________________ णमोकार 1840- अभिधानराजेन्द्रः भाग - 4 णमोक्कार दर्शयन्नाह-' इंदिय इत्यादि चतस्रो गाथाः, एता अपि तथैव। इदानीममोघताख्यापनार्थमपान्तरालिकं नमस्कारफलमुप दर्शयतिअरहंतनमोकारो, जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो, होइ पुणो बोहिलाभाए। 3006 || इह नामस्थापनाद्रव्यभावलक्षणनमस्कारश्चतुर्विधो गृहीतः, तत्राईच्छब्देन बुद्धिस्था अर्हदाकारवती स्थापना गृह्यते, तस्या नमस्कारः स्थापनानमस्कार इति व्युत्पत्त्या स्थापनानमस्कारः संगहीतः / (नमोकारो त्ति) इत्यनेन नामनमस्कारः / (कीरमाणे त्ति) अञ्जलिप्रग्रहाऽऽदिना क्रियमाण इत्यनेन द्रव्यनमस्कारः। (भावेण त्ति) अनेन तु भावनमस्कार इति / तत्रार्हन्नमस्कारः क्रियमाणो जीव मोचयति भवसहसात प्रस्तावादनन्तभवेभ्य इत्यर्थः। अनन्तभवमोचनाच मोक्ष प्रापयतीत्युक्तं भवति / यद्यपि च कांश्चितद्- भव एव मोक्ष न प्रापयति तथाऽपि भावेनोपयोगविशेषण क्रियमाणो भावनाविशेषत एवान्यस्मिन्नपि जन्मनि पुनरपि बोधिलाभाय भवति / बोधिलाभश्च निश्चितोऽचिरान्मोक्षहेतुरिति / एवं बाह्याभ्यन्तरेण नामाऽऽदिचतुर्विधविधानेन नमस्कारः क्रियमाणो जीवं भवाद् मोचयति, पुनर्वाधिबीज च जायते / / इति नियुक्तिगाथार्थः / / 3006 // अत्र भाष्यम्अरहंताऽऽगारवई, ठवणा नाम मयं नमोकारो। भावेणं ति य भावो, दव्वं पुण कीरमाणो त्ति / / 3010 / / इय नामाऽऽइचउव्विह-बज्झऽभंतरविहाणकरणाओ। सो मोएइ भवाओ, होइ पुणो बोहिवीयं च // 3011 / / गतार्थे / / 301013011 // तथा चाऽऽहअरहंतनमोक्कारो, धन्नाण भवक्खयं करंताणं / हिययं अणुम्मुयंतो, विसोत्तियावारओ होइ।। 3012 / / धनं ज्ञानदर्शनचारित्रलक्षणमहन्तीतिधन्याः साध्यादयः, तेषां भवक्षयं तद्भवजीवितक्षपणं कुर्वतां यावज्जीवं हृदयमनुन्मुश्चन् विस्रोतिकाया विमार्गगमनस्यापध्यानस्य चाऽऽवारकोऽर्हन्नमस्कारो भवति / इति नियुक्तिगाथार्थः / / 3012 / / / भाष्यमधन्ना नाणाऽऽइधणा, परित्तसंसारिणो पयणुकम्मा। भवजीवियं पुणभवो, तस्सेह खयं करिताणं / / 3013 / / इह विस्सोओगमणं, चित्तस्स विसोत्तिया अवज्झाणं / अरहंतनमोकारो, हिययगओ तं निवारेइ / / 3014 / / गतार्थे / 3013 / 3014 / / अथार्हन्नमस्कारस्यैव महाऽर्थता दर्शयतिअरहंतनमोकारो, एवं खलु वण्णिओ महत्थो त्ति। जो मरणम्मि उवग्गे, अभिक्खण कीरई बहुसो।। 