________________ णमोक्कार 1851 - अभिधानराजेन्द्रः भाग - 4 णमोकारसहियपच्चक्खाण (2) विषयसूची(१) नमस्कारस्य व्याख्यानार्थमुत्पत्ति-निक्षेप-पद-पदार्थ प्ररूपणा-वस्त्वाक्षेप-प्रसिद्धि-क्रम-प्रयोजन-फलरूपाणां द्वाराणां संग्रहः। नमस्कारोत्पत्तिद्वारविस्तरे ज्ञानशब्दयोर्नित्यत्वानित्यत्वविचारः। निक्षेपद्वारे नाम-स्थापना-द्रव्य-भावभेदेन निक्षेपस्य चातुर्वि ध्यम्। (4) पदद्वारे नामिक-नैपातिकौपसर्गिकाऽऽख्यातिकमिश्रभेदेन पदस्य पञ्चविधत्वम्। द्रव्यसंकोचो न भावसंकोचः, भावसंकोचो न द्रव्यसंको-चः, द्रव्यसंकोचो भावसंकोचश्च, नद्रव्यसंकोचो न भावसंकोच इति भङ्गचतुष्टयप्रतिपादनपुरस्सरं पदार्थद्वारम्। (6) प्ररूपणाद्वारे " किं कस्य केन क्व कियचिरं कतिविधो वा नमस्कारेः," " इन्द्रियकाययोगवेदकषायलेश्याऽऽहाराऽऽदिचरमान्तः," इत्यादिषट्प्रकारनवप्रकाराभ्यां प्ररूपणाया द्वैविध्यम्। नमस्कारपाठस्य युक्तायुक्तत्वे विचार्यमाणे पचपदस्य सर्वश्रुतस्कन्धाभ्यन्तरभूतत्वं, नवपदस्य पृथक् श्रुतस्क न्धाभ्यन्तरभूतत्वं, नवपदस्य पृथक् श्रुतस्कन्धत्वमित्यत्र श्रीमहानिशीथसूत्रसंवादः। (8) नमस्कारसूत्रसंपत्स्वष्टषष्टिवर्णनवपदविवेचनम्। (9) वस्तुद्वारे गुणगुणिनोर्भेदाभेदपक्षनिरूपणपुरस्सरमर्हत्सिद्धाऽs चार्योपाध्यायसाधूनां नमस्कारार्हत्वे मार्गदेशकत्वाऽऽदिगुणनिरूपणानन्तरं संसाराटवीमार्गदेशकत्वभवसमुद्रनिर्यामकत्वषविधजीवनिकायगोपनत्वं प्ररूप्याईदादीनां नमस्कार फलप्रदर्शनम्। (10) आक्षेपद्वारे सिद्धसाधुभ्यामेव द्वाभ्यां नमस्कारः कथं न ? परिनिर्वृतार्हदादीनां सिद्धशब्देन, आचार्याऽऽदीनां संसारिणां साधुशब्देन ग्रहणात् / तथा-ऋषभाजित संभवाऽऽदिभ्यो नामग्राहं तीर्थकरेभ्यः, सिद्धेभ्योऽपि एकद्वित्रिचतुष्पञ्चाऽऽदिसमयेभ्यो यावदनन्तसिद्धेभ्यस्तीर्थलिङ्गप्रत्येकबुद्धाऽऽदिविशेषणविशिष्टेभ्य इत्यनन्तभेदस्य नमस्कारस्य पञ्चविधत्वं न युज्यते इति पञ्चविधनमस्काराऽऽक्षेपः / (11) प्रसिद्धिद्वारे तदाक्षेपस्य प्रतिविधानम्। (12) क्रमद्वारेऽहंदादीनां नमस्कारे पौर्वापर्यक्रमव्युत्क्रमाऽऽक्षेपप्रति विधानविस्तरः। (13) प्रयोजनफलद्वारयोरैहलौकिकपारलौकिकफलप्रदर्शनम्। (14) द्विविधेऽपि फले दृष्टान्तपञ्चकप्रदर्शनम्। (15) अर्हतां पूजाफलदत्वं किमरित, न वेति विचारविस्तरः। (16) जिनाऽऽदिपूजाऽर्थ सोपपत्तिकप्रमाणोपन्यासः। (17) "हिनस्मि हरिणाऽऽदीन, मृषा भाषेऽहं, तद्भाषणाच वञ्चयामि देवदत्ताऽऽदीन् , धनमपहरामि तेषामेव, परदारान् निषेवेऽहम्' | इत्यादिचिन्तया न हि तेषां चिन्तितानां तत्कालं कोपाऽऽदिसंभूतिः, तथापि हिंसाऽऽदिचिन्तकस्याधर्मः, दयाऽऽदिसंकल्पतस्तु तद्वतो धर्मः,तथेहापितीर्थकरसिद्धाऽऽदीन्शपमान स्याधर्मः, संस्तुवतस्तुधर्म