________________ णमोकार 1832 - अभिधानराजेन्द्रः भाग - 4 णमोकार mammummen शब्दाऽऽदिनयमतमधिकृत्याऽऽहजं नाणं चेव नमो, सद्दाऽऽईणं न सद्दकिरिया वि। तेण विसेसेण तयं, वज्झम्मि न तेऽणुमन्नंति / / 2610|| इच्छइ अवि उजुसुओ, किरियं पि स तेण तस्स काए वि। इच्छंति न सहनया, नियमा तो तेसि जीवम्मि / / 2611 / / यद यस्माच्छब्दाऽऽदिमते नमो नमस्कारो ज्ञानमेव, न तु शब्दक्रिये अपि. तेन विशेषत एव तं नमस्कार तत्कर्तुर्जीवाद् बाह्ये वस्तुनि ते शब्दाऽऽदयो नानुमन्यन्त इति॥ 2610 // तर्हि ऋजुसूत्राच्छब्दाऽऽदीनां न कश्चिभेदः, सर्वरपि कर्तरि नमस्कारस्याभ्युपगमात्।तदयुक्तम्। यत इच्छत्यपि ऋजुसूत्रः (किरियं पि) क्रियारूपमपि, अपिशब्दाच्छब्दरूपमपि नमस्कार, तेन तस्य मते " नमोऽर्हद्भ्यः " इत्यादिशब्दमुच्चारयतः शिरोनमनाऽऽदिक्रियां च कुर्वतः कर्तुः कायेऽपि सनमस्कारो भवति / शब्दनयास्तु शब्दक्रियारूपं नमस्कारं नेच्छन्त्येव / किं तूपयोगरूपं ज्ञानमेव तमिच्छन्ति। अतस्तेषां मते नियमात तदुपयोगवति कर्तृजीव एव नमस्कारो, न काये इति विशेषः / इत्यष्टादशगाथार्थः / / 2611 / / व्याख्यातं कस्मिन्निति द्वारम्। अथ कियनिर काले नमस्कारो भवतीति द्वारम् , तत्राऽऽहउवओग पडुचंतो, मुहुत्त लद्धीऍ होइ उ जहन्ना / उकोसहिया छाव-ट्ठि सागरा अरिहाऽऽइ पंचविहो।।२६१२।। उपयोग प्रतीत्य जघन्यतः, उत्कृष्टतच नमस्कारस्यान्तर्मुहूर्त स्थितिर्भवति / लब्धेस्तु तदावरणक्षयोपशमरूपाया जघन्याऽन्तमुहूर्तमेव स्थितिः / उत्कृष्टतस्तु साधिकानि षट्षष्टिः सागरोपमाणि स्थितिर्भवति / इयं च-'' दो वारे विजयाइसु " (2762) इत्यादिना मतिज्ञानाऽऽदीनामिव भावनीयेति द्वारम्। अथ कतिविधा नमस्कार इति द्वारमाह-(अरिहाऽऽह इत्यादि) , अर्हत्सिद्धाऽऽदिपञ्चपदानामादौ नम इति पदस्य निपातात्पञ्चविधो नमस्कारः / इति नियुक्तिगाथाऽर्थः / / 2612 / / अत्र भाष्यम्सो कइविहो त्ति भणिए, पंचविहो भणइ नणु पुराऽभिहियं। / इक्कं नमोऽभिहाणं, केण विहाणेण पंचविहं ? / / 2613 / / स नमस्कारः कतिविधः? इति भणिते पृष्ट गुरुराहपञ्चविध इति। अत्र भणति प्रेरकः-ननु पुरा पूर्व" नेवाइयं पदं ' (2840) इत्यत्राभिहितं प्रतिपादितम् एकमेव नमः' इत्यभिधानम् / तत्केन विधानेन केन भेदेन पञ्चविधमुच्यते ? इति // 2613 // अत्रोत्तरमाहएगं नमोऽभिहाणं, तदरुहयाईयसन्निवायाओ। जायइ पंचविगप्पं, पंचविहत्थोवओगाओ / / 2614 / / सत्यम् , एकविधमेव नमोऽभिधानं, किं त्वर्हदादिपञ्चपदानामादौ / सन्निपातात्पञ्चविधेऽहंदादिके ऽर्थे उपयोगान्नमस्करणक्रिययोपयुज्यमानत्वात्पञ्चविकल्पं पञ्चभेदं जायत इति / / 2614 / अथवा" एक नमोऽभिधानम्" (2614) इत्यसिद्ध नैपातिकमिति, सान्वर्थाभिधानेनैव