________________ णमोकार 1843 - अभिधानराजेन्द्रः भाग - 4 णमोकार द्धयोरेवायं वस्तुतस्तुल्यबलयोर्विचारः श्रेयान , परमनायकपद- वर्तित्वात्तयोः / अचार्यास्त्वहतां परिषत्कल्पा एव वर्तन्ते / नाऽपि कश्चित्परिषदे (पणमित्ता) प्रणामं कृत्वा, ततः प्रणमति राज्ञे; इत्यतोऽप्रेर्यमवेदम् / इति नियुक्तिगाथार्थः / / 3213 / / भाष्यकारः प्राऽऽहजइएवं आयरिओ-वएसओ जंजिणाऽऽइपडिवत्ती। तेणाऽऽयरियाऽऽइकमो, जुत्तो नो चेदणेगंतो / / 3214 // यद्यहंदुपदेशेन सिद्धा ज्ञायन्त इत्यर्हतामादौ नमस्कारः, तर्देवं सत्याचार्योपदेशत एव यस्माछिनाऽऽदीनामर्हदाऽऽदीनां प्रतिपत्तिभव्यलोकस्योपजायते, तस्मादाचार्यादिरेवक्रमो युक्तः,नचेदेवमिष्यते, तनिकान्तोऽय-यदुपदेशेनयोज्ञायते तस्य प्राधान्यमितरस्य च गुणभाव इति // 3214 / / पर एवाऽऽहजुत्तो व गणहराणं, जिणाऽऽइओ जंजिणोवएसेणं। जाणंति ते विसेसे, सेसा उ गुरूवएसेणं / / 3215 / / काक्का वदति-युक्तो वा गणधराणा गौतमाऽऽदीनामयं जिनाऽऽदिरहंदादिक्रमः, यस्मात्ते गौतमाऽऽदयो जिनस्याऽर्हत एवोपदेशेनावशेषान् सिद्धाऽऽचार्याऽऽदीन् जानन्ति, शेषास्तु गणधरशिष्यप्रशिष्याऽऽदयो निजनिजगुरूपदेशेन सिद्धाऽऽदीनहतश्च जानन्ति, ततः केषाशिदर्हदादिः, केषाश्चिदाचार्याऽऽदिः क्रमस्त्वदभिप्रायतोऽनियमेन भवत्विति // 3215 // तथा पर एवाऽऽहअहवा आयरिउ चिय, सो तेसिं मइ तओ पसत्तो भे। आयरियाऽऽइउ चिय, एवं सइ सव्वसाहूणं // 3216 // अथवा मतिः-स जिनो भगवानाचार्य एव तेषां गणधराणामाचारप्रवर्तकत्वमाश्रित्येति भावः। ततश्चैवं सति-'भे' भवतामाचार्याऽऽदिरेव सर्वसाधूनां गणधराऽऽदीनां क्रमः प्रसक्तः प्राप्त इति / / 3216 / / अत्र सूरिरुत्तरमाहपढमोवएसगहणं, तं चारुहओन सेसएहिंतो। गुरवो वि तदुवइट्ठ-स्स चेव अणुभासया नवरं / / 3217 / / अरहंतगुरूवज्झा-यभावओ तस्स गणहराणं पि। जुत्तो तयाइउ चिय, न गुरु त्ति तओ जिणे न भवे // 3218 // स जिणो जिणाऽऽइसयओ, सो चेव गुरू गुरूवएसाओ। करणाऽऽइविणयणाओ, सो चेव मओ उवज्झाओ॥३२१६॥ इह यद्यप्याचार्याऽऽदयोऽप्यर्हदादीनुपदिशन्ति, तथाऽपि यत्प्रथममुपदेशग्रहणं गणधराणां तदधिकृत्योच्यते। तच्चाऽर्हत एव सकाशाद्, ' न शेषेभ्य आचार्योपाध्यायाऽऽदिभ्यः / येऽपि गुरव आचार्याऽऽदयोऽहंदादीनुपदिशन्ति, तेऽपि तदुपदिष्टस्याहदुपदिष्टस्यैव, केवलमनुभाषकाः, न पुनः स्वातन्त्र्येण देशका इति // 3217 / / अथवा यद्यप्याचार्याऽऽधुपदेशेनाऽर्हन्तो ज्ञायन्त इत्यभ्युपगम्यते, तथाऽप्यर्हदादिरेव क्रमः / कुतः ? इत्याह-(अरहतेत्यादि) गणधराणाम् , अपिशब्दाच्छेषाऽऽचार्याऽऽदीनामपि, तदादिरहदादिरेव क्रमो युक्तः / कुतः ? इत्याह-तस्याऽहत एवार्हदगुरूपाध्यायभावतः / स एव हि महावीराऽऽदिर्भगवानष्टमहाप्रातिहार्याऽऽद्यतिशययोगादर्हन् , स एव तत्त्वोपदेशाऽऽदिभ्यो गुरुराचार्यः, स एव