________________ जंबूदीव 1374 - अभिधानराजेन्द्रः - भाग 4 जंबूदीव प्रश्नसूत्रं व्यक्तम् / उत्तरसूत्रे संख्यामीलनाय किञ्चिदुच्यते षट् वर्षधराः क्षुल्लहिमवदादयः एको मन्दरो मेरुः एकश्चित्रकूटः एकश्च विचित्रकूटः, एतौ च यमलजातकाविव द्वौ गिरिदेवकुरुवर्तिनौ द्वौ यमकपर्वतौ तथैवोत्तरकु रुवर्तिनौ द्वेकापश्चनकपर्वतशीते देवकुरुत्तरकुरुवर्तिहृदयदशकोभयकूलयोः प्रत्येक दशदशकाञ्चनकसद्भावात् तथा विंशतिर्वक्षस्कारपर्वताः तत्र गजदन्ताकाराः गन्धमा-दनादयश्चत्वारः, तथा चतुष्प्रकारे महाविदेहे प्रत्येक चतुष्कचतुष्कसद्भावात् / षोडश चित्रकूटादयः सरलाः द्वयेऽपि मिलिताः यथोक्तसंख्याः / तथा चतुस्त्रिंशद्दीर्घवैताढ्याः द्वात्रिंशद्विजयेषु भरतराव्रतयोश्च प्रत्येकमेकैकभावात् चत्वारो वृत्तवैताढ्यहैमवतादिषु चतुषु वर्षेषु एकै कभावात् 'एवामेव सपुव्वावरणं ति' प्राग्वत्। जम्बूद्वीपेद्वीपे एकोनसप्तत्यधिके पर्वतशते भवत इत्याख्यातं मया, अन्यैश्च तीर्थकृद्धिः। जं०६ वक्ष०। अथ क्षेत्राणिजंबूद्दीवे दीवे दस खेत्ता पण्णत्ता / तं जहा- भरहे, एरवए, हेमवए, हेरन्नवए, हरिवासे, रम्मगवासे, पुव्वविदेहे, अवरविदेहे, देवकुरा, उत्तरकुरा। स्था० 10 ठा०। अथ कूटानिजंबूदीवे णं भंते ! दीवे के वइया वासहरकूडा, के वइया वक्खारकूडा, केवइया वेअड्डकूडा केवइया मंदरकूडा पण्ण / त्ता ? गोयमा! छप्पण्णं वासहरकूडा, छण्णउइंव-क्खारकूडा, तिण्णि छलुत्तरा वेअडकूडसया, नव मंदरकूडा पण्णत्ता / एवा मेव सपुव्वावरेणं जंबुद्दीवे दीवे चत्तारि सत्तट्ठा कूडसया भवंतीति मक्खायं / / जम्बूद्वीपे कियन्ति वर्षधरकूटानि इत्यादि प्रश्नसूत्रं व्यक्तम्। उत्तर सूत्रे--षट्पञ्चाशद्वर्षधरकूटानि। तथाहि-क्षुद्रहिमवच्छिखरिणोः प्रत्येकमेकादश, महाहिमवद्रुक्मिणोः प्रत्येकमष्टौ, निष-धनीलवतोः प्रत्येकं नव, सर्वसंख्यया 56 / वक्षस्कारकूटानिषण्णवतिः। तद्यथा सरलवक्षस्कारेषु षोडशसु 16 प्रत्येकं चतुष्ट भावात् 64 गजदन्ताकृ तिवक्षस्कारेषु गन्धमादनसौमनसयोः सप्त 2 माल्यवद्विद्युत्प्रभयोः नव इति, उभयमीलने यथोक्तसंख्या, त्रीणि षडुत्तराणि वैताढ्यकूटशतानि, तन्न भरतैरावतयोर्विजयानां च वैताळ्येषु चतुस्त्रिंशति प्रत्येकनवसंभवादुक्तसंख्यानयनं वृत्तवैताद्व्येषु च कूटाभावः / अत एव वैताढ्यसूत्रे न दीर्घ-पदोपादानं, विशेषणस्य व्यवच्छेदकत्वात्, अत्र चव्यवच्छेद्य-स्याभावादिति। मेरौ नव,तानि चन्दनवनगतानि ग्राह्याणि, न भद्रशालवनगतानि दिग्घस्तिकूटानि, तेषां भूमिप्रतिष्ठित-त्वेन स्वतन्त्रकूटत्वादिति / संग्रहणिगाथायाम् "पव्वयकूडाय' इत्यत्र चोऽनुक्तसमुये। तेन चतुस्त्रिंशद्वृषभकूटानि, तथाअष्टौ जम्बूवनगतानि, तावन्त्येव शाल्मलीवनगतानि भद्धशालवनगतानि च सर्वसंख्याऽष्टपञ्चाशत्संख्याकानि अग्राणि। ननु तर्हि एतद्गाथाविवरणसूत्रे- "चत्तारि सत्त सट्ठा