SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ णमोक्कार 1828 - अभिधानराजेन्द्रः भाग - 4 णमोक्कार तत्परिणत एव नमस्कारपरिणामपरिणत एव, यदा जीवो भवति, तदाऽसौ शब्दाऽऽदिनयत्रयमतेन नमस्कारोऽभिधीयते / शेषाणां तु नैगमाऽऽदिनयानामनुपयुक्तोऽपि नमस्कारो जीयो नमस्कार उच्यते / किं सर्वः? नेत्याह-लब्धिसहितस्तदावरणकर्मक्षयोपशमयुक्तः, अथवायोग्यो भव्यशरीराऽऽदिको राज्यार्हकुमारराजवदिति / / 2867 / / अथ कथं पुनर्नयमतेन नमस्कारस्यैकत्वमनेकत्वं चनेयम् ? इत्याहसंगहनओ नमोक्कारजाइसामनओ सया एगें। इच्छइ ववहारो पुण, एगमिहेगं बहू बहवो / / 2568 / / उज्जुसुयाऽऽईणं पुण, जेण सयं संपयं व वत्थु ति। पत्तेयं पत्तेयं, तेण नमोक्कारमिच्छंति // 2866 / / द्वे अपि सुगमे, नवरं व्यवहारनयः पुनरेकं नमस्कारवन्तं जीवमेके नमस्कारमिच्छति, बहूँस्तद्वतो बहून्नमस्कारानिच्छति, लोकव्यवहारपरत्वात् , लोके चेत्थं दर्शनादिति / ऋजुसूत्राऽऽदयस्तु बहुत्वं नेच्छन्ति, वर्तमानसमयवर्तिनः स्वकीयस्यैवकस्य प्रत्येकं प्रत्येकमभ्युपगमादिति // व्याख्यातं किमितिग्ररूपणाद्वारम्॥ 2868 // 2866 / / अथ कस्येतिद्वारे'"पुव्वपडिवण्णओयजीवाणं ' (2862) इत्यादि य्याचिख्यासया प्राऽऽहपडिवजमाणओ पुण, एगोऽणेगे व संगहं मोत्तुं / इटो सेसनयाणं, पडिवन्ना णियमओऽणेगे / / 2870 / / प्रतिपद्यमानको नमस्कारस्यैकोऽनेके वा जीवा भवन्तीत्यय पक्षः संग्रहनयं मुक्त्वा शेषनयानामिष्टः संगतः पूर्वप्रतिपन्नास्तु नियमेनाने के तेषामिष्टाः, गतिचतुष्टयेऽपि पूर्वप्रतिपन्नस्य सम्यग्दृष्टीनामसंख्येयानां सदैवलाभात्। संग्रहनयस्तु-बहुत्वं सर्वत्र नेच्छतीति तद्वर्जनमिति। तदेव 'करय नमस्कारः ? ' इति पृष्टे एकानेकांजीवस्वाभिको नमस्कार इति निर्णीतम् // 2870 // अथ जीवस्वामिके सत्यपि' किं नमस्कार्यजीवस्वामिको नमस्कारः, नमस्कर्तृजीवस्वाभिको वा ? ' इति जिज्ञा सायां नयनिर्णयमाहकस्स त्ति नमोकारो, पुञ्जस्स य संपयाणभावाओ। नेगमववहारमयं, जह भिक्खा कस्स जइणो ति / / 2871 / / कस्य नमस्कार:- किंस्वामिकोऽसौ ? इति पृष्टे गुरुराह-नैगमव्यवहारनयमतमिदग-पूज्यस्य नमस्कार्यस्य नमस्कारः, न पुनस्तत्कर्तुः / कुतः? संप्रदानभावत्-तेन पूज्यस्यैव संप्रदीयमानत्वात्। लोकेऽपि वक्तारो भवन्तिकस्य भिक्षा? 'यतेः 'इति, न पुनस्तदातुः।। 2871 // हेत्वन्तरेणापि नमस्कार्यस्वामिकत्वं नमस्कारस्थती समर्थयतः / कथम् ? इत्याहपुनस्सव पजाओ, तप्पच्चयओ घडाऽऽयधम्म व्व। तद्धउभावओवा, घडविण्णाणामिहाणं व।। 