________________ णय 1853 - अभिधानराजेन्द्रः भाग-४ णय भनि (8) सामान्यविशेषविचारः। () सप्तभङ्ग्यां नयविभागोपदर्शनम्। (10) एकत्रानेकाऽऽकारा प्रमाणधीः / (11) नयाना प्रमाणाप्रमाणत्वनिर्णयः / (12) संमत्यादौ यदभिनिविष्ट तरनवखण्डनं तत्साधनंनिमित्तं बौद्धाऽऽदिनयपरिग्रहा अपि शुद्धपर्यायाऽऽदिवस्तुप्राप्त्या फलतो न मिथ्यारूपा इत्यादिनिरूपणम्। (13) नयविभागे द्रव्यपर्यायार्थिकतया नयस्य संक्षेपतो द्वैविध्यम्। (14) संग्रहविशेषौ द्रव्यपर्यायौ सामान्यविशेषशब्दवाच्यावित्यत्र / विचारः। (15) द्रव्यार्थिकपर्यायार्थिकनययो गमाऽऽदिनयानामन्तर्भावः। (16) सप्तसु नैगमाऽऽदिषु मूलनयेषु विचारे नैगमाऽऽदीनां मतसंग्रहः / (17) सिद्धसेनदिवाकरमते षड्नयाः, नैगमस्य संग्रहव्यवहारयोरन्त भर्भावात्। (18) प्रस्थकवसतिप्रदेशदृष्टान्तेन नयप्रमाणपरामर्शः। (16) तत्र प्रस्थकदृष्टान्तः। (20) वसतिदृष्टान्तः। (21) प्रदेशदृष्टान्तः। (22) सर्वे नयाः स्वस्वस्थाने शुद्धाः। (23) 700 सप्त शतानि नयाः। (24) असंख्याता नया इति मतान्तरनिरूपणम्। (25) निक्षेपनययोजना। (26) द्रव्यार्थिकपर्यायार्थिकनययोमिथो विचारः / (27) तौ सव्यपेक्षौ प्रमाणम्। (28) यद् दर्शनं यस्मान्नयाद् जातं सामान्यतस्तन्निरूपणम्। (26) निश्चयव्यवहारयोः सर्वनयान्तर्भायः। (30) दिगम्बरमते नयाः। (31) व्यवहारनथात् साङ्ख्यं प्रवृत्तम्। (32) वेदान्तिसाङ्ख्यदर्शनयोः शुद्धाशुद्धत्वम्। (33) नैगमस्य संग्रहव्यवहारयोरन्तर्भावः। (34) ये शब्दनया ये चार्थनयास्तेषां निरूपणम्। (35) नयोत्पादितेष्वपरिमितेषु दर्शनेषु यस्य मिथ्यात्वं, यस्य च सम्यक्त्वं तन्निरूपणम्। (36) नयफलविमर्शः। (37) ज्ञानक्रियानयद्वारे संग्रहाऽऽदीनां समवतारो भवतीति तत्स्व रूपनिरूपणम्। (38) नयानां पार्थक्ये यैः समवतारः, यत्र वाऽनवतारस्तन्निरूपणम्। (36) आलोचनाऽऽद्यष्टनयानां निरूपणम्। (1) अथ नयनिरुक्तिमाहस नयइ तेण तहिं वा, तओऽहवा वत्थुणो व जं नयणं / बहुहा पजायाणं, संभवओ सो नओ नाम / / 614 // स एव वक्ता संभवद्भिः पर्यायैर्वस्तु नयति गमयतीति नयः / अथवानीयते परिच्छिद्यते अनेन, अस्मिन् , अस्माद् चेति नयः; अनन्त धर्माध्यासिते वस्तुन्येकांशग्राहको बोध इत्यर्थः / यदिवा-बहुधा वस्तुनः पर्यायाणां संभवाद्विवक्षितपर्यायेणयन्नयनमधिगमनं परिच्छेदनमसौ नयो नाम / / 614 / विशे० / इह हि जिनप्रवचने सर्व वस्त्वनन्तधर्माऽsत्मकतया संकीर्णस्वभावमिति तत्परिच्छेदकेन प्रमाणेनाऽपि तथैव भवितव्यमित्यसंकीर्णप्रतिनियतधर्मप्रका-रकव्यवहारसिद्धये नयानामेव सामर्थ्यम् / नयो०। (2) नयतत्त्वं प्ररूपयन्तिनीयते येन श्रुताऽऽख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशीदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः॥