प्रागपि तस्यानेकविधत्वसूचनाऽऽदिति दर्शयन्नाह अहवऽन्नपयाइनिवा-यणा हि नेवाइयं च ताई च। पंचारुहयाऽऽईणि य, पयाणि तं निवयए जेसु / / 2615 // अथवा-अन्यपदानामादौ निपातानान्नैपातिक पदमिदं प्रागुक्तम्। तच येष्वन्यपदेष्वादौ निपतति तान्यहात्सिद्धाऽऽदीनि पञ्च पदानि, अतः पश्चानामन्यपदानामादौ निपतनान्नैपातिकमित्यन्वर्थत एव पञ्चविधमिदं सामर्थ्यात्प्रागप्युक्तम्। अत्र तु कतिविधो नमस्कार इति द्वारे स एवार्थो व्यक्तीकृत इति / / 2615 // अथवा पूर्व पदद्वार एव पञ्चविधो नमस्कार उक्तः, इह तु कतिविधी भवेत् ? इति द्वारे पञ्चविधानामर्हदादिपदानामर्थः कथ्यत इत्येतदर्शयन्नाहअहवा नेवाइयपय-पयत्थमेत्तामिहाणओ पुव्वं / इहमरिहदाइपंचवि-धपयपयत्थोवदेसणया।। 2616 / / अथवा नैपातिकं यत्पदं तस्य यत्पदार्थमात्रं पश्चानामर्हदादिपदानामादौ निपतनाद् नैपातिकमित्येवंस्वरूपं तस्य यदभिधानं कथन तस्मान्नैपातिकपदपदार्थमात्राभिधानात्पूर्वमेव पदद्वारे सामर्थ्यात् ' पशुविधो नमस्कार उक्तः' इति शेषः / इह तु कतिविधो नम-स्कारः? 'इति द्वारे तेषमिव पञ्चानामर्हदादिपदानां नमोऽर्हद्भ्यो, नमः सिद्धेभ्यो, नम आचार्येभ्यः' इत्यादिको यः पदार्थस्तस्यैवोपदेशना कथना कार्या, तस्या एव प्रागनुक्तत्वादिति // 2616|| अत्र परस्य प्रेर्यमाशक्य परिहरन्नाहनणु वत्थम्मि पयत्थो, नजओ तचकहणं तर्हि जुत्तं / तह वि पयत्थं तत्थे-व लाघवत्थं पवोच्छिहिइ / / 2917 / / नन्वग्रे वस्तुद्वारेऽहंदादिपदानामर्थो वक्ष्यते, तत्कथमुच्यते-' इहाहदादिपदानामर्थोपदेशनात् ' इति? तदेतत्परोक्तन, यतो यस्मादिह 'नमोऽर्हद्भ्यः ' इत्यादिके पदार्थे कथिते सति ततस्तत्र वस्तुद्वारेऽहंदादीनां "देवासुरमणुएसु, अरिहा पूर्यसुरुत्तमा जम्हा। अरिणो हंता रय हता, अरिहंता तेण वुच्चति // 1 // इत्यादिकं, (तचकहणं ति) तत्त्वकथनं स्वरूपनिवेदनं युक्तं भवति। क्रियतांतींव, कथ्यतामत्र पदार्थ इति चेत् / अत्राऽऽह-(तह वि इत्यादि) यद्यप्यत्र पदार्थ कथिते सति तत्र स्वरूपकथनं युज्यते, तथाऽपि नेह पदार्थः कथ्यते, किंतु ग्रन्थलाघवार्थ तत्रैव वस्तुद्वारे पदार्थ वक्ष्यतीति , अन्यथा यत्राहदादिपदानामर्थः, तत्र त्वर्हदादीनां स्वरूपकथनमिति ग्रन्थगौरवमेव स्यादिति गाथापञ्चकार्थः / तदेवमुक्ता षड्विधप्ररूपणा // 2617 // अथ नवविधा तामभिधित्सुराहसंतपयपरूवणया, दव्वपमाणं च खेत्त फुसणा य / कालो य अंतरं भा-गभावअप्पाबहुं चेव / / 2618 / / इति द्वारगाथा / एतैः सत्पदप्ररूपणताऽऽदिभिर्नयभिरिनमस्कारस्य नवविधेयं प्ररूपणा प्रोच्यते // 2618|| तत्र प्रथमद्वारमधिकृत्याऽऽहसंतपयं पडिवन्ने, पडिवजंते य मग्गणा गइसु / इंदिय काए जोए, वेए य कसाय-लेसासु / / 2616 / /