3015 / / अर्हन्नमस्कार एवं खलु वर्णितो महार्थ इति महान् अर्थो यस्य स महार्थोऽल्पाक्षरोऽपि द्वादशाङ्गार्थग्राहित्वान्महार्थः / कथं पुनरेतदेवम् ? इत्याह-यो नमस्कारो मरणे प्राणोपरमलक्षणे उपाग्रे समीपभूते / अभीक्ष्णमनवरतं क्रियते बहुशोऽनेकशः। ततश्च महत्यामापदि द्वादशाङ्गी मुक्त्वा तत्स्थानेऽनुस्मरणान्महार्थः // इति नियुक्तिगाथार्थः / / 3015 // कथं पुनदिशाङ्गार्थो नमस्कारः ? इत्याशङ्कय युक्तिमाह भाष्यकार:जलणाऽऽइभए सेसं, मोत्तुं पगरणयं महामोल्लं / जुधि वाऽतिभए घेप्पइ, अमोहमत्थं जह तहेह / / 3016 / / मोत्तुं पि वारसंगं, मरणाऽऽइभएसु कीरए जम्हा। अरहंतनमोकारो, तम्हा सो वारसंगत्थो / / 3017 / / सव्यं पि वारसंगं, परिणामविसुद्धिहेउमित्तागं। तक्कारणभावाओ, कह न तयत्थो नमोकारो? || 3018 / / न हु तम्मि देसकाले, सक्को वारसविहो सुयक्खंधो। सव्वो अणुचिंतेचं, धंतं पि समत्थचिंतेणं / / 3016 / / चतस्रोऽपि सुगमाः, नवरं (देसकाले त्ति) देशः प्रस्तावः, तद्रूपः कालो देशकालः, तस्मिन्मरणलक्षणे देशकाल इति / (धतं पि त्ति) धनितमत्यर्थमिति / / 3016 / 3017 / 3018 / 3016 / / एकस्मिन्नपि यत्र वीतरागोक्त पदे सति जीवः संवेगं गच्छति, येन च पदेन विरागत्वं भवति निर्वेदमुपैति, तत्तस्यैकमपि पदं समस्तमोहजालोच्छेदहेतुत्वात्संपूर्णद्वादशाङ्गरूपं ज्ञानमेव भवति, तत्कार्यकर्तृत्वात् , किं पुनरनेकपदाऽऽत्मको नमस्कार सम्पूर्ण द्वादशाङ्गज्ञान न भविष्यति ? इत्यनया भङ्ग्या नमस्कारस्य द्वादशाङ्गरूपता साधयन्नाहएगम्मि वि जम्मि पए, संवेगं कुणइ वीयरायमए। तं तस्स होइ नाणं, जेण विरागत्तणमुवेइ // 3020 / / एगम्मि वि जम्मि पए, संवेगं कुणइ वीयरागमए। सो तेण मोहजालं, छिंदइ अज्झप्पओगेणं / / 3021 / / ववहाराओ मरणे, तं पयमेकं मयं नमोक्कारो। अन्नं पि निच्छयाओ, तं चेव य वारसंगत्थो / / 3022 / / गतार्था एव, नवरं किं पुनःप्रस्तुते तदेकं पदम् ? इत्याह-"व-वहाराओ '' इत्यादि। यथा लोकव्यवहारे' साम्प्रतमल्पस्तन्दुलः, प्रचुरो गोधूमः, संपन्नो यवः, "इत्यादावनेकमप्येकमुच्यते,तथा मरणसमये क्रियमाणः " पंच नमोकारो "अनेक पदाऽऽत्मकोऽपि व्यवहारत एक पदमत्राभिमतः / निश्चयनयमतेन तदन्यदपि सुबन्तं तिङन्तं वा लघ्वपि यत्संवेगकरं निर्जराफलं पदं तदेतद्वादशाङ्गार्थ इति / / 3020 / 3021 / 3022 // यदुक्तं नियुक्तिकृता-' अभिक्खणं कीरई बहुसो ' / (3015) इति। तत्र किं कारणम् ? इत्याशङ्कयाऽऽहजं सोऽतिनिज्जरत्थो, विंडयत्थो वन्निओ महत्थो वि। कीरइ निरंतरमभि-क्खणं तु बहुसो बहू वारा / / 3023 / / यद् यस्मादसौ नमस्कारोऽतिनिर्जरार्थःयय, तथा द्वादशाङ्गगणिपिटकार्थो महार्थश्वोक्तप्रकारेण वर्णितः, तस्मादभीक्ष्णं निरन्तरं बहुशो बह्ववो वाराः क्रियते // इति गाथाऽष्टकार्थः।। 3023 // अथ नियुक्तिकृदुपसंहरन्नाहअरहंतनमोकारो, सव्वपावप्पणासणो।