१॥ अत्रैकवचनमतन्त्रम् , तेनांशावंशा वा, येन परामर्शविशेषेण श्रुतप्रमाणप्रतिपन्नवस्तुनो विषयी क्रियन्ते तदितरांशीदासीन्यापेक्षया स नयोऽभिधीयते। तदितरांशप्रतिक्षेपे तु तदाभासता भणिष्यते ('णयाभास' शब्दे)। प्रत्यपादयाम च स्तुतिद्वात्रिंशति"अहो ! चित्रं चित्रं तव चरितमेतन्मुनिपते!, स्वकीयानामेषां विविधविषयव्याप्तिवसिनाम्। विपक्षापेक्षाणां कथयसि नयनां सुनयतां, विपक्षक्षेप्तृणां पुनरिह विभो ! दुष्टनयताम्॥१॥" पञ्चाशति च" निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां, वस्तूनां नियतांशकल्पनपराः सप्त श्रुताऽऽसङ्गिनः। औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नयाश्वेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः // 1 // " रत्ना०७ परि०। (3) नयलक्षणे नयस्वरूपोपपत्तिमाहसत्त्वाऽसत्त्वाऽऽद्युपेतार्थे -ष्वपेक्षावचनं नयः। न विवेचयितुं शक्यं, विनाऽपेक्षां हि मिश्रितम् // 2 // (सत्त्वाऽसत्त्वेति) सत्त्वाऽसत्त्वाऽऽदयो ये धर्माः, आदिना नित्याऽनित्यत्वभेदाऽभेदाऽऽदिरिति परिग्रहः / तैरुपेतास्तदात्मका येऽर्थाः जीवपुद्गलाऽऽदयः, तेष्वपेक्षावचनं प्रतिनियतधर्मप्रकारकापेक्षाऽऽख्यशाब्दबोधजनकं वचनम् , नयवाक्यमित्यर्थः / इदं वचनरूपस्य नवस्य लक्षणं, ज्ञानरूपस्य तु नयस्य-अपेक्षाऽऽत्मक-शदबोधत्वमेवेति द्रष्टव्यम्। अपेक्षात्वं च क्षयोपशमजन्यताऽवच्छेदकोजातिविशेषो, विषयताविशेषो वेत्यन्यदेतत्॥ ननु घटोऽस्तीत्यादिवाक्यश्रवणाद् घटविषयकं शाब्दज्ञानं मम जातमित्येव लोकाः प्रतियन्ति; न तु तत्रापेक्षात्वमपीत्यपेक्षाऽऽत्मकनयज्ञानसत्त्वे किं प्रमाणम् ?; अत आह-हि निश्चितं, मिश्रितं विरुद्धत्येन प्रतीयमानैर्नानाधर्मः करम्बितं वस्तु, अपेक्षां विना वि. वेचयितु विवक्षितैकधर्मप्रकारकनिक्षेपविषयीकर्तु, न शक्यम् : तद्विरुद्धधर्मवत्ताज्ञानस्यानपेक्षाऽऽत्मकस्या(स्या)नुपपत्तेर्बाधप्रतिबद्ध्यताऽऽवच्छेदककोटौ लाघवेनाऽनपेक्षाऽऽत्मकत्वस्यैव निवेशात्, अव्याप्यवृत्तित्वज्ञानकालीनाऽऽहार्यदोषविशेषजन्याऽऽदीनामपेक्षाऽऽत्मकत्वेनैव तद्वारकविशेषणानुपादानात्। तथा च तद्धर्मप्रतिपक्षधर्मधत्तया ज्ञातेऽपि तद्धर्मवत्तया ज्ञायमानस्य(ऽऽहार्यदोषविशेषजन्या)ssदीनामपेक्षाऽऽत्मकतयाऽनुपपत्तिरेवाऽपेक्षात्वे मानम्, तस्या एव सर्वतो बलवत्प्रमाणत्वात् / तदाह श्रीहर्ष:- "अन्यथाऽनुपपत्तिश्वे दस्तु वस्तुप्रसाधिकादस्त्वपेक्षाप्रसाधिके ति पाठः स्यात् / पिनष्ट्यदृष्टवैमत्यं, यतः सर्वबलाधिका"॥१॥ इति। न चाऽपेक्षां विना लौकिकोऽपि व्यवहारः संगच्छते, अग्राऽऽद्यवच्छेदेन कपिसंयोगाभाववति