________________ गमोक्कार 1836 - अभिधानराजेन्द्रः भाग - 4 णमोकार अथवा-अयं सम्यग्दर्शनचारित्रलक्षणो मार्गो यथेप्सितपुरस्य मोक्षनगरस्य सन्मार्ग इत्येवं सिद्धेभ्य एव सिद्धो निश्चितः, नान्यस्मात्। कुतः? इत्याह-(गंतुरणासाओ त्ति) मोक्षपुरं गन्तर्मुमुक्षोरपायाभावतोऽनाशादविप्रणाशात् / तदनाशे च सन्मार्गोऽयं सम्यग्दर्शनाऽऽदिको मोक्षपुरस्य मार्ग इत्येवं मुमुक्षूणां प्रत्ययोत्पादात् / तदभावे तु सिद्धविप्रणाशे कुतोऽयं प्रत्ययः स्यात् ? न कुतश्चिदित्यर्थः / इदमत्र हृदयम्यथा पाटलिपुत्राऽऽदिनगरमार्गः कश्चिद्द्यथेप्सितपुरं गन्तुः सार्थवाहस्य निरपायगमनेनाविप्रणाशात्सन्मार्गोऽयमिति निश्चीयते, एवं सम्यग्दर्शनाऽऽदिको मोक्षपुरमार्गोऽपि तदभीष्ट मोक्षपुरं गन्तुर्भव्यजन्तुसार्थस्य निरपायगमनेनाविप्रणाशात्सन्मार्गोऽयमिति निश्चीयते / अत एवंभूतनिश्यजनकत्वान्मार्गोपकारिणः सिद्धाः, ततः पूज्या इति / / 2653 / / / अपिचमग्गम्मि रुईतदवि-प्पणासओ तप्फलोवलंभाओ। जं नायइ तेहिंतो, नेयरहा तदुवगारो से / / 2654 / / यद्यस्मात्सम्यग्दर्शनाऽऽदिको मोक्षमार्गो यथावदयमित्येव रुचिः प्रीतिर्जायते उत्पद्यते भव्यजन्तूनां (तेहिंतो त्ति) तेभ्यः सिद्धेभ्य एव, नेतरथा नाऽन्यथा / कुतः ? इत्याह-तदविप्रणाशात्-तेषां सिद्धानां शाश्वतभावोपगमात्; तथा-तत्फलोपलम्भात्-तेषामेव सिद्धानां शाश्वतानुपमसुखलक्षणस्यफलस्योपलम्भात्। ततस्तदुपकारोऽसौ मार्गे रुच्याविर्भावलक्षणः सिद्धकृतोऽसाधुपकार इति / / 2654 / / अत्र परमतमाशक्य परिहरन्नाहनणु जिणवयणाउ चिय, तदत्थिया तप्फलोवलंभो य। सचं तहा वि तप्फल-सब्भावाओ रुई होइ।। 2655 / / ननु जिनवचनाजिनोपदेशादेव, तदर्थिता तत्र मार्गे रुचिलक्षणाऽर्थिता, तस्य मार्गस्य यत्फल सिद्धिसुखलक्षणं तदुपलम्भश्च सर्वमिदं जायते, तत्किमविप्रणाशहेतूपन्यासेन ? सत्यम्। तथाऽपि तस्य मार्गस्य यत्फलं सिद्धत्वप्राप्तिलक्षणं तस्य सद्भावादविप्रणाशाच्छाश्वतभावाद्विशेषिततरा मार्गे रुचिर्भवति इति / अतो वक्तव्य एव सिद्धानामविप्रणाशलक्षणो हेतुरिति॥ 2655 // पुनरपि परमतमाशड्क्य परिहरन्नाहअप्प चिय सिवमग्गो, निच्छयओ तह रुई समत्तं ति। मग्गोवयारिणो जह, जिणा तहाखीणसंसारा॥२९५६।। ननु" दुप्पत्थिओ अमित्तं, अप्पा सुप्पत्थिओ हवइ मित्तं। " इत्यादिवचनान्निश्चयतो निश्चयनयमतेनाऽऽत्मैव शिवमार्गो मोक्षमार्गः, तथारुचिश्च सम्यक्त्वमात्मैव नापर इति, अतः किमत्र बाह्येनाविप्रणाशहेतुनोपन्यस्तेन ? सत्यम्। तथाऽपि व्यवहारनयमतेन यथामार्गोपदेशनाजिनास्तीर्थकरा मार्गोपकारिण उच्यन्ते, तथा क्षीणसंसारा अपि सिद्धा अविप्रणाशेन मार्गोपकारिणोऽभिधीयन्त इति न दोषः / / 2656 // अथाऽऽचार्याणामुपाध्यायानां च नमस्कारार्ह हेतुत्वं व्याचिख्यासुराह - आयारदेसणाओ, पुज्जा परमोवगारिणो गुरवो। विणयाऽऽइगाहणावा, उवझाया सुत्तदा जं च / / 2657 / / पूज्याः परमोपकारिणो गुरवः, स्वयमाचारपरत्वात् , परेभ्यश्चाऽऽचारदेशनादिति / तथा-पूज्या उपाध्यायाः, स्वयं विनयवत्त्वात् , शिष्याणा च विनयग्राहणाद्विनयशिक्षणात् / यतश्च सूत्रपाठदास्ते, अतोऽपि पूज्या इति / / 2657 // अथ साधनां पूज्याहत्वकारणम्, तथा-पश्चानामप्य दादीना सामान्य तत्कारणमुपदर्शयन्नाहआयारविणयसाहण-साहजं साहओ जओ दिति। तो पुजा ते पंच वि, तग्गुणपूयाफलनिमित्तं / / 2658 // ततः साधवः पूज्याः; यतः किम् ? इत्याह-(आयार इत्यादि) आचारवत्वाद, विनयवत्त्वाद् , मोक्षसाधने साहाय्यदानात्पूज्यास्ते इति भावार्थः / तथा-सामान्येन पञ्चाप्यर्हदादयः पूज्याः, तद्- गुणानां ज्ञानाऽऽदीना या पूजा, तस्या यत्फलं स्वर्गापवर्गाऽऽदिकं. तन्निमित्त ते भवन्तीति कृत्वा, तद्गुणपूजाफलनिमित्तत्वादित्यर्थः / इति चतुर्दशगाथार्थः / / 2658 // एवं तावत्समासेनार्हदादीनां नमस्कारार्हत्व-द्वारेण मार्गदेशकत्वाऽऽदयो गुणाः उक्ताः / साम्प्रतं संसाराटवीमार्गदेशकत्वभवसमुद्रनिर्यामकत्वषविधजीवनिकावगोपनत्वप्ररूपणाऽऽदिना प्रपञ्चेनहितां गुणानुपदर्श यन्नाहअडवीरें देसयत्तं, तहेव निजामया समुद्दम्मि। छक्कायरक्खणट्ठा, महगोवा तेण वुचंति / / 2656 / / भवाटव्या देशकत्वं मार्गोपदेशकत्वं कृतमर्हद्भिः, तथैव निर्यामकाः संसारसमुद्रे भगवन्त एव, षट्कायरक्षणार्थ यतः प्रयत्नं चकुर्महागोपास्तेनोच्यन्ते // इति नियुक्तिगाथासंक्षेपार्थः / / 2656 / / अथ "जह निव्वुहपुरमग " इत्यादिका विस्तरार्थप्रतिपादनपराः सप्तदश गाथाः सुगमाः / सति वैषम्ये मूलाऽऽवश्यकटीकाऽनुसारतो भावनीया इति न प्रतिपादिताः। तदेवमुक्तप्रकारेणार्हतां नमस्कारार्हत्वे हेतवो गुणाः प्रतिपादिताः, साम्प्रतं तु प्रकारान्तरेण तद्धे तुभूतानेव गुणान् प्रतिपादयन्नाहरागद्दोसकसाए, य इंदियाणि य पंच वि परीसहे। उवसग्गे नामयंता, नमोऽरिहा तेण वुच्चंति / / 2960 // रागद्वेषकषायान् इन्द्रियाणि च पञ्चाऽपि परीषहान् , उपसन्निमयन्तोऽर्हन्तो नमोऽर्हाः / इति नियुक्तिगाथासंक्षेपार्थः // 2660 // (एतद्व्याख्यानरूपं भाष्यं तु नेह प्रपश्चितं विस्तरभयात् , किन्तु रागद्वेषाऽऽदिशब्देषु यथास्थानेषुद्रष्टव्यम्) अथ' नामयता नमोऽरिहा" (2660) इत्येतद् व्याचि ख्यासुराहपहवीकरणं नामणमहवा नासणमओ जहाजोगं। नेयं रागाऽऽईणं, तन्नामाओ नमोअरिहा / / 3008 / / रागाऽऽदीनां प्रहीकरणं वश्यभावाऽऽपादनं नमनमुच्यते, मूलतो नाशनं वा / अतो रागाऽऽदीनामेवंविधं नमनं यथायोगं यथाघटमानकं ज्ञेयम्। तन्नामनाच नमो नमस्कारस्याए अर्हन्त इति / / 3008 || साम्प्रतं प्राकृतशैल्या अनेकधार्हच्छन्दनिरुक्त संभव इति