________________ णमोकार 1842 - अभिधानराजेन्द्रः भाग-४ णमोकार स्तरतोऽनेकविधो नमस्कारः प्राप्नोति / तथाहि-ऋषभाऽजितसंभवाऽऽदिभ्यो नामग्राहं सर्वतीर्थकरेभ्यः , तथा-सिद्धेभ्योऽप्येकद्वित्रिचतुष्पञ्चाऽऽदिसमयसिद्धेभ्यो यावदनन्तसमयसिद्धेभ्यः, तथातीर्थलिङ्गप्रत्येकबुद्धाऽऽदिविशेषणविशिष्टेभ्य इत्यादि-भिर्भेदैर्विस्तरतोऽनन्तभेदो नमस्कारः प्राप्नोति। यतश्चैवं, तस्मादमुपक्षद्वयमङ्गीकृत्य पञ्चविधोऽयं नमस्कारो न युज्यत इति॥३२०१॥ तदेवमुक्तमाक्षेपद्वारम्। (11) अथ प्रसिद्धिद्वारम् / तत्र प्रसिद्धिराक्षेपस्य प्रतिविधानमभिधीयते। इह चेदं प्रतिविधानम्-'न संक्षेपो, नाऽपि विस्तरतः ' इत्येतदसिद्धम् , संक्षेपत्वादस्य। अथसंक्षेपकारणवशात्कृतार्थाकृतार्थपरिग्रहेण सिद्धसाधुमात्रक एवोक्त इति चेत्। तदयुक्तम्। कारणान्तरस्यापि सद्भावात्। तथा चाऽऽहअरिहंताऽऽई नियमा, साहू साहू उ तेसु भइयव्वा। तम्हा पंचविहो खलु, हेउनिमित्तं हवइ सिद्धो / / 3202 / / इहाईदादयो नियमात्साधवः, तद्गुणानामपि तत्र भावात्। साधवस्तु तेष्वर्हदादिषु भक्तव्या विकल्पनीयाः, यतस्ते न सर्वेऽप्यर्हदादयः, किं तर्हि ? के चिदर्हन्तः, येषां तीर्थकरनामकर्मोदयोऽस्ति, केचित्तु सामान्यकेवलिनः, अन्ये त्वाचार्या विशिष्टसूत्रार्थदेशकाः, अपरे तूपाध्यायाः सूत्रपाठकाः, अन्ये त्वेतदविशिष्टाः सामान्यसाधव एव शिक्षकाऽऽदयो, न पुनरर्हदादयः। तदेवं साधूनामर्हदादिषु व्यभिचारात् तन्नमस्करणेऽपि नाऽहंदादिनमस्कारसाध्यस्य विशिष्टस्य फलसिद्धिः। ततश्च संक्षेपेण द्विविधनमस्करणमयुक्तमेव, अव्यापकत्वादिति / अत्र प्रयोगःसाधुमात्रनमस्कारो विशिष्टोऽर्हदादिगुणनमस्कृतिफलप्रापणसमर्थो न भवति तत्सामान्याभिधाननमस्कारकृत्त्वात् , मनुष्यमात्रनमस्कारवद् , जीवमात्रनमस्कारवद्वेति / तस्मात्संक्षेपतोऽपि पञ्चविध एव नमस्कारो, न तु द्विविधः, अव्यापकत्वात; विस्तरतस्तुनमस्कारो न विधीयते, अशक्य-त्वात्। तथा-" मग्गेअविप्पणासो" इत्यादिको यः पूर्व पञ्चविधो हेतुरुक्तः, तन्निमित्तमप्ययं पञ्चविधः सिद्धो भवति / इति नियुक्ति-गाथार्थः / / 3202 // अथ भाष्यकार आक्षेपविवरणमाहनिव्वुयसंसारिकया-कयत्थलक्खणविहाणओ जुत्तो। संखेवनमोकारो, दुविहोऽयं सिद्धसाहूणं / / 3203 / / उसभाऽऽईणमणंतर-सिद्धाऽऽईणं जिणाऽऽइयाणं च। वित्थरओ पंचविहो, न वि संखेवो न वित्थारो / / 3204 / / गतार्थे / / 320313204 // अथ प्रसिद्धिविवरणमाहजइ वि जग्गहणाओ, होइ कयं गहणमरुहयाऽऽईणं / तह विन तग्गुणपूया, जइगुणसामण्णपूयाओ।। 3205 / / परिणामसुद्धिहे, व पयत्तो सा य बज्झवत्थूओ। पायं गुणाहिआओ,जा सा न तदूणगुणलब्भा।। 3206 // जह मणुयाऽऽइग्गहुणे, होइ कयं गहणमरुहयाऽऽईणं / न य तव्विसेसबुद्धी, तह जइसामण्णगहणम्मि।।