________________ णमोकार 1827 - अभिधानराजेन्द्रः भाग - 4 णमोकार 'नेवाइयं पयं (2840) इत्येतद् व्याचिख्यासुराहनिवयइ पयाऽऽइपजं-तओ जओ तो नमो निवाउ त्ति / सो चिय निययत्थपरो, पयमिह नेवाइयं नाम / / 2856 / / पूयत्थमिणं सा पुण, सिरकरपायाऽऽइदव्यसंकोओ। भावस्स य संकोओ, मणसा सुद्धस्स विणिवेसो॥२८५७।। यतो यस्मान्निपतति पदाऽऽदिपर्यन्तयोस्ततो 'नमः' इति पदं निपातो भण्यते / स एव ' नमः ' इति निपातो निजकार्थपरः स्वार्थिकप्रत्ययोपादानो नैपातिकं पदमित्युच्यत इति // 2856 // इदं च नमः' इति पदं पूजार्थम् , शेषं सुगमम् // 2857 / / अत्रच भावसंकोचलक्षणं भावकरणमेव प्रधानमिति दर्शयन्नाहएत्थं तु भावकरणं, पहाणमेगंतियं ति तस्सेव / वज्झं सुद्धिनिमित्तं, भावावेयं तु तं विफलं / / 2858 / / जं जुजंतो वि तयं, न तप्फलं पालगाइ व्व। तविरहिया लहंति य, फलमिह जमणुत्तराऽऽईया।।२८५९।। तह वि विसुद्धी पाएण वज्झसहियस्स जा न सा इहरा। संजायइ तेणोभयमिटुं संवस्स वा नमओ / / 2560 / / सुगमाः, गतार्थाश्च। नवरं भाषापेतंभावरहितं तबाह्यकरणं विफलमेव / इति विंशतिगाथार्थः / / 2858 / 2856 / 2860 // (6) अथ प्ररूपणाद्वारमाहदुविहा परूवणा छ-प्पया य नवहा य छप्पया इणमो। किं कस्स केण व कहि, केवचिरं कइविहो व भवे ?|| 2861 / / द्विविधा द्विप्रकारा, प्रकृष्टा प्रधाना, प्रगता वा रूपणा वर्णना प्ररूपणेति। तदेव द्वैविध्यमाह-षट्पदा च षट्प्रकारा, नवधा च नवप्रकारा, चशब्दात्पञ्चपदा, चतुष्पदा च / तत्र षट्पदा' णमो ' इति पदं कि, कस्य, केन वा, क्वं वा, कियचिर, कतिविधो वा भवे-न्नमस्कारः ? इति नियुक्तिगाथासंक्षेपार्थः / / 2861 / / तत्र किंद्वारव्याख्यानार्थमाहकिं जीवो तप्परिणओ, पुच्वपडिवन्नओ य जीवाणं / जीवस्स य जीवाण य, पडुच्च पडिवजमाणं तु / / 2862 / / / किं वस्तु नमस्कारः ? इत्याह-(जीवो ति) सामान्येन अविशु- | दनैगमाऽऽदिनयानां जीवः, तद्ज्ञानलब्धियुक्तो योग्यो वा नमस्कारः।। शब्दाऽऽदिशुद्धनयमतत्वधिकृत्याऽऽह-(तप्परिणओ त्ति) शब्दाऽऽदिविशुद्धनयमतेन तु जीवः, तत्परिणतो नमस्कारपरिणामपरिणत एवं नमस्कारो, नापरिणत इति / उक्तं किंद्वारम्।। अथ करयेतिद्वारमुच्यते-तत्र च यदा पूर्वप्रतिपन्नो नमस्कारः चिन्त्यते, तदा जीवानामसौ विज्ञेयः, बहुजीवस्वामिक इत्यर्थः / प्रतिपद्यमानं तु नमस्कारं प्रतीत्य यदा एको जीवस्तंप्रतिपद्यते, तदा जीवस्यासौ विज्ञेयः, एकजीवस्वामिक इत्यर्थः / यदा तु बहवो जीवास्तं प्रतिपद्यन्ते, तदा जीवानामेष ज्ञातव्यः, बहुजीवस्वामिक इत्यर्थः / इति नियुक्तिगाथासंक्षेपार्थः / / 2862 // अथ किंद्वारविषयं भाष्यम् किं होज नमोकारो, जीवोऽजीवोऽहवा गुणो दव्वं / ' जीवो नो खंधो त्ति य, तह नोगामो नमोक्कारो॥ 