2872 / / अथवा-पूज्यस्यैव पर्यायो नमस्कार इति प्रतिज्ञा / (तप्पचयओ ति) पूज्ये पूज्योऽयमिति प्रत्ययजनकत्वादिति हेतुः / (घडाऽऽयधम्म व्व त्ति) घटस्याऽऽत्मीयरूपाऽऽदिवदिति दृष्टान्तः, यथा-घटे / घटप्रत्ययजनकत्वात्तद्रूपाऽऽदयस्तत्पर्याया इत्यर्थः / अथवा -अस्यामेव प्रतिज्ञाया तद्धेतुभावादिति हेतुः-नमस्कारोत्पत्तिहेतुत्वादित्यर्थः / घटविज्ञानाभिधानवदिति दृष्टान्तः / इयमत्र भावनानमस्कार्येऽर्हदादी दृष्ट भव्यजन्तोः विशिष्टोल्लासो नमस्कारकरणाभिप्राय उत्पद्यते, ततस्तन्नमस्कारस्य नमस्कार्यो हेतुः, ततस्तद्धेतुभावान्नमस्कार्यस्यैव पूज्यस्यैव पर्यायो नमस्कार; यथा घटविषयविज्ञानाभिधाने घटहेतुकत्वाद् घटपर्यायाविति / / 2872 / / किञ्च-युक्तयन्तरेणापि पूज्यस्वामिक एव नमस्कारः; कथम् ? इत्याहअहवा स करेंतो चे-व तस्स भिचभावमावण्णो। का तस्स नमोक्कारे, चिंता दासक्खरोवम्मे / / 2873 / / अथवा-यहारमात् स नमस्कारकर्ता नमस्कारं कुर्वाण एव तस्य नमस्कार्यस्याऽर्हदादे त्यभावं दासत्वमापन्नः, ततस्तस्य नमस्कारकर्तुनमस्कारे का चिन्ता? किं ममत्वम? ननु नमस्कारस्तावद दूरे तिष्ठतु, तस्याऽऽत्माऽपि नात्मीयः, पूज्यस्य भृत्यभावेन समर्पणात्। किंविशिष्ट नमस्कारे चिन्ता न विधेया? इत्याह-(दासक्खरोवम्मे त्ति) दाससबन्धिना खरेणौपम्यमुपमानं यस्य तस्मिंस्तथाभूते / इदमुक्तं भवति-" दासेण से खरो कीओ, दासो वी से खरो वी से। " इति सिद्धान्तोक्तन्यायाद्दासकल्पोनमस्कार-कर्ता, खरकल्पस्तुनमस्कारः, द्वावप्येतौ नमस्कार्यस्याहदादेरेव, न पुनर्नमस्कारकर्तुः किञ्चिदिति किं तस्य चिन्तया ? तदेवं पूज्यस्यैव नमस्कार इति नैगमव्यवहारनयमतेन प्रतिष्ठितम् / / 2873 // पूज्यं च वस्तु द्विविधंजीवरूपं जिनाऽऽदि, अजीवरूपं च तत्प्रतिमाऽऽदि / अस्य च जीवाजीवपदद्वयस्यैकवचनबहुवचनाभ्यामष्टौ भङ्गा भवति / तद्यथा-जीवस्य 1, अजीवस्य 2, जीवानाम् 3, अजीवानाम् 4, जीवस्याऽजीवस्य च 5, जीवस्याजीवानां च 6, जीवानामजीवस्य च 7, जीवानामजीवानां च 8 / इमामेवाष्टभङ्गी सोदाहरणां भाष्यकारः प्राऽऽहजीवस्स सो जिणस्सव, अञ्जीवस्स उजिणिंदपडिमाए। जीवाण जईणं पि व, अज्जीवाणां तु पडिमाणं / / 2874 / / जीवस्साऽजीवस्स य, जइणो बिंबस्स चेगओ समयं / जीवस्साऽजीवाण य, जइणो पडिमाण चेगत्थं / / 2875 / / जीवाणमजीवस्स य, जइणं बिंबस्स चेगओ समयं / जीवाणमजीवाण य, जईण पडिमाण चेगत्थं / / 2876 // तिस्रोऽपि गतार्थाः // 2874 / 2875 2876 // अत्र परमतमाशक्य परिहरनाहजीवो ति णमोकारो, नणु सव्वमयं कह पुणो भेओ? इह जीवस्सेव सओ, भण्णइ सामित्तचिंतेयं / / 2877 // ननु" किं जीवो तप्परिणओ" (2862) इत्यत्र पूर्व जीवो नमस्कार इति सर्वनयसंमत समानाधिकरणमुक्तम्। इह तु" जीवरस सो जिणस्स व" (2874) इत्यादिषष्ठीनिर्देशात्कथं भेदोऽभिधीयते ? अत्रोच्यते(इहेत्यादि) इहास्यामष्टभड्ग्या जीवस्यैव सतो नमस्कारस्यतथैव समाना
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy