद्यपेक्षयैवेत्यर्थः; अयमेव तदपेक्षया दीर्घ इतिवत् स्वद्रव्याऽऽद्यपेक्षया सन् परद्रव्याssद्यपेक्षयाऽसन्नित्येव व्यवहारात्। नन्वेवं व्यवहार एव सापेक्षो, नतु बोध इति चेत् / न / व्यवहर्तव्यज्ञाने सति सत्यां चेच्छायां व्यवहारेऽपि तदपेक्षणात् / अन्यथाऽभावज्ञानेऽपि प्रतियोग्यपेक्षा न स्यात् , तद्व्यवहार एव सप्रतियोगिकत्वस्थितेः / अथ दीर्घो दण्ड इति ज्ञानं चक्षुःसन्निकर्षमात्राज्जायत एवामुकापेक्षया दीर्घ इति दीर्घत्वत्वावान्तरजात्यवगाहिज्ञान एव चावधिज्ञानापेक्षेति चेत् / न / ह्रस्वत्वेन ज्ञाने दीर्घत्वेन ज्ञानस्यैवापेक्षा विनाऽनुपपत्तेः। तद्वदिहापि परद्रव्याऽऽदिनाऽसत्त्वेन स्वद्रव्याऽऽद्यपेक्षयैव सत्त्वज्ञानमिति प्रतिपत्तव्यम्। अवच्छेदकानवगाहिनस्तु अनवधारणरूपत्वादेवानुपयोगः, द्विहस्ताऽऽदिमात्रेऽनुवृत्तैकहस्तावच्छेदेन महत्त्वग्रहस्तु देशापेक्षयैवेति तस्य निरपेक्षत्वम्। अत एवाऽऽवरणापगमे स्कन्धापेक्षया परिणामे द्विहस्तत्वग्रहेऽपि तावदवच्छेदेन हस्तत्वग्रहस्य नाप्रामाण्यं, देशस्कन्धभेदेनोभयोपपत्तेः। एतेन भूयोऽवयवावच्छेदेन चक्षुःसंयोगाभावान्न निखात-वंशाऽऽदेर्द्विहस्ताऽऽदेः परिमाणग्रह इति प्राच्यनैयायिकानां प्रलापो निरस्तः / यावंति भागे नाऽऽवरणं तावतिभागे परिमाणवत इव परिमाणस्य ग्रहादेव स्कन्धपर्याप्तपरिमाणग्रहे तत्पर्याप्त्यवच्छेदकयावदवयवावच्छेदेनाऽऽवरणाभावलक्षणयोग्यताया एव हेतुत्वे दोषाभावात् / किशभूयोऽवयवाकछे देनेत्यस्य कोऽर्थः ? यावदवयवसन्निकर्षस्य तत्राप्य-संभवात्, अनेक तस्तदयोगस्य चातिप्रसञ्जकत्वाद् भूयोऽवयवावच्छिन्नत्वोपलक्षिताऽऽधारताविशेषस्य च देशस्कFधापेक्षावैचित्र्यमुखनिरीक्षकत्वादिति न किशिदेतत् / यत्तु विषयतासंबन्धेन परिमाणसाक्षात्कारित्वावच्छिन्नं प्रति स्वाश्रयसमवेतत्वसंबन्धेन तत्तदावरकसंयोगत्वेन प्रतिबन्धकत्वाद ना