2863 / / किं वस्तु नमस्कारो भवेत् ? जीवः, अजीवो वा। जीवाजीवत्येऽपि किं गुणो, द्रव्यं वा नमस्कारः ? इति प्रश्ने नैगमाऽऽद्यविशुद्धनयमतमङ्गीकृत्याऽऽह-जीवो नमस्कारः, नाऽजीवः / स च संग्रहनयापेक्षया मा भूदविशिष्टः पञ्चास्तिकायमयः स्कन्धः / यथाऽऽहुस्तन्मतावलम्बिनः"पुरुष एवेदं ग्नि सर्वं यद् भूतं यच्च भाव्यम् / उतामृतत्वस्येशानो यदन्नेनातिरोहति' इत्यादि / तथा संग्रहनयविशेषापेक्षयैव मा भूदविशिष्टग्राम इति,'अतो नो स्कन्धो नो ग्रामः।' इति नियुक्तिगाथायां वाक्यशेषः। पञ्चास्तिकायमयस्कन्धैकदेशत्वान्नोशब्दस्य च देशवचनत्वान्नोस्कन्धो जीवो नमस्कारः, तथा-चतुर्दशविधभूतग्रामैकदेशत्वाद् नोशब्दस्य च देशवचनत्वाद् नोग्रामरूपः प्रतिनियतः कोऽपि जीवो नमस्कार इति // 2863 // ननु कस्माजीवो नमस्कारः, नाऽजीवः ? इत्याहजं जीवो णाणमओ-ऽणन्नो नाणं च जं नमोकारो। तो सो जीवो दव्वं, गुणो ति सामाइएऽभिहियं // 2864 / / यद्यस्माद् ज्ञानमयो जीवः, ज्ञानं च यस्मात् श्रुतज्ञानरूपो नमस्कारः, अनन्यश्चाव्यतिरिक्तश्व ज्ञानाजीवः। ततः स नमस्कारो' जीवो त्ति जीव एव, नाजीवः, तस्य ज्ञानशून्यत्वादिति। भवतु जीवो नमस्कारः, केवलं द्रव्यमसौ, गुणो वा ? इति वक्तव्यमित्याह-'द्रव्यं गुणो वा नमस्कारः' इत्येतत्सामायिके' किं सामायिक इति द्वारे-"जीवो गुणपडिबन्नो, नयस्स दव्यट्टियस्स सामइयं / सो चेव पज्जवट्टियनयस्स जीवस्स एस गुणो।।१॥" (2643) इत्यादिना ग्रन्थेनाभिहितमेव, केवलं सामायिकस्थाने नमस्कारो वाच्य इति / / 2864 / / भवतु जीवो नमस्कारः, किन्तु नोस्कन्धो नोग्रामश्च कथमसौ ? इत्याहसव्वत्थिमओ खंधो, तदेकदेसो य जं नमोकारो।। देसपडिसेहवयणो, नोसद्दो तेण नोखंधो / / 2865 / / भूयग्गामो गामो, तदेकदेसो तउ त्ति नोगामो। देसो त्ति सो किमेको-ऽणेगो नेओ नयमयाओ।।२८६६ / / सर्व पञ्चास्तिकायाः, तन्मयस्तैर्निवृत्तः परिपूर्णः, स्कन्ध उच्यते।। तदेकदेशश्च यस्मान्नमस्कारवान् जीवः, नमस्कारतद्वतोश्चा-भेदोपचारानमस्कारोऽपि तदेकदेशः / देशप्रतिषेधवचनश्च नोशब्दः, तेन तस्मास्कन्धैकदेशो जीवः, अभेदोपचारान्नमस्कारश्च नोस्कन्ध इति। तथा"एगिदिय सुहुमियरा, सन्नियरपणिदिया सवितिचऊ। पज्जत्तापज्जत्ता, भेएणं चउदसग्गामा / / 1 / " इति वचनाचतुर्दशविधो भूतग्रामो ग्राम उच्यते। तदेकदेशश्च यस्मात्तकोऽसौ नमस्कारवान् देवमनुष्याऽऽदिजीवोऽभेदोपचारान्नमस्कारोऽपि तदेकदेश इत्यतोऽसौ नोग्रामोऽभिधीयते।' देसो ति पृच्छति विनेयः-भूतग्रामस्य देशः सन् स नमस्कारः, किमेकोऽनेको वा? इति वक्तव्यम्। गुरुराहज्ञेयो नयमतात-एकत्वमनेकत्वं च तस्य नयमताद्विज्ञेयमित्यर्थः। तदेतावता' किं जीवो (2862) इति व्याख्यातम् / / 2865 / 2866 // अथ' तप्परिणओ' (2862) इत्येतद्व्याचिख्यासुराहतप्परिणओ चिय जया, सहाईणं तया नमोक्कारो। सेसाणमणुवउत्तो, विलद्धिसहिओऽहवा जोग्गो // 2867 / /