इत्यर्हदादिभ्यः फलप्राप्तिसमर्थनम्। (18) सरागद्वेषत्वात् कृतार्थाभावाचाऽऽचार्योपाध्यायसाधवो वन्दनीया न वेत्याक्षेपपरिहारौ। (16) साध्वादीनां दानमुपकारं यथा करोति नैवं जिनाऽऽदीनां नमस्कारपूजा, तत्कथमसौ धर्मनिमित्तेतिशङ्कानिरासाय युक्तिप्ररूपणम्। (20) परिणामविशुद्धिमिच्छता जिनाऽऽदीनां नित्यमेव पूजा विधेये त्युपसंहारः। णमोकारणिज्जुत्ति स्त्री०(नमस्कारनियुक्ति) नमस्कारप्रतिपादकाऽऽव श्यकनियुक्तिगाथाकदम्बे, आ० क० / णमोकारसहियपचक्खाण न०(नमस्कारसहितप्रत्याख्यान) अद्धाप्रत्याख्यानभेदे, (10) साम्प्रतं सूत्रार्थोउग्गए सूरे नमुक्कारसहियं पञ्चक्खाइ, चउव्विहं पि आहारअसणं पाणं खाइमं साइमं, अन्नत्थऽणाभोगेणं सहसागारेणं वोसिरह। उद्गते सूर्ये, सूर्योदगमादारभ्येत्यर्थः / नमस्कारेण परमेष्ठिरतयेन सहित युक्त नमस्कारसहितं, प्रत्याख्याति" सर्वे ध तवः करोत्यर्थेन व्याप्ताः "इति न्यायाद् नमस्कारसहितं प्रत्याख्यानं करोति, विधेयतयाऽभ्युपगच्छतीत्यर्थः / इदं गुरोरनुवादभङ्गया वचनम्। शिष्यस्तु प्रत्याख्यामि 'इत्याह। एवं युत्सृजतीत्यत्रापि वाच्यम्। कथं प्रत्याख्याति ? इत्याहचतुर्विधमप्याहारमिति न पुनरेकविधाऽऽदिकम् , आहारमभ्यवहार्य, व्युत्सृजतीत्युत्तरेण योगः / इदं चतुर्विधाऽऽहारस्यैव भवतीत्युक्तमेव, रात्रिभोजनतीरणप्रायत्वादस्य, तथा मुहूर्तमान नमस्कारोचारणावसानं च / ननु कालस्यानुक्तत्वात्सङ्केतप्रत्याख्यानमेवेदम् / मैवम् / सहितशब्देन मुहूर्तस्य विशेषणात् / अथ मुहूर्तशब्दो न श्रूयते तत्कथं तस्य विशे-ष्यत्वम् ? उच्यते-अद्धाप्रत्याख्यानमध्येऽस्य पाठबलात्, पौरुषीप्रत्याख्यानस्य च वक्ष्यमाणत्वादवश्यं तदर्वाग्मुहूर्त एवावशिष्य-ते। अथ मुहर्त्तद्वयाऽऽदिकमपि कुतो न लभ्यते ? उच्यते- अल्पाऽऽकारत्यादस्य, पौरुष्यां हि षडाकाराः, तदस्मिन् प्रत्याख्याने आकारद्वयवति स्वल्प एव कालोऽवशिष्यते, स च नमस्कारेण सहितः, पूर्णेऽपि काले नमस्कारपाठमन्तरेण प्रत्याख्यानस्याऽऽपूर्यमाणत्वात् , सत्यपि नमस्कारपाठे मूहूर्ताभ्यन्तरे प्रत्याख्यानभङ्गात्। तत्सिद्धमेतत्मुहूर्त्तमानकालं नमस्कारसहितप्रत्याख्यानमिति / अथ चतुर्विधाऽऽहारमेव व्यक्त्या प्रदर्शयति-अशनम् ? पानम् 2, खादिम् 3, स्वादिमं चेति / तत्राश्यते इति अशनम् , ' अश भोजने ' इत्यस्य ल्युमन्तस्य भवति / तथा-पीयत इति पानम् , 'पा 'धातोः / तथा-खाद्यत इति खादिमम् , ' खादृ भक्षणे ' इत्यस्य वक्तव्यादिमत्प्रत्ययान्तस्य / एवं स्वाद्यत इति स्यादिम् ' स्वद आस्वादने ' इत्यस्य च रूपम् / अथवाखाद्यं स्वाद्यं चेति। अशनाऽऽद्याहारविभागश्चैवं श्राद्धविधिवृत्ती-" अशनंशाल्यादि सक्त्वादि पेयाऽऽदि मोदकाऽऽदि क्षीराऽऽदि सूरणाऽऽदि मण्डाऽऽदि च।