________________ जंबूदीव 1373 - अभिधानराजेन्द्रः - भाग 4 जंबूदीव यमा ! चत्तारिदारा पण्णत्ता। तं जहा-विजये, वेजयंते, जयंते, अपराजिए। "जंबूद्दीवस्स णं भंते !" इत्यादि जम्बूद्वीपस्य, णमिति प्राग्वत्। भदन्त ! द्वीपस्य कति द्वाराणि प्रज्ञाप्तानि? भगवानाह गौतम! चत्वारि द्वाराणि प्रज्ञप्तानि / तद्यथा- विजयम्, वैजयन्तम्, जयन्तम्, अपराजितं वा / जी०३ प्रति०। (द्वारप्रतिबद्धविशेषवक्तव्यताऽपि 'दार' शब्देविलोकनीया) संप्रति जम्बूद्वीपमध्यवर्तिपदार्थानां संग्रहगाथामाहखंडा१जोयण र वासा 3, पव्वय 4 कूडा५य तित्थ६ सेढीओ 7 विजय हह ह सलिलाओ 10 अपिंडए होइ संगहणी / / 1 / / संग्रहवाक्यस्य संक्षिप्तत्वेन दुर्बोधत्वात् सूत्रकृदेव प्रश्नोत्तररीत्या विवृणोति जंबूदीवे णं भंते ! दीवे भरहप्पमाणमेत्तेहिं खंडेहिं केवइअं खंडगणिएणं पण्णत्ते ? गोयमा ! णउअखंडसयगणिएणं पण्णत्ते / जम्बूद्वीपो भदन्त ! द्वीपो भरतप्रमाणं षट्कलाधिकषबिंशतियोजनाधिकपञ्चशतयोजनानि तदेव मात्रा परिमाणं येषां तानि तथा एवंविधैः खण्डैः शकलैरित्येवंरूपेण खण्डगणितेन खण्डसंख्यया कियाम् प्रज्ञप्त? भगवानाह- गौतम ! नवत्यधिक खण्डशतं खण्डगणितेन प्रज्ञप्तः / कोऽर्थः ? भरतप्रमाणैः खण्डै: नवत्यधिकशतसंख्याकै मिलितैर्जम्बूद्वीपः संपूर्णः लक्षप्रमाणो भवति। अथथोजनेति द्वारसूत्रम्जंबूदीवे णं भंते ! दीवे केवइयं जोअणणगणिएणं पण्णत्ते ? गोयमा!"सत्तेव य कोडिसया, णउआ छप्पण्णसयसहस्साइं। चउणउइंच सहस्सा, सयं दिवढंच गणियपयं" ||1|| जम्बूद्वीपो भदन्त! द्वीपः कियान् योजनगणितेन समचतुरस्रयोजन प्रमाणखण्डः सर्वसंख्यया प्रज्ञप्तः ? भगवानाह- गौतम ! सप्तकोटिशतानि, एवोऽवधारणे / च उत्तरत्र संख्यासमुच्चयार्थः / नवतीति नवतिकोट्यधिकानि इति व्याख्येयं, प्रस्तावात्। अन्यथा कोटिशततो द्वितीयस्थाने सत्सु लक्षादिस्थानेषु नवदशकरूपा नवतिर्न युज्यते, गणितशास्त्रविरोधात् तथा षट्पञ्चाशचछतसहस्राणि, लक्षाणीत्यर्थः / चतुर्नवतिं च सहस्राणि शतं च व्यर्द्ध सार्द्ध पञ्चाशदधिकं योजनमित्येतावत्प्रमाणः जम्बूद्वीपस्य गणितपदं क्षेत्रमित्यर्थः। सूत्रे च योजनसंख्यायाः प्रक्रान्तत्वात्योजनावधिरेव संख्या निर्दिष्टा, अन्यत्र तु भगवतीवृत्त्यादौ साधिकत्वं विवक्षितम्। तचेदम् - "गाउअमेगं पणरस, धणुस्सया तह य धणूणि पण्णरस / सदिच अंगुलाई, जंबूद्दीवस्स गणियपया॥१॥" इति इयं च व्यक्तैव, करणं चात्र-"विक्खंभपायगुणिओ, अपरिरओतस्स गणिअपअं"। इति वचनात् जम्बूद्वीपपरिधिस्विलक्षषोडशसहसद्विशतसप्तविंशतियोजनादिको जम्बूद्वीपस्य विष्कम्भस्य लक्षरूपस्य पादेन चतुर्थाशन पञ्चविंशतिसहस्ररूपेणगुणितो जम्बूद्वीप-गणितपदमिति। तथाहि-जम्बूद्वीपपरिधिस्तिस्रो लक्षाः, षोडश सहस्राणि, द्वे शते सप्तविंशत्यधिके योजनाना, तथा गव्यूतत्रयम्, अष्टाविंशत्यधिकं