________________ णमोक्कार 1950 - अभिधानराजेन्द्रः भाग-४ णमोकार शुभोऽशुभो वा परिणामः सदैव बाह्याऽऽलम्बनत एव प्रवर्तते, चितधर्मत्वात, विज्ञानवदिति। यथा विज्ञानं बाह्य नीलपीताऽऽदिकं वस्तु विना न प्रवर्तते, एवं परिणामोऽपीति भावः / तस्मादिह मोक्षाधिकारे शुभबाह्याऽऽलम्बनप्रयत्नो मोक्षार्थिनामिति // 3286|| अत्र परः प्राऽऽहजत्तो तत्तो व सुभो, होइ किमालंबणप्पभेएण। जह नाऽणाऽऽलंबणओ, विवरीयाओ विसोन तहा।।३२८७|| ननु यतस्ततो वाऽऽलम्बनात् शुभपरिणामो भवतु, किमिह शुभाशुभभेदत आलम्बनप्रभेदेनकिमिति शुभाऽऽलम्बनादेव शुभः परिणाम इष्यते ? इति भावः / गुरुराह-(जह णाऽणाऽऽलंबणओ त्ति) यथाऽनालम्बन आलम्बनरहितः शुभपरिणामो न प्रवर्तते, तथा विपरीतादप्यशुभाऽऽलम्बनादसौ न भवति, अन्यथा नीलाऽऽदेरपि शुक्लाऽऽदिज्ञानोत्पत्तिप्रसङ्गादिति // 3287 // यदि विपरीताऽऽलम्बनान्न शुभः परिणामः, तर्हि कुतोऽसौ भवति? इत्याहकिं तु सुभाऽऽलंबणओ, पारण सुभो वि धम्मओ इयरो। / जं होइ तं पयत्तो, सुभासुभाऽऽदाणवोसग्गो।। 3288 / / सुगमा, नवरं शुभस्याऽऽलम्बनस्याऽऽदाने, अशुभस्य तुतस्य व्युत्सर्गे शुभपरिणामार्थिना प्रयत्नः कर्तव्य इति / / 3288 // प्रायोग्रहणस्य व्यवच्छेद्यमाहअन्नाणिणो मुणिम्मि वि, न सुभो दिट्ठो सुभो य निस्सीले। जइ परिणामाउ चिय, फलमिह किं पत्तचिंताए।। 3286 / / अज्ञानिनोऽभव्यस्य दुरभव्यस्य वा शुभाऽऽलम्यनरूपे मुनावपि न शुभपरिणामो दृष्टः, शुभश्चाऽसौ तस्य निःशीले नास्तिकाऽ5-दौ दृष्टः, ततोऽनन्तरगाथायां" सुभालंबणओ पाएण सुभो वि" (3288) इत्यत्र " प्रायेण " इत्युक्तमिति भावः / प्रेरकः प्राऽऽहयद्येवं, तॉन्यत् प्रेर्यमापन, परिणामादेव भवद्भिस्तावत्फलमिष्यते, ततः किं पात्रापात्रचिन्तया ? इति / अयमत्र भावार्थः-यदि निःशीलेऽपि पात्रे शुभपरिणामो दृष्टः, 'शुभपरिणामाच शुभं फलं भवति इति भवद्भिरपि प्रागसकृद् समर्थितं, ततः किं सुशीलनिःशीलपात्रचिन्तया, निःशीलेऽपि पात्रे शुभपरिणामदर्शनात् , तस्माच शुभफलभावात् ? // 3286 // अत्रोत्तरमाहसुहपरिणामनिमित्तं, होज सुहं जइ तओ सुहो होज्ज / उम्मत्तस्स न व उसो, सुहो विवज्जासभावाओ।। 3260 // ननुतस्य मिथ्यादृष्टः शुभपरिणामनिमित्तं शुभपरिणामहेतुकं शुभं फलं स्वर्गाऽऽदिकं भवेत् , को वैन मन्यते, यदि तस्याऽऽदित एव तकोऽसौ निःशीलपात्रविषयपरिणामः शुभो भवेत् ? न चोन्मत्तस्येव तस्याऽसौ शुभः / कुतः ? इत्याह-विपर्यासभावान्निःशीलेऽपि सुशीलाध्यवसायादिति कुतस्तस्य फलं शुभम् ? इति / यदप्यस्माभिरुक्तम्- " सुभो य निस्सीले" (3286) इति, तदपि तदपेक्षयैव / स हि मिथ्यादृष्टिस्तं शुभपरिणामं मन्यते, तत्त्ववेदिनस्तुतस्य शुभत्वं नेच्छन्त्येव, विपर्यासादिति॥ 