________________ णमोकार 1848 - अभिधानराजेन्द्रः भाग - 4 णमोकार अथोपसंहारपूवकं प्रस्तुतमुपदर्शन्नाहतम्हा धम्माऽधम्मा, जुत्ता निययप्पसायकोवाओ। धम्मत्थिणा पयत्तो, कञ्जो तो सप्पसायम्मि / / 3261 / / सोय निययप्पसाओऽवस्सं जिणसिद्धपूयणाउत्ति। जस्स फलमप्पमेयं, तेण तयत्थो पयत्तोऽयं / / 3262 // सुगमे, नवरं यस्य निजमनःप्रसादस्याप्रमेयमनन्तं फलं येना- | नन्तफलोऽसौ, तेन कारणेन तदर्थो निजमनःप्रसादार्थ एवार्हदादिनमस्कारप्रयत्न इति / / 3261 // 3262 / / / अस्यैवार्थस्य साधनार्थ प्रमाणयन्नाहनाणाऽऽइमयत्ते सइ, पुजा कोवप्पसायविरहाओ। निययप्पसायहेलं, नाणाऽऽइतियं व जिणसिद्धा॥३२६३।। निजमनःप्रसादहेतोः पूज्या जिनसिद्धा इति प्रतिज्ञा, ज्ञानाssदिमयत्वे सति कोपप्रसादविरहादिति हेतुः, ज्ञानाऽऽदित्रिकवदिति दृष्टान्तः / कोपाऽऽदिविरहिता लेष्ट्रकाष्ठाऽऽदयोऽपि विद्यन्ते, अतस्तद्व्यवच्छेदार्थ ज्ञानाऽऽदिमयत्वे सतीति हेतोर्विशेषणमिति // 3263 // (18) परः प्राऽऽहपुजा जिणाऽऽइवजा, न हि मोक्खत्थं सरागदोस त्ति। अकयत्थभावओ विय, दवट्ठाए दरिद्द व्व // 3264 // जिनसिद्धान्वर्जयित्वा शेषा आचार्योपाध्यायसाधयो, न हि नैव, मोक्षार्थ पूज्या इति प्रतिज्ञा, सरागद्वेषत्वाद् , अत एवाऽकृतार्थभावाच, द्रव्यार्थ दरिद्रा इवेति / / 3264 / / अत्र प्रतिविधानमाहकलुसफलेण न जुज्जइ, किं चित्तं तत्थ जं विगयरागो। संते वि जो कसाए, न गिण्हई सो वि तत्तुल्लो / / 3265 / / / किं तत्र चित्रं किमाश्चयं, यद्विगतरागः कलुषफलेन कषायजनितेन चित्तकालुष्येण न युज्यते, विगतकषायोदयत्वात्तस्य। ननुसोऽपि तत्तुल्यो वीतरागसमान एव यः सतोऽपि कषायान्न गृह्णाति / ततश्चास्मात्परमगुरुवचनादाचार्याऽऽदयोऽपि वीतरागतुल्या एव, सतामपि कषायाणां निग्रहात्। ततः सरागद्वेषत्वादित्यसिद्धो हेतुरिति भावः। इयं च गाथा केषुचिदादर्शेषु न दृश्यते; पूर्वटीकाकारैरपि न व्याख्याता; अस्माभिस्तु बहुष्वादशेषु दर्शनात्सोपयोगत्वाच लि-खितेति॥३२६५ // 'अकृतार्थत्वात् ' इत्ययमपि हेतुरनैकान्तिकः, अकृतार्थत्वे सत्यपि कारणान्तरतोऽपि पूजासंभवादिति दर्शयन्नाहन परोवयारओ चिय, धम्मो न परोवयारहेउं च / पूयाऽऽरंभो नणु सपरिणामसुद्धत्थमक्खाओ।। 3266 / / ' अकृतार्थभावात् ' इति ब्रुवतस्तव किलायमभिप्रायः-' स्वयमकृतार्थाः सन्त आचार्याऽऽदयो न परोपकारक्षमाः, अतस्तदसामर्था दरिद्रा इव न ते नमस्करणीयाः इति / एतचायुक्तम् / यतो न परस्मादर्हदादेरुपकारत एव धर्मो नमस्तकर्तुः, नापि परस्मादर्हदादेरुपकारहेतोस्तस्य नमस्कारपूजाऽऽरम्भः / ननु स्वपरिणामशुद्ध्यर्थमाख्यातोऽसौ / ततः किश्चिदकृतार्थत्वे सत्यपि स्वशुभपरिणामनिबन्धनत्वात्पूज्या एवाऽऽचार्याऽऽदय इति / / 3266 / / अथ पञ्चानामपि पूज्यत्वसमर्थनार्थ प्रमाणमाहपूया परोवयारा-भावे वि सिवाय जिणवराऽऽईणं / परिणामसुद्धिहेळं, सुभकिरियाओ य बंभ व // 3267 / शिवाय मोक्षार्थ भवति पूजा, परोपकाराभावेऽपि पञ्चानामपि जिनवराऽऽदीनामिति साध्यम् , पूजकपरिणामशुद्धिहेतुत्वात् , तन्नमस्कारक्रियायाश्च ज्ञानाऽऽदिगुणविषयबहुमानत्वेन निरवद्यत्वेन च शुभत्वाद् , ब्रह्मचर्याऽऽदिवदिति // 3267 // अथ सुप्रसिद्धदृष्टान्तोपदर्शनेनापि जिनाऽऽदिपूजा परोप काराभावेऽपि शिवायेति समर्थयन्नाहपरहिययगया मेत्ती, करेइ भूयाण कमुवयारं सा। अवयारं दूरत्थो, कं वा हिंसाऽऽइसंकप्पो ? / / 3268 / / धम्माऽधम्मनिमित्तं, तहा वि तह चेह निरुवगारो वि। पूयासुहसंकप्पो, धम्मनिमित्तं जिणाऽऽईणं / / 3266 / / परहृदयगता साधुहृदयस्थिता सर्वभूतेषु या मैत्री सा तेषां पृथिव्यादिभूतानां कमुपकारं करोति ? न कश्चित् / तथा-कं वा देवदत्ताऽऽदिहृदयगतो दूरस्थहरिणाऽऽदिभूतग्रामविषयो दूरस्थहरिणाऽऽद्यपेक्षया दूरस्थो हिंसास्तेयाऽऽदिसंकल्पोऽपकारं कुर्यात् ? न कश्चित्; तथाऽपि मैत्री हिंसाऽऽदिसंकल्पश्च भूतानामुपकाराऽप-कारविरहेऽपि द्वावपि यथासंख्यं धर्माऽधर्मनिमित्तं भवत एव / तथा चैवं चोक्तप्रकारेण निरुपकारोऽपि जिनाऽऽदीनामुपकारमकुर्वन्नपि भूतानां साधुगतमैत्रीसंकल्पवर्जिनाऽऽदीनां पूजा शुभसंकल्पः पूजकस्य धर्मनिमित्तं भवतीति / / 3266 // (16) आह-ननु यथा दानं साध्वादीनामुपकारं करोति, नैवं जिनाऽऽदीनां नमस्कारपूजा, तत्कथमसौ धर्मनिमित्त भवति? इत्याशङ्कयाऽऽहदाणे वि पराऽणुग्गहलक्खणसंकप्पमेत्तओ चेव। फलमिह न उ पच्छा तक्कओवगाराऽवगाराओ॥ 3270 // इहरोवउत्तभत्ताजिन्नाऽऽह वहम्मि दक्खिणे यस्स। दितस्स वहावत्ती, तेणाऽऽदाणप्पसंगोऽयं / / 3271 // साध्वादिदानेऽपि पराऽनुग्रहलक्षणसंकल्पमात्रत एवेह दातुः फलनिष्पत्तिः, न पुनः पश्चात्तत्कृतादानकृतादुपकारादपकाराद्वेति।। 3270 // इतरथोपयुक्तेसाध्यादिना भुक्ते योऽजीर्णाऽऽदिदोषस्तेन दाक्षिणेयस्यदक्षिणा दानं तद्विषयभूतस्य साध्वादेर्वधे मरणे सति दातुर्वधाऽऽपत्तिहिंसाऽऽदिदोषसमापप्तिः / तेन च हिंसाऽऽदिदोषेणाऽऽदानप्रसङ्गोऽयं प्राप्नोति, अनिष्ट चैतत् दातुर्विशुद्धपरिणामत्वात्। न हि तेन साध्वादिजिघांसया दानं दत्तं, किं तु तद्गुणबहुमानाऽऽदिपरिणामेन / न चैवं विशुद्धपरिणामस्यापि पापसंबन्धो घटते, अन्यथा मातृस्पन्यपानादजीर्णा बालस्य मरणे मातुस्तद्वधकृतपापप्रसङ्गादिति। तदेवं प्राग् यदुक्तं " पूयाऽणुवगाराओऽपरिग्गहाओ " (3226) इत्यादि, तत्र पूजाऽनुपकारादित्ययं हेतुरपाकृतः / / 3271 // अथ" अपरिग्रहात्" इत्यमुनिराचिकीर्षुराहन परपरिग्गहउ चिय, धम्मो किं तु परिणामसुद्धीओ। पूया अपरिगहम्मि वि, साय धुवा तो तदारंभो / / 3272 / / न खलु पूजायाः परेण पूज्येन परिग्रहादेव स्वीकारादेव ध