SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ णमोकार 1830 - अभिधानराजेन्द्रः भाग-१ णमोकार यथा-स्वगुणानां रूपाऽऽदीनां देवदत्तस्य स्वामित्वम् / ततः पूजके स्थितस्यापि नमस्कारस्य यदि पूज्यः स्वामी भवेत् , तदा को दोषः? इति प्रकृतम् / / 2887 // ऋजुसूत्रः प्राऽऽह-तथाऽपि पूज्यस्य नमस्कार इति न मन्यामहे / कुतः? इत्याहएवं पिन सो पुज्जस्स तप्फलाभावओ परघणं व। जुत्तो फलभावाओ, सघणं पि व पूजयंतस्स / / 2888 / / एवमपि न स नमस्कारः पूज्यस्य युक्तः, तत्फलस्य स्वर्गाऽऽदेर- / भावात्परधनवदिति / युक्तः पुनरसौ पूजकस्य, स्वर्गाऽऽदेः फलस्य सद्भावात् , स्वधनवदिति।। 2888|| पुनरपि नैगमाऽऽदिनयमतमाशक्य ऋजुसूत्रः परिहरन्नाहनणु पुज्जस्सेव फलं, दीसइ पूया न पूजयंतस्स। नाणुजीवित्तणओ, तं तस्स फलं जहा नभसो / / 2886 / / ननुपूज्यस्यैव पूजालक्षणं फलं प्रत्यकृतो दृश्यते, नतुपूजकस्य, ततः तत्फलाभावादित्यसिद्धो हेतुः। एवं नैगमाऽऽदिवादिना प्रोक्ते ऋजुसूत्रः प्राऽऽह-न तत्तस्य पूज्यस्य पूजालक्षणं फलम् , अनुपजीवित्वात् , यथा नभसः। इह यो यस्यानुपजीवीनतत्तस्य फलं. यथा नभसो दह्यमानागुरुकर्पूराऽऽदिधूमपटलप्रसरत्सुमनोगन्धाऽऽदिफलं न भवति, किंतु तदुपजीवकस्य देवदत्ताऽऽदेरेव, अनुप-जीवी च पूजाया वीतरागः, अतो न तस्य तत्फलं किंतु पूजकस्यै-वेति॥२५८६ / / न य दिष्ठफलत्थोऽयं, जुत्तो पुजस्स वोवगाराय। किं तु परिणामसुद्धी, फलमिटुं सा य पूजयओ / / 2860 / / न च दृष्टमेव प्रत्यक्षं पूजाऽऽदिकं फलगर्थः प्रयोजनं यस्याऽसौ दृष्टफलार्थोऽयं नमस्कर्तुः नमस्कारो युक्तः, नापिच पूज्योपकारायासी, किं त्वनन्तरं परिणामविशुद्धिः फलमिष्टं नमस्कारस्य, परम्पराफलं तु स्वर्गापवर्गाऽऽदि। सा च परिणामशुद्धिः, तच स्वर्गप्राप्त्यादिकं फलं पूजयतः पूजकस्यैव भवति, नतुपूज्यस्येति।तस्मात्स नमस्कारस्तस्य नमस्कत्तुरव, न नमस्कार्यस्येति // 2860 // ऋजुसूत्रनयप्रतिज्ञाहेतुनाऽऽहकत्तुरहीणत्तणओ, तगुणओतप्फलोवभोगाओ! तस्स क्खओवसमओ, तज्जोगाओ य सो तस्स।।२८६१॥ कतुरवाधीनत्वात् , तदधीनत्वं च तेनैव क्रियमाणत्वादिति / तथा तद्गुणत्वाद् , ज्ञानशब्दक्रियारूपत्वेन नमस्कारस्य कर्तुर्गुणत्वादित्यर्थः / तथा-तस्य नमस्कारस्य यत् फलं स्वर्गाऽऽदिकं तदुपभोगादिति। तथा-तस्य नमस्कारस्य यः कारणभूतः कर्मक्षयोपशमः, तस्य कर्तर्येव सद्भावात्, कारणपरित्यागेनच कार्यस्यान्यत्रायोगादिति। तथा-तद्योगात्-तत्परिणामरूपत्वादिति / दृष्टान्तास्तु पञ्चस्वपि हेतुषु स्वधनवदित्यादयः स्वयमभ्यूह्या इति।। 