________________ णमोकार 1838 - अभिधानराजेन्द्रः भाग - 4 णमोकार प्राप्य प्राणिन आचारस्य विज्ञातारोऽनुष्ठातारश्च भवन्तीति। (विण-यय त्ति) उपाध्यायानां तु नमस्कारार्हत्वे विनयता विनयो हेतुः, यतस्तान् स्वयं विनीतान प्राप्य कर्मविनयनसमर्थस्य ज्ञानाऽऽदिविनयस्यानुष्ठातारो भवन्ति। (सहायत्तं ति) साधूना तु नमस्काराऽहत्व सहायत्वं हेतुः, यतस्ते सिद्धिवधूसङ्गमैकलालसानां जन्तूनां तदवाप्तिक्रियासाहाय्यमनुतिष्ठन्तीति। अत एवाऽऽहपञ्चविध नमस्कार करोम्येभिर्हेतुभिरिति नियुक्तिगाथासंक्षेपार्थः / / 2644 // विस्तरार्थं त्वभिधित्सुर्भाष्यकारः प्राऽऽहमग्गोवएसणाओ, अरिहंता हेयओ हि मोक्खस्स। तब्भावे भावाओ, तयभावेऽभावओ तस्स / / 2645 / / अर्हन्तो यस्माद् मोक्षहेतवस्तस्मात् पूज्या इति प्रक्रमः / सम्यग्दर्शनाऽऽदेस्तन्मार्गस्योपदेशनादिति हेतुः। श्रुतज्ञानवदिति दृष्टान्तः स्वयं द्रष्टव्यः / यदि नाम ते तन्मार्गमुपदिशन्ति तथाऽपि कथं मोक्षहेतवः ? इत्याह-(तत्भावे इत्यादि) तस्य सम्यग्दर्शनाऽऽदिमार्गस्य भावे भावात्, तदभावे चाभावात् तस्य मोक्षस्येति // 2645 / / यद्येवं, तर्हि सम्यग्दर्शनाऽऽदिमार्ग एव मोक्षहेतुः, तदन्वयव्यतिरेकानुविधायित्वात् तस्य, ये तु तदुपदेशकत्वेन तस्य मार्गस्य हेतवोऽर्हन्तस्ते कथं मोक्षहेतवो न युक्ताः ? इत्येतत्प्रेर्यमाशक्य परिहरन्नाहमग्गो चिय सिवहेऊ, जुत्तो तद्धेयओ कहं जुत्ता? तदहीणत्तणओऽहव, कारण कजोवयाराओ / / 2646 / / प्रेरकोपन्यस्तपूर्वार्द्धमुक्तार्थमेव। उत्तरमाह-(तदहीणत्तणओ इत्यादि) सत्यम, मार्ग एव मोक्षहेतुः, केवलमर्हन्तोऽपि तद्धेतवएव, तस्यापि मार्गस्य तदुपदेशज्ञेयत्वेन तदधीनत्वादिति / अथवा- मोक्षहेतवोऽर्हन्तः, कारणेऽहल्लक्षणे मार्गलक्षणकार्यधर्मस्य मोक्षहेतुत्वस्योपचारादध्यारोपादिति // 2646 // आह-नन्वेतावता मार्गस्योपदेशकत्वेनोपकारिणोऽर्हन्तस्ततो मार्गजन्यस्य मोक्षस्य तेऽपि हेतवोऽभिधीयन्त एव इत्युक्तम् , एवं चातिप्रस डाकथम्? इत्याहमग्गोवयारिणो जइ, पुजा गिहिणो वि तो तदुवगारी। तस्साहणदाणाओ, सव्वं पुजं परंपरया।। 2647 // (तस्साहणदाणाओ क्ति) तस्य मार्गस्य साधनानि यानि वस्त्रपात्राऽऽहारशय्याऽऽसनाऽऽदीनि तद्दानामिति। शेष सुगमम्।। 2647 // | अनोत्तरमाहजं पचासन्नतरं, कारणमेगंतियं च नाणाई। मग्गो तदायारो, सुयं च मग्गो त्ति ते पुजा / / 2648 / / सत्यपि विश्वत्रयस्य परम्परया मार्गोपकारित्वे यत्प्रत्यासन्नतरमैकान्तिकं च मोक्षस्य कारणं ज्ञानाऽऽदित्रय मोक्षस्य मार्ग इति, तस्य दातारस्तावदर्हन्त एव, नतु गृहस्थाः, नापि वस्त्राऽऽहारशय्याऽऽसनाऽऽदीनि तत्साधनानि. तेषामर्हद्भ्यो लब्धस्य ज्ञानाऽऽदित्रयस्योपकारित्वमात्र एव वर्तनादिति / स्वयमपि च मोक्षस्य मार्गोऽर्हन्तः, दर्शनमात्रेणैव भव्यजन्तूनां तत्प्राप्तिहेतुत्वात, अतो ज्ञानाऽऽदिमार्गदातृत्वात् , स्वयमपि च मार्गत्वात्तेऽर्हन्त एव पूज्याः, न तु गृहस्थाऽऽदयः, इति नातिप्रसङ्गः॥ 