SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ णमोक्कार 1526 - अभिधानराजेन्द्रः भाग- णमोकार - धिकरणभाजः सतो नमस्कारस्येत्यर्थः / किम् ? अत आह-स्वामित्वचिन्तेयं भण्यते- ' स जीवरूपो नमस्कार किं नमस्कार्यस्य संबन्धी, नमस्कर्तुर्वा ? ' इत्येतदिह चिन्त्यत इति भावः / एतच्च नैगमव्यवहारनयमतेन चिन्तितम्।। 2877 / / अथ संग्रहनयमतेन चिन्तयन्नाहसामण्णमेत्तगाही, सपरजिएयरविसेसनिरवेक्खो। संगहनओऽभिमण्णइ, तमिहेगस्साविसिट्ठस्स / / 2878|| सामान्यमात्रग्राही संग्रहनयोऽभिमन्यते तमिह नमस्कार, संब-न्धितया कस्य ? इत्याह-एकस्य / कथंभूतस्य ? अविशिष्टस्य जीवाजीवविशेषणरहितस्यैकस्यैवाविशिष्टस्य सत्तामात्ररूपस्य संबन्धितया नमस्कारमसौ मन्यते, न तु द्वयो; बहूनां चेत्यर्थः / अत्रोपपत्तिमाह-" सपरजिएयरविसेसनिरवेक्खो ति।" स्वश्व परश्व स्वपरी, स्वपरौ च तौ जीवौ च स्वपरजीवौ, तौ चेतरेऽजीवाश्च स्वपरजीवेतराः, तेषां विशेषा एकद्वित्र्यादयः, स्वपरजीवेतराश्च ते विशेषाश्च स्वपरजीवेतरविशेषाः, तन्निरपेक्षो यतोऽसौ, ततस्तन्निरपेक्षत्वात् सामान्यमात्रस्यैव संग्रहो नमस्कारं मन्यत इति॥२८७८|| एतदेव भावयतिजीवस्साऽजीवस्सव, सस्स परस्स व विसेसणेऽभिण्णो। न य भेयमिच्छइ सया, स नमोसामण्णमेत्तस्स / / 2876 / / (जीवस्सेत्यादि) जीवस्याऽजीवस्य वा स्वस्य परस्य वा नमस्कारस्येत्येवं विशेषणे कर्तव्येऽभिन्नोऽभेदवानसौ एतैर्भेदैनमस्कारं न विशेषयति, किं तु सामान्यमात्र गाहित्वात् सामान्यमात्रस्यैव / नमस्कारमसो मन्यत इत्यर्थः / भवत्वेवं, किंतनमः शब्दरूप नमस्कार स्वस्वरूपेणाऽऽधाराऽऽदिभेदाभिन्नमसौ मन्यते, अभिन्नं वा ? इत्याशक्याऽऽह-न च नमस्कारसामान्यमात्रस्याऽऽधाराऽऽदिभेदेऽपि सदा सर्वकालं स संग्रहनयो भेदमिच्छति, सर्वतः सामान्यमात्रग्राहित्वादिति / / 2876 / / अथवा जीवस्य नमस्कार इतषष्ट्या भेदनिर्देशं मलतः संग्रहो न मन्यत एव, किमनया तस्य स्वामित्वचिन्तया ? इति दर्शयन्नाहजीवो नमु त्ति तुल्ला-हिगरणयं वेइन उ स जीवस्स। इच्छइ वाऽसुद्धयरो ,तं जीवस्सेव नऽण्णस्स / / 2880 (जीवो इत्यादि) संग्रहः"जीवो नमस्कारः" इति तुल्याधिक-रणतां समानाधिकरणतामेव ब्रवीति, न पुनरसौ जीवस्य नमस्कार इति ध्यधिकरण मिच्छति, जीवनमस्काराऽऽद्यर्थानां सर्वेषामप्यभेदवादित्यादिति / किमयमेक एव प्रकारस्तस्य ? नेत्याह-(इच्छइ इत्यादि) इच्छति वाऽशुद्धतरः संग्रहनयस्तं नमस्कारं संबन्धितया, कस्य ? जीवस्यैव जीवसामान्यस्यैव, नपुनरन्यस्याऽऽद्यभङ्ग-रहितस्य शेषसप्तभङ्गीगतस्याजीवाऽऽदेरिति / / 2880 / / अथ ऋजुसूत्रमधिकृत्याऽऽहउजुसूयमयं नाणं, सद्दो किरिया च जं नमोकारो। होज न हि सव्वहा सो, जुत्तो तकत्तुरन्नस्स / / 2581 // ऋजुसूत्रनयस्येदं मतम्-यद्यस्माज्ज्ञानमुपयोगरूप, शब्दो वा " नमोऽहंदभ्यः " इत्यादिकः, क्रिया वा शिरोनमनाऽऽदिरूपा नमस्कारो भवेद् ? इति त्रयी गतिः। ततोन हि नैव, सर्वथा सर्वैरपि प्रकारः, तत्कार विनाऽन्यस्य युक्तः