2861 / / अथ शब्दाऽऽदिनयत्रयमतेन स्वामित्वचिन्तामाहजंनाणं चेव नमो, सद्दाऽऽईणं न सद्दकिरियाओ। तेण विसेसेण तथं, वज्झस्स न तेऽणुमण्णंति / / 2862 / / यद् यस्माद् नमो नमस्कारः शब्दाऽऽदिनयमतेनोपयोगरूपं ज्ञानमेव, नतु शब्दक्रिये, शुद्धत्वेन ज्ञानवादित्वात् तेषामिति भावः। तेन विशेषत एवतं नमस्कार ते शब्दाऽऽदयो बाह्यस्य जिनेन्द्राऽऽदेस्तत्प्रतिमाऽऽदेर्वा नाऽनुमन्यन्ते नेच्छन्ति, किंतु तदुपयोगवतोऽन्तरङ्गस्यैव पूजकजीवस्य ते तमिच्छन्ति। इति त्रिंशद्गाथार्थः / / 2862 // गतं कस्येति प्ररूपणाद्वारम्। अथ केनेति द्वारमाहनाणाऽऽवरणिज्जस्सय, दंसणमोहस्स जो खओवसमो। जीवमजीवे अट्ठसु , भंगेसु य होइ सव्वत्थ // 2863 // ज्ञानाऽऽवरणीयस्येत्यनेन मतिश्रुतज्ञानाऽऽवरणद्वयं गृह्यते; नमस्कारस्य मतिश्रुतज्ञानान्तर्गतत्वाद्, ज्ञानस्य च सम्यक्त्वसहचरितत्वादर्शनमोहनीयमप्याक्षिप्यते / ततो मतिश्रुतज्ञानाऽऽवरणद्वयस्य, दर्शनमोहनीयस्य च कर्मणो यःक्षयोपशमः तेन हेतुभूतेन नमस्कारो लभ्यते ' इत्यध्याहारः / तस्य चाऽऽवरणस्य द्विविधानि स्पर्द्धकानि भवन्ति-सर्वोपघातीनि, देशोपघातीनि च। तत्र सर्वेषु सर्वघातिषु हतेषु देशोपघातिनां च प्रतिसमयमनन्तै गैर्विमुच्यमानः क्रमेण नमस्कारस्य प्रथमं नमस्कारलक्षणमक्षरं लभते / एव-मेकैकवर्णप्राप्त्या समस्तनमस्कार प्राप्नोतीति / गतं केनेतिद्वार-म्। अथ कस्मिन्नितिद्वारमभिधित्सुराह-(जीवमजीवे इत्यादि) मकारोऽलाक्षणिकः / नमस्कारस्य जीवगुणत्वाजीवः, ततो नमस्कारवान् जीवो यदा गजेन्द्राऽऽदौ जीवेऽधिकरणे वर्तते तदा जीवे नमस्कारोऽभिधीयते, यदा तु कटाऽऽद्यजीवे तदाऽजीवेऽसौ व्यप-दिश्यते। यदा तु जीवाजीवोभयाऽऽत्मके वस्तुनि तदा जीवाजीवयोः / इत्येकबहुवचनभ्यां प्रागुक्तेष्वष्टसु भङ्गेषु सर्वत्रायं भवति / / इति नियुक्तिगाथासंक्षेपार्थः / / 2063 / / विस्तरार्थ त्वभिधित्सुर्भाष्यकारः प्राऽऽहकेणं ति णमोकारो, साहिज्जइ लब्भए व भणियम्मि। कम्मक्खओवसमओ, किं कम्मको खओवसमो? ||2864|| केन हेतुना नमस्कारः साध्यते, लभ्यते वा ? इति भणिते गुरु-राहकर्मक्षयोपशमतोऽसौ लभ्यते / विनेयः प्राऽऽह-किं तत्कर्म, कक्ष क्षयोपशमः? इति।। 2864 // तत्र कर्म तावदाहमइसुयनाणाऽऽवरणं, सणमोहं च तदुवधाईणि। तप्फड्डयाइँ दुविहाइँ सव्वदेसोवघाईणि / / 2865| सव्येसु सव्वधाई-सु हएसु देसोवघाइयाणं च। भागेहिँ मुचमाणो, समए समए अणंतेहिं / / 2866 / / पढम लहइ नकार, एक्केवं वन्नमेवमन्नं पि। कमसो विसुज्झमाणो, लहइ समत्तं नमोकारं / / 2867 / / तिसोऽपि गतार्थाः, नवरं मतिज्ञानाऽऽवरणाऽऽदिस्पर्द्धकानि तीव्रमन्दमध्यमाऽऽदिभेदभिन्नरसविशेषरूपाणि स्थानान्तरादवसेवानीति॥ 2865 / / 2866 // 2867 / / यदुक्तम्- 'कश्च क्षयोपशमः ?' इति, तत्राऽऽहखीणमुइन्नं सेसय-मुवसंतं भण्णई खआवेसमो। उदयविधाय उवसमो, जा समुइन्नस्स य विसुद्धी॥२८६५|| पूर्वार्द्धमेवोत्तरार्द्धन व्याचष्टे - अनुदितस्योदयविधात उपशमः,
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy