________________ णमोकार 1847 - अभिधानराजेन्द्रः भाग - 4 णमोकार संलक्ष्यते। तथाहि-कोपाऽऽदिरहितादेवाऽऽकाशाऽऽदेव्रण उप-घातः, पट्टकबन्धाऽऽदेस्त्वनुग्रहः, हितमितान्नपानाऽऽदेरनुग्रहः, तस्माद्विपरीतात्पुनरुपघातः / एवं पीयूषविषाऽऽदेरपि सकाशात्कोपाऽऽदिविरहितादेवानुग्रहोपधातौ दृश्यते / ततो विरुद्धोऽयं हेतुः, विपक्ष एव वृत्तिदर्शनादिति // 3246 // अथ राजाऽऽदिना हरणप्रदानहेतवः कोपप्रसादा भवन्तीति प्रत्यक्षत एव दृष्टमिति परस्य मतिर्भवेत्; ननु तदपि सर्वस्वाऽऽहरणं, प्रदानं वा स्वपापपुण्यकृतमेव। यस्तु परः, स तत्र केवलं निमित्तमात्रमेवेति प्रागेव भणितमिति दर्शयन्नाहहरणप्पयाणहेऊ, हवेज कोवाऽऽदओ मई तं पि। नणु सकयं चिय भणियं, निमित्तमेत्तं परो नवरं / / 3250 // गतार्था // 3250 // अथवाऽपहरणप्रदानाऽऽदिकं स्वकृतं नेष्यते, तत्राऽऽहजइ वा न सकयहेउं,तं तो कोवप्पसाययं राया। सो सव्वसेवयाणं, समानफलदो कहं न भवे ? ||3251 // पाठसिद्धा / / 3251 // अपिचदीसइ य विसमफलदो, विफलो य समाणसेवयाणं पि। भण्णइ य सुकयपुण्णो, तो से रायप्पसाउत्ति।। 3252 // समानसेवकानामपि विषमफलदः केषाञ्चिद्विफलश्च दृश्यते राजा।ततो ज्ञायतेस्वकृतपुण्यपापकृतमेवेदं सर्वमपि वैचित्र्यम् , राजाऽऽदिस्तु तत्र निमित्तमात्रमेवेति। अपरं च लोकेऽपि भण्यते लोकेऽप्येवं वतारो भवन्ति"सुकृतपुण्यः स देवदत्ताऽऽदिः, (तो से त्ति) ततः ' से ' तस्यैव राजप्रसादो जातः" इति। तत एवमादिलोकोक्तेश्च स्वकृतपुण्यपापानुमानं प्रवर्तत इति / / 3252 / / अपिचकोवप्पसायहेलं, च जं फलं न हि तदत्थमारंभो। न परप्पसायणत्थं, किं तु निययप्पसायत्थं / / 3253 / / कोपप्रसादहेतुकं च यत्किमपि फलं तदर्थो नैवायमस्माकमहदादिनमस्कारपूजाऽऽरम्भः, नाऽपि परप्रसादनार्थ, किं तु निजकचित्तस्य यः प्रसादः प्रसत्तिरहदादिगुणबहुमानेन शुभरूपता, तदर्थोऽयमारम्भ इति ||3253 // परप्रसादनार्थ नाऽऽरम्भ इत्याहधम्माऽधम्मान परप्पसायकोवाणुवत्तिणो जम्हा। तो नपरो त्ति प्रसण्णो, धम्मो कुविउत्ति वाऽधम्मो // 3254 / / | धर्मार्था ह्ययमारम्भः। धर्माऽधर्मी च यस्मान्न परप्रसादकोपानुवर्तिनी, किं तर्हि ? जीवगतशुभाशुभपरिणामानुयायिनी; ततः परः प्रसन्नः / इत्येतावता न धर्मः, नापि परः कुपितः इत्येतावन्मात्रेणाऽधर्मः, किं तु निजशुभाशुभपरिणामवशाद्धर्माधर्मी 1 तत्र च शुभाशुभपरिणामस्याऽऽलम्बनमर्हदादयो नमस्क्रियमाणाः संपद्यन्ते / शुभपरिणामाच धर्मः / तस्माचार्थकामाऽऽदयः, स्वर्गापवर्गी च भवतः / इति संपद्यत एवार्हन्नमस्कारस्य यथोक्तं फलमितीह तात्पर्यमिति // 3254 / / यदि परप्रसादकोपाऽनुवर्तिनौ धर्माधमौ स्याता, ततः को दोषो भवेत् ? इत्याह तस्साहणसुन्नस्सं वि, जइ वा धम्मो परप्पसायाओ। तो जो जस्स पसन्नो, स तस्स देजा जगद्धम्मं / / 3255 / / कुपिओ हरेज सव्वं, दिज्जा धम्म व तह य पावं ति। अकयाऽऽगमकयनासा,मोक्खगयाणं पि चापडणं // 3256|| वाशब्दः प्रस्तावनायां, सा च कृतैव / तस्य धर्मस्य दयादानप्रशमब्रह्मचर्याऽहंदादिपूजाऽऽदीनि साधनानि, तैः शून्यस्यापि यदि धर्मः परप्रसादमात्रादेवेष्यते, ततस्तर्हि य ईश्वराऽऽदिर्यस्य देवदत्ताऽऽदेः प्रसन्नः स ईश्वराऽऽदिर्जगतोऽपि संबन्धिनं धर्ममपहृत्य तस्यैवैकस्य देवदत्ताऽऽदेः सर्वं दद्यात् / तथा-कुपितः स एव तस्य देवदत्ताऽऽदेः संबन्धिनं सर्वं धर्मपहरेत् , अधर्म वा सर्वमपि प्रयच्छेत्। तथा च सत्यकृताऽऽगमकृतनाशौ प्राप्नुतः, एकस्याकृतयोरपि धर्माऽधर्मयोरागमाद् , अन्येषां तु स्वयंकृतयोरपितयो शादिति। मोक्षगतानामपि च सिद्धानामेवं पतनं स्यात्तदीयपूर्वसुकृतस्यान्यत्र संचरणात्, अन्यदीयाधर्मस्य च तेषु प्रक्षेपादीति॥३२५५ / / 3256 / / किच-परकीयकोपप्रसादाभावेऽपि धर्माऽधर्मों तवापि प्रसिद्धौ / कथम् ? इत्याहजइ वीयरागदोसं, मुणिमकोसिज्ज कोइ दुट्ठऽप्पा। कोवप्पसायरहिओ, मुणि त्ति किं तस्य नाधम्मो ?||3257 / / सवओ तस्साऽधम्मो, जइ वंदंतस्स तो धुवं धम्मो। कोवप्पसायरहिए, तह जिणसिद्धे वि को दोसो ? ||3258|| वीतावपगतौ रागद्वेषौ यस्य तं वीतरागद्वेष मुनिं यदि दुष्टाऽऽत्मा कश्चिदाक्रोशेत् , तदा" वीतरागद्वेषत्वात्कोपप्रसादरहितः स मुनिः " इत्येतावन्मात्रेण किं तस्याऽऽक्रोष्टुर्नाऽधर्मः स्यात् ? ननु स्यादेवाऽसौ, सकलशास्त्रलोकप्रतीतत्वादिति // 3257 / / ततश्च (सवओ त्ति) मुनि शपमानस्य तस्याऽऽकोष्टुर्यद्यधर्भोऽभ्युपगतस्त्वया, ततस्तॉन्यस्य कस्यापि शुभपरिणामस्य तमेव मुनि वन्दमानस्य ध्रुवं निश्चितं धर्मोऽप्येष्टव्य एव, स्वपरिणाममात्रनिबन्धनत्वस्येहाऽपि समानत्वादिति / यदि नामैवं, ततः प्रकृते किम् ? इत्याह-तथा तेनैवोक्तप्रकारेण कोपप्रसादरहिते जिने सिद्धे च नमस्कर्तुर्निजशुभपरिणामवशाधयथोक्तफलप्राप्तौ को दोषः ? न कश्चिदिति // 3258 / / (16) दृष्टान्तान्तरेणाऽप्यर्हदादिभ्यः फलप्राप्ति समर्थयन्नाहहिंसामि मुसं भासे, हरामि परदारमाविसामि त्ति। चिंतेज कोइ न य चिंतियाण कोवाऽऽइसंभूई / / 3256 // तह वि य धम्माधम्मो-दयाऽऽइ संकप्पओ तहेहावि। वीयकसाए सवओ-ऽधम्मो धम्मो य संथुणओ / / 3260 // " हिनस्मि हरिणाऽऽदीन् , मृषा भाषेऽहं, तद्भाषणाच वञ्चयामि देवदत्ताऽऽदीन् , धनमपहरामि तेषामेव, परदारानाविशामि निषेवेऽहम्,' इत्यादि कश्चिचिन्तयेत् / न च तेषां चिन्तितानां हिंसाऽऽदिचिन्ताविषयभूतानां हरिणाऽऽदीनां तत्कालं कोपाऽऽदिसंभूतिः कोपाऽऽदिसंभवोऽस्ति / / 3256 / / तथाऽपि हिंसाऽऽदिचिन्तकस्याधर्मः, दयाऽऽदिसंकल्पतस्तु तद्वतो धर्मो भवति। इत्यावयोरविगानेन प्रसिद्धमेव, तथेहापि प्रस्तुते वीतकषायानप्यर्हत्सिद्धाऽऽदीन शपमानस्याऽधर्मः, संस्तुवतस्तुधर्म इति किं नेष्यते? इति / / 3260 //