________________ णमोकार 1946 - अभिधानराजेन्द्रः भाग-४ णमोकार मः, किं तु स्वपरिणामशुद्धितः / सा च परिणामशुद्धिः पूजायाः परेणापरिग्रहेऽपि ध्रुवा निश्चिता स्वसंवेदनसिद्धा समस्ति, ततस्तदारम्भो नमस्कारपूजाऽऽरम्भ इति / / 3272 / / किञ्च-दानस्यापरिग्रहत्वमभ्युमभ्युपगम्योक्तं, वस्तुतस्तुतन्नास्त्येवेतिदर्शयन्नाहइह चोयगमणुमोयग-मणिसेहगमेव संपयाणं त्ति। वडुमुणिपडिमाऽऽइ जओ, न दाणमपरिग्गहं तेण // 3273 / / इह यतो यस्मात्सत्कृत्य सम्यग्वा प्रदीयते यस्मै तत्संप्रदानमा तय त्रिविधम् / तद्यथा-' दीयतां मां, बहुफलं भवतां भविष्यति / इत्यादिवचनप्रपञ्चेन किञ्चित्प्रेरकं, यथा बटुब्राह्मणः / अपर त्वित्थमप्रेरकमपि दानस्य ग्रहणपरिभोगाभ्यामनुमोदकं भवति। यथा मुनिः साधुः ; अन्यत्तु पुष्पाऽऽद्यनिषेधादनिषेधकं, यथाऽर्हत्प्रतिमाऽऽदि, सर्वत्र संप्रदानाऽर्थस्य विद्यमानत्वात् / तेन तस्मान क्वचिदानमपरिग्रहमस्तीति॥ 3273 // अपि च-किमनया दानस्य परिग्रहापरिग्रहचिन्तया ? कार्यस्यान्यथैव स्थितत्वात् ; कथम् ? इत्याहदाणमपरिग्गम्मि वि, धम्मो निययपरिणामसुद्धीओ। अपरिग्गहे विजइ सा, को नाम परिग्गहग्गाहो ? // 3274 / / किं च परहिययनियया, मेत्ती भूएहि संपरिग्गहिया। हिंसासंकप्पो वा, जं धम्माधम्महेउ त्ति / / 3275 / / एवं जिणाऽऽइपूया, सद्धासंवेगसुद्धिहेऊओ। अपरिग्गहा विधम्मा-य होइ सीलव्वयाऽऽइंव / / 3276 / / तिस्रोऽपि व्यक्तार्थाः / / 3274 / / 3275 // 3276 / / ___ अथ" विमूर्तिभावात् " इत्यस्य हेतोर्निरासार्थमाहजं चिय मुत्तिविउत्ता, मुत्ता गुणरासओ विसेसेणं। तेणं चिय ते पुजा, नाणाऽऽइतियं व मोक्खत्थं / / 3277 // यस्मादेव मूर्तिवियुक्ता अमूर्ती मुक्ताः सिद्धाः, तेनैव ते शरीरसंबन्धजनितसकलक्लेशविमुक्तत्वाद् गुणराशयः सन्तो विशेषेण मोक्षार्थ पूज्याः, ज्ञानाऽऽदित्रिकवदिति / / 3277 // अपिचमुत्तिमओ विन मुत्ती, पूइज्जइ किं तु जे गुणा तस्स। ते मुत्तिविउत्त चिय, नणु सिद्धगुणा विसेसेणं // 327 / / मूर्तिमतोऽपि संबन्धिनी मूर्तिर्न पूज्यते, किंतु गुणाः, तेच मूर्तिवियुक्ता एवामूर्ता एव / ततश्च' न पूज्याः सिद्धाः, अमूर्त्तत्वात् , नभावेत् " इति त्वदुक्तप्रमाणे विरुद्धाव्यभिचारित्वाद् विरुद्धो हेतुः। तथाहोतदपि शक्यते वक्तुम-पूज्याः सिद्धाः, अमूर्तत्यात् , मूर्तसाधुसंबन्ध्यमूर्तज्ञानाऽऽदिगुणवदिति / अथ सिद्धगुणा अमूर्ता न भवन्तीति चेदित्याहननु सिद्धगुणाः विशेषेणै वामूर्ताः; मूर्तसाधुगुणा हि ज्ञानाऽऽदयो मूर्तीदव्यतिरिक्तत्वात् कथञ्चिन्मूर्ता अपि शक्यन्ते वक्तुम् सिद्धगुणास्तु नैवम् , ततो विशेषेण ते अमूर्ता एव; इति न तेषां पूजाविरोध इति / / 3278 / / अथ परमतमाक्षिप्य परिहरन्नाहअहव मई मुत्तिमओ, गुणपूया होइ मुत्तिपूयाओ। तग्गुणसंबंधाओ, सिद्धगुणाणं तु सा नस्थि / / 3276 / / पूया मुत्तिगुणाणं, संबंधे फलमितीह को हेऊ? अन्नो परिणामाओ, तस्स य को केण संबंधो? / / 3280 / / हिययत्थो (' नियत्थो ' इति पाठान्तरम्।) परिणामो, बज्झत्थालंवणनिमित्तमित्तागो। देह फलं सव्वो चिय, सिद्धगुणाऽऽलंवणो चेवं / / 3281 // सुगमाः।। 