चेन्द्रियकषाययोगाऽऽदिविनयनादुपाध्यायः, ततश्चाऽऽचार्याऽऽदिक्रमेऽपि परेणाऽऽपाद्यमाने सामर्थ्यादर्हदादिरेव क्रमः संपद्यत इति भावः / / 3218 / / न चाऽयं गुरुराचार्य इत्यतो जिनोऽर्हन्न भवेत् , किं तु भवेदेव, जिनातिशययोगादिति। एतदेवाऽऽह-(स जिणो इत्यादि) गतार्था // 3216 // अथ यदुक्तम्-"जच जिणाण वि पुजा सिद्धा" (3212) इत्यादि, तत्राऽऽहजइ सिद्धनमोक्कार, छउमत्थो कुणइ न य तदाईओ। तं पइ तया न दोसो, न हि सो तकालमरुहंतो।। 3220 / / यदि निष्क्रमणकाले भगवाँश्च्छास्थो गुणाधिकानां सिद्धानां नमस्कार करोति, करोतु नाम तदा, न कश्चिद्दोषः / कं प्रति नदोषः ? इत्याह-तं छास्थतीर्थकरं प्रति / न ह्यसौ तत्कालमर्हन, केवलोत्पत्तावेव तभावादिति / यदि छद्मस्थतीर्थकरापेक्षया गुणाधिकाः सिद्धा भवद्भिरपीष्यन्ते, तर्हि कथं छद्मस्थतीर्थकराऽऽदिनमस्कारः ? इति चेत् / तदयुक्तम् / कुतः? इत्याह-न च तदादिश्छद्मस्थतीर्थकराssदिनमस्कार इष्यतेऽस्माभिः, किं तु समुत्पन्नकेवलज्ञानाऽहंदादिरेव / सच केवल्यर्हन् सिद्धाऽऽदिवस्तुस्तोमस्वरूपोपदेशदानतः सिद्धेभ्यो गुणाधिक इत्युक्तमेवेति / अतोऽर्हदादिरेव नमस्कार इति // 3220 / / अत्राऽऽक्षेपपरिहारौ प्राऽऽहएवमकयत्थकाले, सिद्धाऽऽई होउ भण्णइ तया वि। अन्ने संतरुहंता, तओ तयाई तओ निचं / / 3221 / / यदि छद्मस्थतीर्थकरापेक्षया गुणाधिकाः सिद्धाः, तद्येवं सत्यकृतार्थछद्मस्थतीर्थकरकाले सिद्धाऽऽदिनमस्कारो भवतु, न्यायोपपन्नत्यादिति / भण्यतेऽत्रोत्तरम्-हन्त ! यदाऽत्र भरताऽऽदौ छद्मस्थतीर्थकरस्तदाऽपि महाविदेहेष्वन्ये केवलिनोऽर्हन्तःसन्ति, ततस्तदादिरहंदादिरेव, तकोऽसौ नमस्कारो, नित्यं सर्वदा / / इति गाथाऽएकार्थः / / 3221 // तदेवमुक्तं क्रमद्वारम्। (13) अथ प्रयोजनफलयोर्दर्शनार्थमाहएत्थ य पओयणमिणं, कम्मक्खयमंगलाऽऽगमो चेव। इहलोयपारलोइय-दुविहफलं तत्थ दिटुंता / / 3222 / / अत्र च नमस्कारकरणे प्रयोजनमिदम्। यदुत-करणकाल एवाऽऽक्षेपेण ज्ञानाऽऽवरणाऽऽदिकर्मक्षयः, अनन्तकर्मपुद्गलापगममन्तरेण भावतो नमस्कारस्याऽप्यप्राप्ले रित्युक्तमेव / तथा-मङ्गलाऽऽगमश्चैव यः करणकालभावीति, तथा-कालान्तरभावि पुनरैहलौकिकपारलौकिकभेदभिन्नं द्विविधं फलम्। तत्र दृष्टान्ता वक्ष्यमाणलक्षणा इति / 3222 // तदेव द्विविधं फलं तावद्विवृण्वन्नाहइहलोएँ अत्थकामा, आरोग्गं अमिरई य निप्फत्ती। सिद्धी य सग्गसुकुल-प्पञ्चायाऽऽई य परलोए।। 3223 // इहलोके नमस्कारादर्थकाभौ भवतः, आरोग्यं नीरुजत्वमुपजायते। एते चाऽऽर्थादयः शुभविपाकिनोऽस्माद्भवन्ति / तथा चाऽऽहआभिमुख्येन रतिरभिरतिः, सा चेहलोकेऽप्यर्थादिभ्यो भवति, परलोकविषया तु तेभ्य एव, शुभानुबन्धित्वात, निष्पत्तिः ' पुण्यस्य' इति गम्यते। अथवा-' अभिरतेश्च निष्पत्तिः इत्येकवाक्यतैव / तथासिद्धिश्च, मुक्तिश्च, स्वर्गः, सुकुलप्रत्ययाऽऽदिश्च परलोके इत्यस्याऽऽमुष्मिकफलमिति // 3223 / /