________________ णमोकार 1531 - अभिधानराजेन्द्रः भाग - 4 णमोकार समुदीर्णस्यो दितस्य पुनर्या विशुद्धिः क्षपणं, स क्षय इति शेषः / क्षयेणोपलक्षित उपशमः क्षयोपशम इति समासः // 2868 / / अथ मतिश्रुताऽऽवरणद्वयस्य, दर्शनमोहनीयस्य च क्षयो पशम इह किमिति गृह्यते ? इत्याहसो सुयनाणं मइमणु-गयं च तं जं च सम्मदिट्ठिस्स / तो तल्लामे जुगवं, मइसुयसम्मत्तलाभो त्ति / / 2866 || स नमस्कारस्तावत्स्वयं श्रुतज्ञानं, तच्च श्रुतज्ञानम् ," मइपुव्वं जेण सुयं " इत्यादिवचनान्मत्यनुगतं मतिपूर्वमेव भवति / एते च मतिश्रुते यस्मात्सम्यग्दृष्टरेवं भवतः। ततस्तल्लाभे नमस्कारलाभे, युगपत्समकालं, मतिश्रुतसम्यक्त्वाना लाभो भक्तीति। अतो मतिश्रुतज्ञानाऽऽवरणीयद्यस्य, दर्शनमोहनीयस्य च क्षयोपशमोऽत्र गृह्यत इति / / 2866 // तदेवं व्याख्यातं केनेति द्वारम्। अथ कस्मिन्निति द्वारं व्याचिख्यासुराहकम्हि नमोक्कारोऽयं, बाहिरवत्थुम्मि कत्तुराहारो। नेगमववहारमयं, जीवादावट्ठभेयम्मि / / 2600 / / जं सो जीवाणन्नो, तेण तओ जत्थ सो वि तत्थेव। एगम्मि अणेगेसु य, जीवाजीवोभएसुं च / / 2601 / / कस्मिन वस्तुन्याधारभूते नमस्कारोऽयं भवतीति विनेयेन पृष्ट गुरुराहनैगमव्यवहारमतं तावदिदम्-अष्टभेदे पूर्वोक्तभङ्गाष्टकनिर्दिष्ट नमस्कर्तृजीवस्याऽऽधारभूते जीवाऽऽदौ बाह्यवस्तुनि नमस्कारो भवतीति / / 2600 // कस्मात्पुनर्नमस्तकर्तृजीवाऽऽधारे वस्तुन्ययं भवति ? इत्याह(जमित्यादि) यस्मादसौ नमस्कारो नमस्कर्तृजीवादनन्यः, तेन तस्मात्तकोऽसौ नमस्कर्तृजीवो यत्रैकस्मिन्-जीवे, अजीवे, उभयस्मिन् वा; अनेकेषुजीवेषु अजीवेषु, उभयेषु वा भवति, सोऽपि नमस्कारः, तत्रैव स्याद् , अन्यथा-अभेदायोगादिति / / 2601 / / एवमुक्ते पूर्वापरविरोधमुद्भावयन्नाहनणु नेगमाऽऽइवयणं, पुजस्स तओ कह न तत्थेव? तस्स य न य तम्मि तओ, धन्नं व नरस्स खेत्तम्मि // 2602 / / ननु नैगमाऽऽदिवचनं पूर्वमेवं व्याख्यातम्-पूज्यस्य संबन्धीतको-ऽसौ नमस्कारः, तत्कथमसौ तत्रैव पूज्ये न भवति? सत्यम्-(तस्स यत्ति) तस्यैव पूज्यस्य नैगमाऽऽदिमतेन नमस्कार इति मन्यामहे, न हि किचिद्विस्मृतमिदम् , केवलम् (न य तम्मि तओ त्ति) तस्मिन्नेव पूज्ये तकोऽसौ नमस्कार इति न नियमः / न हि यद्यस्य संबन्धि तस्य स एवाऽऽधारः, अन्यथाऽपि दर्शनात: यथा-धान्यं भवति देवदत्ताssदिनरस्य संबन्धि, नचतत्तत्रैव, किंतु क्षेत्रे आधारभूतेतदिति / / 2602 / / संग्रहमतेन नमस्कारस्याऽऽधारमाहसामन्नमेत्तगाही, सपरजिएयरविसेसनिरवेक्खो। संगहनओऽभिमन्नइ, आहारे तमविसिट्ठम्मि।। 