शतं धनुषां त्रयोदशाङ्गुलानि एकं चाभ गुलं, यवादयस्तु श्रीजिनभद्रगणिक्षमाश्रमण-प्रणीतक्षेत्रविचारसूत्रवृत्त्यादौन विवक्षिता, अतो न तद्विवक्षा क्रियते / तत्र योजनराशौ पञ्चविंशतिसहस्रैर्गुणिते सप्तकोटीशतानि नवतिकोटयः षट्पञ्चाशल्लक्षाः पञ्चसप्ततिसहस्राणि भवन्ति, तथा क्रोशत्रये पञ्चविंशतिसहस्रगुणिते जातं पञ्चसप्तति सहस्राणि गव्यूतानाम्, एषांचयोजनानयनार्थ चतुर्भिर्भाग हृते लब्धान्यष्टादश सहस्राणि सप्तशतानि पञ्चाशदधिकानि योजनानाम्, अस्मिँश्च सहस्रादिके पूर्वराशौ प्रक्षिप्ते जातानि 63 सहस्राणि 7 शतानि 50 अधिकानि, कोट्यादिका संख्या तु सर्वत्र तथैव, तथा धनुषामष्टाविंशं शतं पञ्चविंशतिसहस्रैर्गुण्यते जाता द्वात्रिंशल्लक्षा धनुषाम् 320000, अष्टाभिश्च धनुःसहस्रैर्योजन भवति, ततो योजनानयनार्थमष्टाभिः सहस्रगिलब्धानि चत्वारि योजनशतानि, अस्मिँश्च पूर्वराशौ प्रक्षिप्ते जातानि 64 सहस्राणि, शतं पञ्चाशदधिकम्, अगुलान्यपि त्रयोदशपञ्चविंशतिसहीगुण्यन्ते, जातानि त्रीणि लक्षाणि पञ्चविंशतिसहस्राधिकानि अर्धाङ्गुलमपि पञ्चविंशति-सहरसैरभ्यस्यते, जातान्यर्द्धगुलानां पञ्चविंशति-सहस्राणि, तेषामद्धेलब्धान्यड्गुलानांद्वादश सहस्राणि पञ्चाशताधिकानि, तेषु पूर्वोक्ताङ्गुलराशौ प्रक्षिप्तेषु जातोऽङ्गुलराशिस्त्रीणि लक्षाणि सप्तत्रिंशत्सहस्राणि पञ्चा-शदधिकानि एषां धनुरानयनाय षण्णवत्या भागे हृते लब्धानि धनुषां पञ्चत्रिंशच्छतानि पञ्चदशाधिकानि, शेषं षष्टि-रगुलानि, अस्य धनूराशेर्गव्यूतानयभाय सहस्रद्वयेन भागे हृते लब्धमेकं गव्यूतं, शेषं धनुषां पञ्चदशशतानि पञ्चदशाधिकानि, सर्वाग्रेण जातमिदं योजनानां सप्त-कोटिशतानि नवति-कोट्यधिकानि षट्पञ्चाशल्लक्षाः चतुर्णवतिसहस्राणि शतमेकं पञ्चाशदधिकं,तथा गव्यूतमेकं धनुषां पञ्चदशशतानि पञ्चदशाधिकानि अङ्गुलानां षष्टिरिति / गतं योजनद्वारम्। ०६वक्षा अथवर्षाणिजम्बूदीवेणं भंते ! कति वासा पण्णत्ता? गोयमा! सत्त वासा। तंजहा-भरहे, एरवए, हेमवए, हेरण्णवए, हरिवासे, रम्मगवासे, महाविदेहे। भरतमैरावतं हैमवत् हिरण्यवत् हरिवर्षरम्यकवर्षे महाविदेहः / जं०६ वक्ष०ाज्यो। स्था०। (महाविदेह-क्षेत्रविभागीकरणे तुदश वर्षाणि) अथ पर्वतद्वारम्जंबूदीवे णं भंते ! दीवे केवइया वासहरा पव्वया पण्णत्ता ? केवइआ मंदरा पव्वया, केवइया चित्तकूडा, केवइया विचित्तकूडा, केवइया जमगपव्वया, केवइया कंचणगपव्वया, के वइया वक्खारा, केवइया दीहवेयड्डा, केवइया वट्टवेयड्ढा पण्णत्ता? गोयमा ! जंबूद्दीवे दीवे छ वासहरपव्वया, एगे मंदरपव्वए, एगे चित्तकूडे, एगे विचित्तकूडे, दो जमगपव्वया, दो कंचणगपव्वयसया, वीसं वक्खारपव्वया, चोत्तीसंदीहवेयड्डा, चत्तारि वट्टवेअड्डा, एवामेव सपुव्वावरेणं जंबूद्दीवे दीवे दुण्णिआ उणत्तरा पव्वयसया भवंतीति मक्खायं ति।