2648 // एतदेवाऽऽहभत्ताई-वज्झयरो, हेऊ न य नियमओ सिवस्सेव। तद्दायारो गिहिणो, सयं न मग्गो त्ति नो पुज्जा / / 2646 || भक्तपानवस्वाऽऽदिभिर्बाह्यतरो दूरवर्ती परम्परया मोक्षस्य हेतुः / न च ज्ञानाऽऽदित्रयवदसावेव नियमतः शिवस्य मोक्षस्य हेतुः, तमन्तरेणाऽप्यन्तकृत्केवल्यादीनां सिद्धेः / अतस्तस्य बाह्यतरानैकान्तिकहेतोभक्तपानाऽऽदेतारः, तहातारो गृहिणो न पूज्याः, अर्हतामिव तेषामन्तरङ्गैकान्तिकमोक्षहेतुज्ञानाऽऽदित्रयदातृत्वाभावादिति / न च तेऽर्हन्त इव स्वयं मोक्षमार्गः, तद्दर्शनाऽऽदिना मुक्त्यनवाप्तेः, इत्यतोऽपि न ते पूज्या इति / / 2646 / / अथाविप्रणाशलक्षणं सिद्धनमस्कारार्हत्वे हेतुं व्याचिख्यासुराहमग्गेणाणेण सिवं, पत्ता सिद्धा जमविप्पणासेणं / तेण कयत्थत्तणओ, ते पुजा गुणमया जं च / / 2650 / / यद्यस्मात्सिद्धाः संप्राप्तनिर्वाणसुखा अनेन मार्गेण ज्ञानदर्शनचारित्रलक्षणेन शिवं मोक्ष प्राप्ताः / कथम् ? अविप्रणाशेनानुच्छिअसन्तानभावेन, तस्मात्कृतार्थत्वात्ते पूज्याः / अत्र प्रयोगःपूज्याः सिद्धाः, अविप्रणाशबुद्धिजनकत्वेन मार्गोपकारित्वात् , जिनेन्द्रवदिति / (गुणमया जं च त्ति) इतश्च ते पूज्या ज्ञानाऽऽदिगुणसमूहाऽऽत्मकत्वात् , जिनाऽऽचार्याऽऽदिवदिति // 2650 / / अत्र प्रेरकः प्राऽऽहगुणपूयामेत्ताओ, फलं ति तप्पूयणं पवजामो। जं पुण जिणु व मग्गो-दयारिणो ते तयं कत्तो ? // 2651 // गुणानां सम्यग्ज्ञानाऽऽदीनां पूजामात्रतोऽपि फलं विशिष्टं स्वर्गापवर्गाऽऽदिकमस्तीति तत्पूजनं तेषां गुणवतां सिद्धानां पूजनं प्रतिपद्यामहे / यत्पुनरुच्यते-'जिनवत्ते सिद्धा अपि मार्गोपकारिणः ' इति, तत्तेषां सिद्धानां कुतः ? न मन्यामहे एतदित्यर्थः, इह तेषामभावात् , असतश्वोपकारायोगदित्यभिप्रायः // 2651 // अत्रोत्तरमाहजइ तगुणपूयाओ, फलं पवन्नं नणूवगारो सो। तेहिंतो तदभावे, का पूया किं फलं वा से ? / / 2652 / / यदि तद्गुणपूजातो गुणवत्सिद्धगुणपूजनात्फलमस्तीति त्वया प्रतिपन्न, तर्हि नन्वसावेव तेभ्यः सिद्धेभ्य उपकारस्त्वयाऽपि प्रतिपन्नः, अन्यथा तदभावे सिद्धाभावे का तेषां पूजा, किंवा' से 'तस्य पूजकस्य फलम् ? एवं च सति निर्वतावविप्रणाशबुद्धिरपि सिद्धाभावे भवतीत्ययमुपकारस्तेभ्यः किं नेष्यते ? इति॥२६५सा अथवा " अविप्रणाशबुद्धिहेतुत्वान्मार्गोपकारिणः सिद्धाः " इत्ययमर्थोऽन्यथाऽपि साध्यते। कथम् ? इत्याहगंतुरणासाओवा, सम्मग्गोऽयं जहिच्छियपुरस्स। सिद्धो सिद्धेहिंतो, तदभावे पच्चओ कत्तो ? || 2653 //