3260 // पुनरपि परः प्राऽऽह नणु मुणिवेसच्छन्ने, निस्सीले वि मुणिबुद्धिए देंतो। पावइ मुणिदाणफलं, तह किं न कुलिंगदाया वि / / 3261 / / ननु मनेर्वेषो मुनिवेषस्तेन छन्नोऽविज्ञातो य उदायिनृपमारकाऽऽदिस्तस्मिन्निःशीलेऽपि मुनिबुद्ध्या दानं दददाता मुनिदानफलं स्वर्गाऽऽदिकं प्राप्नोति, इत्येतद्भवतामपि तायत्संमतम् , तथा तेनैव प्रकारेण कुत्सितलिङ्गी कुलिङ्गी सरजस्काऽऽदिस्तस्मै दाता कुलिङ्गदाता, सोऽपि किं न मुनिफलं प्राप्नोति, मुनिबुद्धेस्तस्यापि तत्र सद्भावात् ? इति / / 3261 / / गुरुराहजं थाणं मुणिलिंग, गुणाण सुन्नं पि तेण पडिम व्व। पुजं थाणमईए, वि कुलिंगं सव्वहा जुत्तं / / 3292 // यस्मान्मुनिलिङ्गं ज्ञानाऽऽदिगुणानां स्थानमाश्रयः, तेन तस्मात्कस्याऽपि मायाविनः संबन्धि तच्छून्यमपि गुणैरविज्ञातं पाषाणाऽऽदिनिर्मिताऽर्हत्प्रतिमावत्स्थानमत्याऽपि पूज्यम् / कुलिङ्गं तु सर्वथा पूजयितुंनयुक्तं, ज्ञानाऽऽदिगुणानां सर्वथैवाऽनाश्रयत्वादिति॥ 3262 / / पुनरपिपरः प्राऽऽहनणु केवलं कुलिंगे, वि होइ तं भावलिंगओ न तओ। मुणिलिंगमंगभावं, जाइजओ तेण तं पुखं / / 3263 // ननु केवलं केवलज्ञानं कुलिङ्गेऽपि वर्तमानानामन्यतीथिकानां भवतीत्यागमे श्रूयते, तत्किमिति स्थानबुझ्या तत्पूज्यं नेष्यते ? गुरुराहतत्केवलज्ञानं भावलिङ्गतो भवति, न पुनस्ततः कुलिंङ्गात् , तस्य केवलज्ञानानङ्गत्वात् / मुनिलिङ्ग पुनर्यस्मादङ्गभावं केव-लज्ञानस्य कारणतां याति, तेन तस्मात्तत्पूज्यमिति // 3263 // (20) तदेव कोपप्रसादविरहाऽऽदीन् पञ्चापिपरोपन्यस्तहे तून्निराकृत्योपसंहरन्नाहतेण सुहाऽऽलंबणओ, परिणामविसुद्धिमिच्छया निचं। कजा जिणाऽऽइपूया, भव्वाणं बोहणत्थं च / / 3264 // येनैवं, तेन तस्मात्परिणामविशुद्धिमिच्छता कार्या विधेया जिनाऽऽदीनां नित्यमेव पूजा / कुतः? इत्याह-शुभाऽऽलम्बनतः शुभाऽऽलम्बनरूपत्वात् / न केवलं स्वपरिणामविशुद्धिनिमित्तं, भव्यजनावबोधनार्थ च विधेया जिनाऽऽदिपूजा / तद्दर्शने ह्यनेके भव्याः प्रतिबुध्यन्ते, जिनधर्ममासादयन्ति, समासादिते च स्थिरीभव-न्ति। अत एव तत्करणकारणानुमोदनाऽऽदिप्रवृत्तसंवेगातिशयात्क्षपितकर्मणोऽन्तकृत्केवलिनो भूत्वाऽनन्तेन कालेनाऽनन्ताः सिद्धान्ते सिद्धाः श्रूयन्ते।। इति सप्ततिगाथार्थः।। 3264 // तदेवमवसितः पञ्चनमस्कारः। विशे० / ल०। ध०। (" णमोऽत्थु णं अरिहंताण भगवंताणं " इति शकस्तवः चेइयवंदण 'शब्दे तृतीयभागे 1317 पृष्ठे, " णमो जिणाणं जियभयाणं " इति च तस्मिन्नेव शब्दे 1318 पृष्ठे'' सिद्धाणं बुद्धाणं " इत्यपि तस्मिन्नेव शब्दे 1316 पृष्ठे सूत्रपाठकमेणोक्तः / व्याख्या चैषां प्रतिपदं तत्तत्स्थानेषु / " इक्को वि णमुक्कारो, जिणवरवसभस्स बद्धमाणस्स / संसार-सागराओ, तारेइ नरं व नारिंव।।१।।" इत्यपि "चेइयवंदण"शब्दे तृतीयभागे 1320 पृष्ठे उपपादितम्।" जो देवाण वि देवो " इत्यपि तत्रैव पृष्ट निरूपितम्)" सर्यान देवान्नमस्यन्ति, नैक देवं समाश्रिताः। जितेन्द्रिया जितक्रोधाः, दुर्गाण्यतितरन्ति ते॥१॥" द्वा०१२ द्वा०।