3276 / / नवरम् (पूयेत्यादि) परिहारवचन, पूजा च मूर्तिश्च गुणाच, तेषां पूजामूर्तिगुणानां त्रयाणामपि, संबन्ध एवाऽभिमतं फलमवाप्यत इतीह स्वगतविशुद्धपरिणामादन्यः को हेतुः ? न कोऽपीति / तस्य च स्वगतपरिणामस्य कः संबन्धः केनचिबाह्येन? न कश्चिदिति / / 3280 / / केवल निजहृदयस्यशुभपरिणामो यथा वाह्याहदाद्यालम्बननिमित्तमात्रकः सर्वोऽपि ददात्यभिमतफलभेवममूर्तसिद्धगुणाऽऽलम्बनोऽपीति // 3281 // अथ यदुक्तं-" दूराऽऽइभावओ वा, विफला सिद्धाइपूय त्ति" (3226) तत्र दूराभावादित्यस्य हेतोर्निराकरणार्थमाहजइ दूरस्थे विधिई, बंधुम्मि सरीरपुट्टिबलहेऊ। तणुदोव्वल्लाइफलो, कत्थइ सोगाऽऽइसंकप्पो।। 3282 // तह परिणामो सुद्धो, धम्मफलो हि दूरसंथे वि। अविसुद्धो पावफलो, दूरासन्नं ति को मेओ? // 3283 / / अहवाऽऽयसभावोऽयं, परिणामो तेण सव्वमेवेह। दूरमहाऽऽलंबणओ, तस्साऽऽसन्नं तओ सध्वं / / 3284 // यथा दूरस्थेऽपि बन्धौ बान्धवजने सुखिनि श्रुते तत्सुखवार्ता-संक ल्पजनिता धृतिः कस्याऽपि तद्बान्धवस्य दूरस्थस्यापि शरीरपुष्टिबलहेतुर्भवति; क्वचित्तु प्रस्तावे तस्मिन्नपि दुःखिनि श्रुते शोकाऽऽदिसंकल्पस्तनुदौर्बल्याऽऽदिफलः संपद्यते / / 3282 // तथा तेनैव प्रकारेण दूरसंस्थेऽपि सिद्धाऽऽद्यालम्बने तद्गुणबहुमानरूपत्वाच्छुद्धपरिणामः सद्धर्मफलोऽविशुद्धस्तुपापफलः संजायते। अतो दूरस्थमासन्नं वा सिद्धाऽऽद्यालम्बनमिति को भेदः? केयं निष्फला तभेदचिन्ता ? इत्यर्थः // 3283 // अथवा-आत्मस्वभावोऽय तद्गुणबहुमानलक्षणशुभपरिणामस्तेन तस्मादिह यदनात्मस्वभाव किमपि वस्तु तत्सर्वमप्यस्य विपरीतरूपत्वाद् दूरस्थमेव / अथाssलम्बनत आलम्बनभावमाश्रित्य चिन्त्यते, ततस्तर्हि सर्वमप्यर्हत्सिद्धाऽऽदिक वस्तु तस्य यथोक्ताऽऽत्मपरिणामस्याऽऽसन्नमेवेति; अतः का सिद्धेषु दूरस्थता ? इति / / 3284 / / अत्राऽऽक्षेपपरिहारावाहजइ सपरिणामउ चिय, धम्मोऽधम्मो व्व कित्थ बज्झेण। जंबज्झाऽऽलंबणओ, सो होइ तओ तदत्थं तं / / 3285 / / ननु यदि स्वगतपरिणामादेव धर्मोऽधर्मश्च भवति, तर्हि किमत्र बाह्येनाऽर्हत्सिद्धाऽऽद्याम्बनेनापेक्षितेन, स्वपरिणामत एव कार्यसिद्धेः तदपेक्षाया निष्फलत्वात् ? इति / सूरिराह-यस्मात्सोऽपि परिणामो बाह्याऽऽलम्बनत एव भवति, नाऽन्यथा, ततस्तदर्थ स्वपरिणामोत्पादनार्थं तद् बाह्याऽऽलम्बनमपेक्ष्यत इति॥३२८५।। एतदेव भावयतिपरिणामो बज्झाऽऽलंबणो सया चेव चित्तधम्मो त्ति। विण्णाणं पिव तम्हा, सुहबज्झाऽऽलंवणपयत्तो // 3286|| दतुम् -परमात / अथ सि , मशक्यन्ते वाजाविरोध विदिष्यतिरिक्तत्वात सेवामूताः, मूता न भवन्तीति यमूर्तज्ञान