कूडसया'' इत्येवंरूपे संख्याविरोधः। उच्यते-एषां नियताधारकत्वेन स्वतन्त्रगिरित्वान्न | कूटेषु गणना। अयमेवाशयः ऋषभकूटसंख्यासूत्रपृथक्करणेन सूत्रकृता स्वयमेव दर्शयिष्यते, यच्च प्राक् ऋषभक्टाधिकारे-"कहिणंभंते! जंबुद्दीवे दीवे उसभकूटे णाम पव्वए पण्णत्ते / " इति सूत्रम्, तच्छिलोचयमात्रतापरं व्याख्येयमिति सर्वं सम्यक् / जं०६ वक्षः। स्था०। अथ तीर्थानिजम्बूद्दीवे णं भंते ! दीवे भरहे वासे कति तित्था पण्णत्ता? गोयमा! तओ तित्था पण्णत्ता। तं जहा-मागहे, वरदामे, पभासे / जंबुद्दीवे णं दीवे एरवए वासे कति तित्था पण्णता? गोयमा! तओ तित्था पण्णत्ता। तं जहामागहे, वरदामे, पभासे। जंबुद्दीवे णं दीवे महाविदेहे वासे एगमेगे चक्कवट्टिविजए कति तित्था पण्णत्ता? गोयमा ! तओ तित्था पण्णत्ता। तं जहामागहे, वरदामे, पभासे / एवामेव सपुव्वा-वरणेणं जंबुद्दीवे दीवे एगं वि उत्तरे तित्थसए भवतीति मक्खायं ति।। प्रश्नसूत्रे तीर्थानि चक्रिणां स्वस्वक्षेत्रसीमासु, साधनार्थ महाजलावतरणस्थानानि / उत्तरसूत्रे भरते त्रीणि तीर्थानि प्रज्ञप्तानि। तद्यथा-मागधं पूर्वस्यां गङ्गासङ्गमे समुद्रस्य, वरदाम दक्षिणस्यां प्रभास, पश्चिमायां सिन्धुसङ्गमे समुद्र-स्य, / एवमै-रावतसूत्रमपि भावनीयम् / नवरं नद्यौ चात्र रक्तारक्तवत्यौ, तयोः समुद्रसङ्गमे मागधप्रभासे वरदामाख्ये च तत्रत्यापेक्षया तथैव, विजयसूत्रे चायं विशेषः-विजयसत्का गङ्गादि 4 महानदीनां यथार्ह शीताशीतोदयोः संगमे मागधप्रभासाख्यानि भावनीयानि, वरदामाख्यानि तेषां मध्यगतानि भाव्यानि, एवमेव पूर्वापरमीलनेन एकं व्युत्तरं तीर्थशतं भवतीत्याख्यातमिति। जं०६ वक्ष०। स्था०। अथ श्रेणयःजंबूद्दीवे णं भंते ! दीवे के वइयाओ विजाहरसेढीओ, केवइयाओ आमिओगसेढीओपण्णत्ताओ? गोय-मा ! जंबुद्दीवे दीवे अट्ठसठ्ठी विजाहरसेढीओ, अट्ठसठ्ठी आभिओगसेढीओ पण्णत्ताओ। एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे छत्तीससेढीसए भवतीति मक्खायं / / प्रश्नसूत्रं व्यक्तम् / उत्तरसूत्रे गौतम ! जम्बूद्वीपे द्वीपे अष्टषष्टिविद्याधरश्रेणयः विद्याधरावासभूता वैताढ्यानां पूर्वापरोदध्यादिपरिच्छिन्ना आयतमेखला भवन्ति चतुस्त्रिशत्यपि वैताढ्येषु दक्षिणत उत्तरतश्च एकैकश्रेणिभावात्तथै-वांष्टषष्टिराभियोग्यश्रेणयः एवमेव पूर्वापरमीलनेन जम्बूद्वीपे द्वीपे षट्त्रिंशदधिक श्रेणिशतं भवतीत्याख्यातम्। अथ विजया:जंबुद्दीवे णं भंते ! दीवे केवइया चक्कवट्टिविजया, केवइआओ रायहाणीओ, के बइआओ तिमिसगुहाओ, के यइआओ खंडप्पवायगुहाओ, केवइया कयमालया देवा, के वइया णट्टमालया देवा, केवइया उसभकूडा पण्णत्ता ? गोयमा ! जंबूद्दीवे दीवे चोत्तीसं चक्कवट्टिविजया, चोत्तीसं रायहाणी ओ, चोत्तीसं तिमिसगुहाओ, चोत्तीसं खंडप्पवायगुहाओ, चोत्तीसं कयमालगा देवा, चोत्तीसं णट्टमालगा, देवा, चोत्तीसं उसभकूडा पव्वया पण्णत्ता।