स नमस्कारः / तस्मान्नमस्कर्तृस्वामिक एवासौ युज्यते, नतु नमस्कार्यस्वामिक इतीह भावार्थः / / 2881 / / कुतः ? इत्याहनाणं जीवाणऽन्नं, तं कहमत्थंतरस्स पुजस्स? जीवस्स होउ कह वा, पडिमाए जीवरहियाए? ||2852 / / (नाणमित्यादि। यदि ज्ञानं नमस्कारस्तदा गुणत्वेन तन्नमस्कर्तुजीवादनन्यदव्यतिरिक्तं वर्तते, तत्कथमर्थान्तरस्य पूज्यस्य नमस्कार्यस्याईदादेः संबन्धि वक्तुं युज्यते ? यदि वा-अघटमानकमप्यभ्युपगम्य ब्रूमः-जीवस्य पूज्यस्यापि संबन्धि तद् भवतु, जीवरहितायास्त्वचेतनायाः प्रतिमायाः कथं वा केन प्रकारेण तद्भवेत् ? तस्या सर्वथा ज्ञानशून्यत्वेन कष्टतरं महासाहसमिदमित्यभिप्रायः / / 2882 // एवं सद्दो किरिया, य सह-किरियावओ जओ धम्मो। नय धम्मो दव्वंतर-संचारी तो न पुजस्स // 2853 / / एवं शब्दः क्रिया च यस्माच्छब्दक्रियावतो नमस्कर्तुर्धर्मः, धर्मश्वन द्रव्यान्तरसंचारी, ततो नपूज्यस्य नमस्कार्यस्यनमस्कार इति॥२८८३॥ कुतः पुनर्धर्मो द्रव्यान्तरसंचारी नस्याद ? इत्याहएवं च कयविणासा-ऽकयागमेगत्तर्सकराऽऽईया। अन्नस्स नमोक्कारे, दोसा बहवो पसजंति॥२८५४ / / एवं ह्यनेन पूजकेन कृते नमस्कारे, अन्यस्य पूज्यस्याभ्युपगम्यमाने बहवोः दोषाः प्रसजन्ति / के ? इत्याह-कृतनाशाकृताऽऽगमैकत्वसङ्कराऽऽदयः। तत्र येन कृतस्यस्यानभ्युपगमात्कृतनाशः,येन चन कृतः पूज्येन, तत्स्वामित्वाभ्युपगमेऽकृताऽऽगमः। तथा-द्वयोरप्यभिन्ननमस्कारधर्मकत्वादेकत्वं, सङ्करो वा / आदिशब्दात्सहोत्पत्तिविनाशाऽऽदय इति / / 2884 // नैगमाऽऽदिनयवादी पूर्वपक्षयन्नाहजइ सामिभावओ होज पूणिज्जस्स सो तों को दोसो ? अत्यंतरभूयस्स वि, जह गावो देवदत्तस्स // 2885 / / यदि पूजकादर्थान्तरभूतस्यापि पूजनीयस्य पूजके स्थितोऽपि स्वामिभावेन स नमस्कारो भवेत् , तर्हि को दोषः स्यात् ? धर्मस्य द्रव्यान्तरे संचरणाभ्युपगमान्न कश्चिदित्यर्थः / यथाऽन्यत्र स्थितानामपि गवा देवदत्तः स्वामीति // 2885 / / ऋजुसूत्र उत्तरमाहअस्सेदं ववएसो, हवेज दव्वम्मि न उगुणे जुत्तो। पडयस्स सुक्कभावो, भन्नइ न हि देवदत्तस्स // 2886 // अन्यत्र स्थितेऽपि गवादिके द्रव्ये, अन्यत्र स्थितस्यापि देवदत्ताऽऽदेरस्येदमिति स्वामित्वव्यपदेशो भवेधुज्यते, गुणे त्वयं न्यायो नयुक्तः; न हि पटस्य शुक्लभावः शुक्लगुणो देवदत्तस्य भण्यते, साङ्कर्यकत्वाऽऽदिदोषप्रसङ्गादिति / / 2856 // पुनरपि परः प्राऽऽहववएसाभावम्मि वि, नणु सामित्तमणिवारियं चेव। अन्नाधाराणं पिहु, सगुणाण व भोगभावाओ / / 2887 // ननु गुणेष्वप्ययं न्यायो दृश्यते एव; तथाहि-अन्याऽऽधाराणामपि देवदत्तसंबन्धिपटाऽऽदिगतानामपि, शुक्लाऽऽदिगुणानामिति शेषः / देवदत्तस्यैते शुक्लाऽऽदिगुणा इति व्यपदेशाभावेऽपि ननु तस्य तत्स्वामित्वमनिवारितमेव / कुतः ? इत्याह-भोग - भावादिति, निजपटाऽऽदिगतशुक्लाऽऽदिगुणानां देवदत्तेन भुज्यमानत्वादित्यर्थः / केषां यथा कस्य स्वामित्वम् ? इत्याह
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy