________________ णमोकार 1845 - अभिधानराजेन्द्रः भाग - 4 णमोकार लंतरनिप्फत्तिं ति)। कालान्तरे निष्पत्तिर्यस्य तत्कालान्तरनिष्पत्ति, कालान्तरभावीत्यर्थः / तच (इह त्ति) इहलोके, अर्थकामाऽऽदिकम् / (परलोए त्ति) परलोके स्वर्गाऽऽदिकं, मोक्षे तु जरामरणाभावाऽऽदिकमिति / तदेवं सामान्यतः प्रयोजन फलं चोपदर्शितम् // 3225 / / अथ प्रयोजनं विशेषतो दर्शयति-(कम्मेत्यादि)(तल्लाभे चेव त्ति) तस्य नमस्कारस्य लाभकाल एव, तदुपयोगान्नमस्कारोपयोगादनुसमये कर्मक्षयो भवति / तथा-सर्वार्थेषु च सर्वकार्येषु प्रवृत्तानां मङ्गलमविघ्नहेतुर्नमस्कारः संपद्यत इति॥३२२६|| अत्र कश्चिदाह-" ननु नमस्कारोपयोगात्कर्मक्षयो भ वति" इत्येतत्कुतः? इत्याहसुयमागमो त्तिय तओ, सुओवओगप्पओयणो तं च। आयहियपरिण्णाभा-वसंवराऽऽइ-बहुविगप्पं च // 3227 // तकोऽसौ नमस्कारः श्रुतमागम इत्यर्थः / स च श्रुतोपयोगप्रयोजनः श्रुतोपयोगः प्रयोजनं फलमस्येति कृत्वा / तच्च श्रुतोपयोगप्रयोजनमात्महितभावसंवराऽऽदिभेदेन बहुविकल्पं बहुभेदम् / उक्तं च-" आयहियपरिण्णाभा-वसंवरो नवनवो य संवेगो। निकंपया तओ निजरा य परदेसियत्तं च॥१॥"इत्यादि। अतो नमस्कारस्य श्रुतरूपत्वाद्भवत्येव तदुपयोगात्कर्मक्षय इति॥ 3227 / / (15) अत्र प्रेरकः प्राऽऽहपूयाफलप्पया न हि, नहं व कोवप्पसायविरहाओ। जिणसिद्धा दिटुंतो, वइधम्मेणं निवाऽऽईया।। 3228|| नमस्कारलक्षणायाः पूजायाः फलं पूजाफलं तत्प्रदौ न हि नैव जिनसिद्धौ, कोपप्रसादरहितत्वात् , नभोवदिति। ये तु पूजाफलदाः ते कोपप्रसादरहिता न भवन्ति, यथा नृपाऽऽदय इत्येव वैधपेण दृष्टान्त इति // 3228 // एतदेव समर्थयन्नाहपूयाऽणुवगाराओ, अपरिगहाओ विमुत्तिभावाओ। दूराऽऽइभावओ वा, विफला सिद्धाऽऽइपूय त्ति।।३२२६॥ विफला सिद्धाऽऽदिपूजेति प्रतिज्ञा / हेतूनाह-पूजाया अनुपक्रि- | यमाणत्वात् , तदपरिग्राहित्वाद् , अमूर्तत्वात् , दूराऽऽदिभावात् , नभोवदिति // 3226 // __अत्र प्रतिविधानमाहजिणसिद्धा दिति फलं, पूयाए केण वा पवण्णमिणं? धम्माऽधम्मनिमित्तं, फलमिह जं सव्वजीवाणं / / 3230 // ते य जओ जीवगुणा, तओ न देया न वा समादेया। कयनासाऽकयसंभो-गसंकरेगत्तदोसाओ।। 3231 / / नन्वयमनुक्तोपालम्भः सर्वोऽपि पूर्वोक्तः, यस्माद्" जिनसिद्धाः पूजायाः फलं ददति " इति केनेदं प्रपन्नम् ? धर्माधर्मनिमित्तमेव हि यस्मात् स्वर्गनरकाऽऽदिकं फलमिह सर्वजीवानामिति // तौ च धर्माधर्मो यतो जीवगुणौ, ततो नकस्यापि देयौ दातव्यौ, नाऽपि कुतश्चित्समादेयौ ग्राह्यौ, ज्ञानाऽऽदिगुणवत् / कुतः ? इत्याह-(कयनासेत्यादि) यदि होते जिनसिद्धाः कुपिताः सन्तः कस्याऽपि धर्ममपहरेयुरधर्म च प्रयच्छेयुः, तदा कोपविषयभूतस्य प्राणिनः कृतस्य धर्मस्य नाशः, अकृतस्य चाऽधर्मस्याऽऽगमः स्यात्, प्रसन्ना वा यदि कस्याऽप्याकस्मिकं धर्म प्रयच्छेषुः, अधर्म चापहारेयुः, तदाऽकृतस्य धर्मस्याऽऽगमः, कृतस्य चाधर्मस्य नाशो भवेदिति / एवं यदा ते प्रसन्नाः कुपिता वा कस्याऽपि संबन्धिनौ धर्माधर्मावाच्छिद्यान्यस्यदधुः, अन्यस्य संबन्धिनौ चापरस्य, तदा प्राणिनां परस्परं धर्माधर्मयोः संकरः, एकत्वं वा स्यात् / एवं स्वर्गनरकाऽऽदिके धर्माधर्मफलेऽपि कृतनाशाऽऽदिभावना कार्येति / / 3230 / / 3231 / / अपि चनाणानाबाहसुहं, मोक्खो पूयाफलं जओऽभिमयं / तं नाऽऽयपज्जयाओ, देयं जीवाऽऽइभावो व्व / / 3232 / / ज्ञाने सत्यनाबाधस्य यत्सुखं तद्रूपो यो मोक्षः, स एव यस्मान्नमस्कारलक्षणायाः पूजायाः परमार्थतो मुख्यं फलमभिमतं, स्वर्गाऽऽदेरानुषङ्गिकफलत्वात् / तच यथोक्तं सुखं न कस्याऽपि हेयं दातुं शक्यम्, आत्मपर्यायत्वात् ,जीवचैतन्याऽऽदिभाववत्। ततश्च पूजाफलदाननिषेधे सिद्धसाधनमेवेति॥ 3232 // यदि पूजाफलं न देयं, तर्हि किं देयमिह भवेद् ? इत्याहभत्ताऽऽइ होज देयं,न तदत्थो पूयणप्पयत्तोऽयं / तं पि सकओदयं चिय, बज्झनिमित्तं परो नवरं / / 3233 / / शाल्योदनाऽऽदिरूपं भक्ताऽऽदिकं परस्मै देयं भवेत्, स्थूलपुद्गलस्कन्धमयत्वात् , घटाऽऽदिवत् / केवलं तदर्थो भक्ताऽऽद्यर्थोऽयं पूजनप्रयत्नो न भवति, किं तु मोक्षाऽर्थः / किञ्चतदपि भक्ताऽऽदिकं स्वकृतात्कर्मण उदय उत्पत्तिर्यस्य तत्स्वकृतोदयं, स्वकृतकर्मजनितमेवेत्यर्थः / यस्तु परः कश्चिद्दाता दृश्यते, स केवलं बाह्यनिमित्तमात्रमेव। निश्चयतस्तु बाह्यो न कोऽपि कस्यापि दाता, अपहर्ता चेति॥ 3233 // एतदेव समर्थयन्नाहकम्मं सुहाऽऽइहेऊ, वज्झयरं कारणं जया देहो। सद्दाऽऽइ वज्झतरयं, जइ दायरि कहा का णु ? / / 3234 // तम्हा सकारणं चिय, सुहाऽऽइ वझं निमित्तमेत्तायं / को कस्स देइ हरइ व, निच्छयओ का कहा सिद्धे ? // 3235 / / यदि हन्त! सुखदुःखानामन्तरङ्गं कर्मव हेतुः, देहस्तु यदा तेषां बाह्यतरं कारणं, शब्दरूपाऽऽदिकं तु शुभाशुभमपि बाह्यतरं कारणं, तदाऽतिबाह्यतरादपि परभूते दातरि काऽत्र किल कारणत्वकथा ? इति / / 3234 // तस्मात्स्वमात्मीयं कर्मव कारण यस्य तस्वकारणमेव सुखाऽऽदि,बाहांतुदेहशब्दरूपाऽऽदिकं निमित्तमात्रकमेव ततो निश्चयतः कः कस्मै ददाति, अपहरति वा ? न कश्चिदित्यर्थः / तथा च सति क्षीणरागद्वेषे सिद्धे का नमस्कारफलदातृत्वकथा ? इति // 3235 // अत्र परप्रेथ परिहारं चाऽऽहजइ सव्वं सकयं चिय,न दाणहरणासइफलमिहाऽऽवन्नं / णणु जत्तो चिय सकयं, तत्तो चिय तप्फलं जुत्तं / / 3236 / / दाणाऽऽइपराणुग्गह-परिणामविसेसओ सओ चेव। पुन्नं हरणाऽऽइपरो-वघायपरिणामओ पावं / / 3237 / / तं पुन्नं पावं वा, ठियमत्तणि बज्झपच्चयावेक्खं / कालंतरपागाओ, देइ फलं न परओ लब्भं / / 3238 / / यद्युक्तप्रकारेण यल्लोकः शुभमशुभं वा फलमनुभवति, तत्स