________________ जंबूदीव 1372 - अभिधानराजेन्द्रः - भाग 4 जंबूदीव न तमामन्त्र्य निर्वचनचतुष्टयीं भगवानाह- गौतमेत्यत्र दीर्घत्वमामन्त्रणप्रभवत्, तेन हे गौतम ! अयं, यत्र वयं वसामः / अनेन समयक्षेत्रबहिर्वर्तिनामसंख्येयानां जम्बू-द्वीपानां व्यवच्छेदः / जम्बूद्वीपो नाम द्वीपः / कथंभूत इत्याह- सर्वद्वीपानां धातकीखण्डादीनां सर्वसमुद्राणां लवणोदादीनां सर्वात्मना सामस्त्येन अभ्यन्तरः सकलतिर्यग्लोकमध्यवर्ती, सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः, स्वार्थेकः प्रत्ययः / अभ्यन्तरमानं धातकीखण्डोऽपि पुष्करवरद्वीपो-क्षयाऽस्ति, अतः सर्वशब्दोपादानमिति। अनेन जम्बूद्वीपस्या-वस्थानमुक्तम्।तथासर्वेभ्योऽपि शेषद्वीपसमुद्रेभ्यः क्षुल्लको लघुः। तथाहि-सर्वलवणादयः समुद्रा धातकीखण्डादयश्च द्वीपा जम्बूद्वीपादारभ्य द्विगुणद्विगुणविष्कम्भायामपरिधयः ततः शेषद्वीपसमुद्रापेक्षयाऽयं लघुरिति। दीर्घत्वं प्राकृत-त्वात् / अनेन सामान्यतः प्रमाणमभिहितं, विशेषस्त्वायामादिगतं प्रमाणमग्रे वक्ष्यति 2 / अत्र विशेषतः प्रमाणमवसरप्राप्तमपि यन्त्रोक्तं तत्सूत्रकाराणां विचित्रा प्रवृत्तिरिति / तथा वृत्तः, स च शुषिरवृत्तोऽपि स्यादत आह-तैलापूपसंस्यानसंस्थितः- तैलेन पक्वोऽपूपस्तैलापूपः, तैलेन हि पोऽपूपः प्रायः परिपूर्णवृत्तो भवति, न घृतपक्क इति तैलविशेषणं, तस्येव यत्संस्थानं तेन संस्थितः / अत्र तैलादित्वाल्लकारस्य द्वित्वम् / तथा वृत्तोरथचक्रवालसंस्थानसंस्थितः, रथस्यावयवे समुदायोपचारात् रथाङ्गस्य चक्रवालं मण्डलं तस्येव संस्थानेन संस्थितः / अथवा-चक्रवाल मण्डलं मण्डलत्वधर्मयोगाच रथचक्रमपिरथचक्रवालं, शेष प्राग्वत्। एवं वृत्तः पुष्करकर्णिकासंस्थानसंस्थितः, पुष्करकर्णिका पद्मबीजकोशः, कमलमध्यभाग इति यावत्। वृत्तः परिपूर्णचन्द्रसंस्थानसंस्थितः, प्राग्वत्पदद्वयं भावनीयम्। एकेनैव चरितार्थकत्वेऽपि नाना-देशजवियेयानां क्षयोपशमवैचित्र्यात्कस्यचित् किञ्चित् बोधकमित्युपमा-पदनानात्वम् / अत एव प्रत्युपमापदं योज्यमानत्वात् वृत्तपदस्य न पौनरुक्त्यशङ्काऽपि / एतेन संस्थानमुक्तम्। अथ सामान्यतः प्रागुक्तं प्रमाणं विशेषतो निर्वक्तु माह- एकं योजनशतससप्रमाणाङ्गुतानिष्पनं, योजनलक्षमित्यर्थः / आयामविष्कम्भेन, अत्र च समाहार-द्वन्द्वः, तेन क्लीबे एकवद्भावः, आयामविष्कम्भाभ्या-मित्यर्थः / / अत्राह परः जम्बूद्वीपस्य योजनलक्ष प्रमाणमुक्तं, तच पूर्वपश्चिमयोर्जगतीमूलविष्कम्भसत्कद्वादशद्वादशयोजनक्षेपे चतुर्विशन्यधिकं भवति, तथा यथोक्त मानं विरुध्यत इति न जम्बूद्वीपभगतीविष्कम्भेन सहैव लक्षं पूरणीयं, लवण-समुद्रजगतीविष्कम्भेन च लवणसमुद्रलक्षद्वयम् / एवमन्येष्वपि द्वीपसमुद्रेषु, अन्यथा समुद्रमानात् जगतीमानपृथग्भणने मनुष्यक्षेत्रपरिधिरतिरिक्तः स्यात् / स हि पञ्चचत्वारिंशल्ल-प्रमाणक्षेत्रापेक्षयाऽभिधीयते / अयमेवाशयः श्रीअभयदेवसूरिभिः चतुर्थाङ्ग वृत्तौ पञ्चपञ्चाशत्तमे समवाये प्रादुष्कृतोऽस्तीति, तथा त्रीणि योजनशतसहस्राणि षोडशशतसहस्राणि द्वे योजनशते सप्तविंशत्यधिके दयः क्रोशा अष्टाविंशमष्टाविंशत्याधिक धनुःशतं त्रयोदशाङ्गुलानि अ गुलंच किञ्चिद्विशेषाधिकमित्येतावान् परिक्षेपेण परिधिना प्रज्ञप्तः। अत्र सप्तविंशमष्टाविंशमित्यादिकाः शब्दाः / / 'अधिकं तत्संख्यमस्मिन् शतसहस्रे शतिशशान्ताया डः" // 7 / 1 / 154 / / इति (हैम) सूत्रेण डप्रत्यये, सप्तविंशत्याधिकमष्टविंशत्यधिक-मित्यर्थः / परिध्यानयनोपायस्त्वयं चूर्णिकारोक्तः"विक्खंभवग्गदहगुण-करणी वट्टस्स परिरओ होइ। विक्संभपायगुणिओ, परिरओ तस्स गणियपयं / / 1 / / " अत्र व्याख्या वृत्तस्य वृत्तक्षेत्रस्य च वो बिष्कम्भो विष्कम्भपरिमाणं तस्य वर्गो विधीयते, वर्गो नाम-तेनैव राशिना तस्य गुणनं, तथा चतुष्कस्य चतुष्केण गुणने षोडश चतुष्कस्य वर्गः / ततः (दहगुण त्ति) दशभिर्गुणनात्, ततः करणरीतिर्वर्गमूलानयनं, ततो वृत्तस्य परिरयः परिमाणं भवति, तथा तस्य वृत्तस्य परिरयो, विष्कम्भस्य पादेन चतुर्थोशन गुणितः सन् गणितपदं भवति।जम्बूद्वीपस्य विष्कम्भो व्यासः, स्थापना यथा-१००००० तद्वर्गः तद्गुणो वर्ग इति वचनाल्लक्षं लक्षण गुण्यते, जातम्-१००००००००००, सच दशगुणः क्रियते, शून्यानि 11, तदनु करणीति वर्गमूलमानीयते। तथाहि"विषमात्पदतस्त्यक्त्या, वर्गस्थानमुच्यते न मूलेन। द्विगुणेन भजेच्छेषं, लब्धं विनिवेशयेव्यक्तम्।।१।। तद्वर्गं संशोध्य, द्विगुणीकुर्वीत पूर्ववल्लब्धम्। उत्सार्य ततो विभजे-च्छेषं द्विगुणीकृतं च नयेत्' / / 2 / / इत्यनेन करणेनानीते वर्गमूले जातोऽधस्तनः छेदराशिः-६३२४४७ / अत्र सप्तकरूपोऽन्त्योऽङ्केन द्विगुणीकृत इति तद्वर्जशेषं सर्वमप्यर्ट्स क्रियते, लब्धं योजनानि 316 227, छेदराशिश्च सप्तकेऽपि द्विगुणीकृते जातः 632454, उपरि शेषांशाः 484471, एते च योजनस्थानीया इति क्रोशानयनाथ चतुर्गुणा जाताः 1637884, छेदराशिना भागे लब्ध क्रोशाः 3, शेषम् 40522 धनुरानयनाय द्विसहस्रगुणं जातम् ८१०४४०००,छेदराशिना भागे लब्धानि धपि 128, शेषम् 86885 षण्णवत्यङ्गुलमानधनुषोऽल्गुलानयनार्थ पण्णवतिगुणं जातम् 8626248, छेदेन भागे लब्धमङ्गुलानि 13, शेषम् 407346, अर्थ राशिः अर्धाइ गुलानयनाय दुगुणी क्रियते, जाता अष्टौ लक्षाः चतुर्दशसहस्राणि षट्शतानि द्विनवत्यधिकानि८१४६६२छेदराशिः, स एकलब्धमेकमर्धाङ्गुलम्। अत्र व्याख्यातो विशेषप्रतिपत्तिरितिन्यायात यवादिकमप्यानीयते / तथाहि-ते ह्यड्गुलाशा अष्टभिर्यवैरङगुलमिति अष्टभिर्गुण्यन्ते जाताः 3258768 छेदः स एव, लब्धाः यवाः 5, ततोऽप्यष्टगुणेन यूकादयः स्युः तत्र यूका 1, एतत् सर्वभप्य‘गुलस्य किञ्चि-दिशेषाधिकत्वकथनेन सूत्रकारेणापि सामान्यतः संगृहीतमिति बोध्यम् / गणितपदं तत्करणं च सोदाहरणमग्रेभावयिष्यते इति। ज०१ वक्ष०जी० अथाकारभावप्रत्यवतारविषयकप्रश्नं निर्वक्तुमाहसे णं एगाए वइरामईए जगईए सवओ समंता संपरिक्खित्ते। (से णं एगाए त्ति) सोऽनन्तरोदितायामविष्कम्भ परिक्षेपपरिमाणो जम्बूद्वीपः णमिति पूर्ववत्, एकया एकसङ्ख्यया अद्वितीयया, वज्रमय्या वजरत्नात्मिकया, जगत्या जम्बूद्वीपप्रकाररूपया द्वीपसमुद्रसीमारिण्या महानगरप्राकार-कल्पया, सर्वतो दिक्षु समन्तादिक्षु संपरिक्षिप्तः सम्यग् वेष्टितः / प्राकृतत्वाद्दीर्घत्वं वज्रशब्दस्य। जं०१ वक्ष०। जी० / भ० / (जगतीप्रतिवद्धविशेष-वक्तव्यता तु 'जगई' शब्देऽत्रैव भागेऽग्रे दर्शयिष्यते) संप्रति जम्बूद्वीपस्य द्वारप्ररूपणार्थमाहजंबूदीवस्स णं भंते ! दीवस्स कइ दारा पण्णत्ता ? गो