2603 / / व्याख्या पूर्ववत् , नवरमविशिष्ट सामान्यमात्रे आधारे संग्रहस्तं नमस्कार मन्यत इति / / 2603 / / एतदेव भावयति जीवम्मि अजीवम्मि व, सम्मि परम्मि व विसेसणेऽभिन्नो। नय भेदमिच्छइ सया, नमोसामन्नमेत्तस्स / / 2604 / / आधारस्य जीवाऽऽदिविशेषणे कर्त्तव्ये सामान्यवादित्वाद्यस्मादभिन्नोऽभेदतत्परोऽसौ, तस्मादविशिष्ट आधारे नमस्कारं मन्यत इति / न चाऽऽधाराऽऽदिभेदेन नमस्कारसामान्यमात्रस्यापि सदा भेदमिच्छत्यसौ, किं त्वभेदमेवेच्छति, सामान्यवादित्वादेवेति // 2604 / / अथवा-अन्योऽन्यत्र वर्तत इति व्यधिकरणं संग्रहो मूलत एव नेच्छति, इच्छति वा कोऽप्यशुद्धतरो नमस्कार जीव एव, नाजीवे, इत्ये तद्दर्शयन्नाहजीवो नमो त्ति तुल्ला-हिगरणयं वेइ न उस जीवम्मि। इच्छइ वाऽसुद्धयरो, तं जीवे चेव नन्नम्मि / / 2905 || गतार्था / / 2605 // अथ ऋजुसूत्रनयमतेनाऽऽधारचिन्तामाह - उज्जुसुयमयं नाणं, सद्दो किरिया च जं नमोक्कारो। होज न हि सव्वहा सो, मओ तदत्थंतरभूओ / / 2606 / / प्रागुक्तार्था, नवरं न खलु सर्वथाऽसौ नमस्कारः, तस्मात्कर्तुरर्थान्तरभूतो मतः, किंतु कर्तर्येवाऽऽधारे नमस्कार इति भावः / / 2606 / / एतदेव समर्थयतिसुगुणम्मि नमोकारो, तग्गुणओ नीलया व पत्तम्मि। इहरा गुणसंकरओ, सव्वेगत्ताऽऽदओ दोसा / / 2607 // स्वस्याऽऽत्मनो गुणी स्वगुणी, तस्मिन् स्वगुणिनि कर्तरि नमस्कारः, नान्यत्रेति प्रतिज्ञा / तद्गुणत्वादिति हेतुः। पत्रे नीलतावदिति दृष्टान्तः। विपर्यये बाधकमाह-इतरथा-अन्यगुणस्य अन्यत्रगमने, गुणानां परस्परं साङ्कर्याद् , गुणिनां सर्वेषामपि साङ्कयैकत्वा-ऽऽदयो दोषा भवेयुरिति / / 2607 // अत्र कश्चित्प्रेरयतिभिन्नाऽऽधारं पीच्छइ, नणु रिउसुत्तो जहा वसइ खम्मि। दव्वं तत्थाहिगयं, गुणगुणिसंबंधचिंतेयं / / 2608 / / ननु भिन्नाऽऽधारमपि अन्यस्यान्यमप्याधारमृजुसूत्र इच्छत्येव, यथाअनुयोगद्वारेषु वसतिदृष्टान्तमृजुसूत्रमतेनाभिदधता प्रोक्तम्- 'क्व वसति भवान् ?' ' खे आकाशे वसामीति / तत्कथमिह भिन्नाऽऽधारता निषिध्यते ? इति। अत्रोत्तरमाह-(दव्वमित्यादि) इदमत्र हृदयम्-द्रव्यं देवदत्ताऽऽदिकं द्रव्यान्तरे आकाशे वर्तत इति मन्यत एव ऋजुसूत्रः इह तु गुण-गुणिसंबन्धचिन्ता प्रस्तुता। ततोऽन्यगुणोऽन्यत्र वर्तत इतीहासौ न मन्यत इति न कश्चिविरोध इति / / 2608 / / एतदेव व्यक्तीकरोतिसो संमन्नइ न गुणं, निययाहारं तया सयं इहरा। को दोसो जइ दव्वं, हव्वेज दव्वंतराऽऽहारं ? || 2606 / / गतार्था, नवर निजादाधारादाधारान्तरमाश्रयो यस्य स तथा, तमेवंभूतं गुणं न संमन्यतेऽसाविति // 2606 / /