________________ णमोकार 1537 - अभिधानराजेन्द्रः भाग - 4 णमोक्कार तहा वि अचंतसुमहत्थाइसयं ति इमं महानिसीहसुयक्खंध कसिणपवयणस्स परमसारभूयं परं तत्तं महत्थं ति कलिऊण पवयणवच्छलत्तणेणं बहुभव्वसत्तोवयारयं च काउं तहा य आयहियद्वयाए आयरियहरिभद्देणं जंतत्थायरिसे दिट्ट.तं सव्यं समतीए सोहिऊणं लिहिअं ति अन्नेहिं पि सिद्धसेणदिवायरवुड्डवाइजक्खसेणदेवगुत्तजसवद्धणखमासमणसीसरविगुत्तनेमिचंदजिणदासगणिखवगसच्चसिरिपमुहे हि जुगप्पहाणसुयहरेहिं बहु मन्नियमिणं ति।" (महा० 3 अ०) अन्यत्र तु संप्रति वर्तमानाऽऽगमः, तत्र मयं न कुत्राऽप्येवं नवपदाऽष्टसंपदादिप्रमाणो नवकार उक्तो दृश्यते। यतो भगवत्यादावं पञ्चपदान्युक्तानि-" नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, णमो बंभीए लिवीए" इत्यादि। क्वचिद्-" नमो लोए सव्वसाहूणं " इति पाठ इति / तद्वृत्तिप्रत्याख्यानपारणाप्रस्तावे चूर्णावित्युक्तम्-" नमो अरिहताणं 5 " भणित्वा पारयति / नवकारनियुक्तिचूर्णा त्वेवमुक्तम्-"सो नमुक्कारो कमा पयाणि छ वा, दस वा। तत्थ छप्पयाणि नमो 1 अरिहंत 2 सिद्ध 3 आयरिय 4 उवज्झाय 5 साहूणं 6 ति। दश त्वेवम्-" अरिहंताण नमो 3 सिद्धाण 4' इत्यादि / यत्पुननमस्कारनियुक्तावशीतिपदमाना विंशतिगाथाः सन्ति / यथा-" अरिहंतनमुक्कारो, जीवं मोएइ भवसहस्साओ।" (357) इत्यादयस्ता नवकारमाहात्म्यप्रतिपादका न पुनर्नवकाररूपं भवितुमर्हन्ति, बहुपदत्वात् तासाम् , नवकारस्य तु नवपदाऽऽत्मकत्वात्। किश्चतास्वपि गाथासु वर्षशतात् तवयाच पूर्वपूर्वतरप्रतिषु " हवइ '' इति पाठो दृश्यते / श्रीमलयगिरिणाऽप्यावश्यकवृत्तिं कुर्वता वृत्तिमध्ये ता गाथा" हवइ' इति पाठत एव लिखिताः एतन्निश्चयार्थिना तवृत्तिनिरीक्षणीया; इति परमार्थ ज्ञात्वा कदाग्रहाभिनिर्वशाऽऽदिविलसितकल्पितमागमानुक्त' होइ " इति मुक्त्वा साक्षात्परमागतसूत्रान्तर्गतं श्रीवजस्वामिप्रभृतिदशपूर्वधराऽऽदिबहुश्रुतसंविग्नसुविहितव्याख्यातमादृतं" हवइ "त्ति पाठतोऽष्टषष्टिवर्णप्रमाणं परिपूर्ण नवकारसूत्रमध्येतव्यम्। तचैवम्'' नमो अरिहंताण 1, नमो सिद्धाणं 2, नमो आयरियाणं 3, नमो उवज्झायाणं 4, नमो लोए सव्वसाहूणं 5 / एसो पंचनमुक्कारो 6, सव्वपावप्पणासणो ७।मंगलाणं च सव्वेसिं८, पढम हवइ मंगलंह। 1 // अस्य च व्याख्यानं यदेव श्रीवज्रस्वाम्यादिभिः छेदग्रन्थाऽऽदिमध्ये लिखितं, तदेव भक्तिबहुमानातिशयतो विशेषतश्च भव्यसत्त्वोपकारकमिति दर्श्यते। तथाहि-" से भयवं! किमेयस्स अचिंतचिंतामणिकप्पभूयस्स णं पंचमंगलमहासुयक्रोधस्स सुत्तत्थं पण्णत्तं / तं जहा-जे णं एस पंचमंगलमहासुयक्खंधे सेणं सयलागमंतरोववत्ती तिलतेल्लकमलमयरंदसव्वलोयपंचत्थिकायमिव जहत्थकिरियाऽणुरावसंभूयगुणकित्तणे जहिच्छिए य फलप्पसाहगे चेव परमत्थुइवाए। सा य परमत्थुई केसि कायव्वा ? सव्वजगुत्तमाणं / सव्वजगुत्तमुत्तमे य जे केइ भूए, जे केइ भवंति, जे केइ भविस्संति, ते सव्वे चेव अरिहंतादओ चेव नो णमन्नेसिं। ते य पंचहाअरिहंते 1, सिद्धे 2, आयरिए 3. उवज्झाए 4, साहुणो 5 / तत्थ एएसिं चेव गब्भत्थसब्भावो इमो। सं जहा-सनरामरासुररस णं सव्वस्सेव जगस्स अट्ठमहापाडिहेराइपूयाइसओवलविखयं अणनसरिसमर्चितमप्पमेयकेवलाहिद्वियं पवस्त्तमत्तं / (महा०३ अ०)" अरिहंति वंदणनमंसणाणि अरिहंति पूयसक्कार। सिद्धिगमणं च अरिहा, अरिहंता तेण वुञ्चति " || 1 // (आ० म० द्वि०) सङ्घा० 1 अधि० 3 प्रस्ता०। (6) वस्तुद्वारम्अथ यदुक्तम्-" वत्थुतरहंताऽऽई, पंच भवे तेसिमो हेऊ।" (2624) इति तदेतत्प्ररूपणायामसमर्थितायामन्तराले प्रागुपन्यस्तत्वात्सान्यासिकं कृतमासीत् / तत्रेदानी प्ररूपणायाः समर्थितत्वाद्यथाऽवसराऽऽयात वस्तुद्वारं विस्तरेण व्याचिख्यासुराहवत्थु अरहा पुजा, जोग्गा के जे नमोऽभिहाणस्स। संति गुणरासओ ते, पंचारुहयाऽऽइजाईया।। 2940 / / वस्तु दलिकम् , अर्हाः पूज्याः योग्या नमोऽभिधानस्य के ? इति पृष्ट गुरुराहये नमोऽभिधानस्य योग्यास्ते पा सन्तीति संबन्धः / किंविशिष्टास्ते ? गुणराशयो गुणसमूहाः / पुनः किं प्रकाराः ? इत्याहअहंदादिजातीया अर्हदादिप्रकाराः-अर्हत्सिद्धाऽऽचार्योपाध्यायसाधव इत्यर्थः / तदेवमत्र वस्त्वहंदादयो गुणराशयः सन्ति, इतिगुणगुणिनोरभेद उक्तः / / 2640 / / अथ तयोर्भेदोपचारादिदमाहभेओवयारओ वा, वसंति नाणाऽऽदओ गुणा जत्थ। तं वत्थुमसाहारण-गुणालओ पंचजाईयं / / 2641 / / सुबोधा। नवरं" घटे रूपाऽऽदयः " इत्यादिष्विव गुणगुणिनोर्भेदोपचारादिहेवमुच्यतेवसन्ति ज्ञानाऽऽदयो गुणा यत्र तत्पञ्चप्रकारं वस्त्वस्तीति॥ 2641 // ___ अथ तानेव विशेषेणाऽऽहते अरिहंता सिद्धा-ऽऽयरिओवज्झायसाहवो नेया। जे गुणमयभावाओ, गुणा व पुजा गुणत्थीणं / / 2642 / / ते पञ्चविधवस्तुरूपा अर्हत्सिद्धाऽऽदयो ज्ञेयाः, ये ज्ञानाऽऽदिगुणसमूहमयत्वान्मूर्तज्ञानाऽऽदिगुणा इव गुणार्थिना ज्ञानाऽऽदिगुणाभिलाषिणां भव्यजीवानां पूज्या इति / तदत्राहदादीनां पूज्यत्वे" गुणमयत्वात् " इति हेतुरुक्तः / / 2642 / / अथवा हेत्वन्तस्मप्याहमोक्खत्थिणो व जं मो-क्खहेयओ दसणाऽऽदितियगंव। तो तेऽभिवंदणिज्जा, जइ व मई हेयओ कह ते ? / / 2943 / / यस्माद्वा मोक्षार्थिनी भव्यसत्त्वस्य मोक्षहेतवोऽहंदादयः, ततस्तेऽभिवन्दनीयाः पूज्याः, मोक्षहेतुत्वात् , दर्शनाऽऽदित्रिकवदिति / यदि वा-इहैवभूता परस्य मतिः स्यात्कथं केन हेतुना ते मोक्षहेतवः ? तदा तमपि हेतु कथयामः / इति सप्तदश गाथार्थः / / 2643 / / यथा ते हेतवस्तथाऽऽहमग्गो अविप्पणासो, आयारे विणयया सहायत्तं / पंचविहनमोकारं,करेमि एएहि हेऊहिं / / 2944 // अर्हता नमस्काराऽहत्वे मार्गः सम्यग्दर्शनाऽऽदिलक्षणो हेतुः, यस्मादसौ तैः प्रदर्शितः, तस्माच मुक्तिः, ततश्च पारम्पर्येण मुक्तिहेतुत्वात्पूज्यास्त इति / (अविप्पणासो त्ति) सिद्धानां तु नमस्कारार्हत्वे अविप्रणाशः शाश्वतत्वं हे तुः / तथा- हितदविप्रणाशमवगम्य प्राणिनः संसारवैमुख्येन मोक्षाय घटन्त इति / (आयारे त्ति) आचार्याणां तु नमस्कारार्हत्वे आचार एव हेतुः। तथाहि-तानाचारवत आचारख्यापकांश्च