३२०७।। जइ एवं वित्थरओ, जुत्तो तदणंतगुणविहाणाओ। भण्णइ तदसज्झमओ, पंचविहो हेउभेयाओ / / 3208 / / मग्गोवएसणाई, सोऽभिहिओ तप्पमेयओ भेओ। जह लावगाऽऽइमेओ, दिट्ठो लवणाऽऽइकिरियाओ॥३२०६।। एता अपि गतार्था एव।। 3205 / 3206 // नवरं (तह जईत्यादि) तथा तेनैव प्रकारेण, यतेः साधोः सामान्यं, तद्ग्रहणे, सति नाहदादिविशेषवति बुद्धिरुत्पद्यत इति॥३२०७॥ (तदनंतगुणेत्यादि) तेषामर्हदादीनां ये अनन्ता गुणाः प्रत्येक क्षेत्रकालजातिगोत्रप्रमाणाऽऽकृतिवयःसंयमाऽऽदिविशेषरूपा उपा-धयस्तैः कृत्वा विधानाद् नमस्कारस्य करणादिति।। 3208 || (जह लावगाऽऽईत्यादि) यथा लावक-प्लावक-पाचक-पाठकयाचकाऽऽदीनां लवन-प्लवन-पचन-पठन-याचनाऽऽदिक्रियातो भेदो दृष्टः।। 3206 / / (12) अत्र क्रमद्वारविचारमाहपुव्वाणुपुव्वि न कमो, नेव य पच्छाणुपुविए स भवे / सिद्धाऽऽईया पढमा, विइयाए साहुणो आई / / 3210 / / इह क्रमस्तावद् द्विविधः-पूर्वानुपूर्वी वा, पश्चानुपूर्वी वेति / अनानुपूर्वी किल क्रम एव न भवति, असमञ्जसत्वात्। तत्रायमर्हदादिक्रमः पूर्वानुपूर्वी न भवति, सिद्धानामादावनभिधानादेकान्तकृत-कृत्यत्वेन / यथा-" सिद्धाण नमोकारं, काऊणमभिग्गहं तु सो गिण्हे।" इति वचनादर्हन्नमस्कार्यत्वेन च सिद्धानां प्रधानत्वात्, प्रधानस्य चाऽभ्यर्हितत्वेन पूर्वाभिधानादिति भावार्थः / तथा-नैव च पश्चानुपूर्येष क्रमो भवेत् . साधूनां प्रथममनभिधानात् इहाऽप्रधानत्वात्सर्वपाश्चात्या हि साधवः / ततश्च तानादौ प्रतिपाद्य यदि पर्यन्ते सिद्धाऽभिधानं स्यात् , तदा भवेत्पश्चानुपूर्वी / तस्मात्प्रथमायाः सिद्धाऽऽदित्वात् , द्वितीयायास्तु साध्वादित्वाद् नेयं पूर्वानुपूर्वी, नापि पश्चानुपूर्वी।। इति नियुक्तिगाथार्थः ||3210 // एतदेव भाष्यकारः प्राऽऽहजेण कयत्था सिद्धा, न जिणा सिद्धाऽऽइओ कमो जुत्तो। पच्छक्कमो व जइ सं-जयाऽऽसिद्धावसाणा तो // 3211 // जं च जिणाण वि पुजा, सिद्धा जंतेसि निक्खमणकाले। कयसिद्धनमोक्कारा, करेंति सामाइयं सव्वे / / 3212 / / गतार्थे / / 3211 / / 3212 // अत्रोत्तरमाहअरहंतुवएसेणं, सिद्धा नजंति तेण अरहाऽऽई। न वि कोई परिसाए, पणमित्ता पणमई रनो।। 3213 // इह तावदयं पूर्वानुपूर्वीक्रम एव। यदप्युक्तम्-" सिद्धादिरयं प्राप्नोति " / तदयुक्तम् / यतोऽहंदुपदेशेनैव सिद्धा अपि ज्ञायन्ते, प्रत्यक्षाऽऽदिगोचातीतत्वेनाऽऽगमगम्यत्वात् तेषाम् / तेन तस्मादर्हदादिरेव, पूर्वानुपूर्वीक्रम इति गम्यते। अत एव चाहतामभ्यर्हितत्वमवसेयम्। कृतकृत्यमप्यल्पकालव्यवहितत्वात्प्रायः समानमेवा तथा-नमस्कार्यत्वमप्यसाधकमेव, अर्हन्नमस्कारपूर्वकमेव सिद्धत्वप्राप्तेरहतामपि वस्तुतः सिद्धनमस्कार्यत्वादिति। आह-यद्येवं ताचार्याऽऽदिभिः क्रमः प्राप्तः, अर्हतामप्याचार्या पदेशेन परिज्ञानादिति / तदयुक्तम् / यस्मादह त् सि