________________ णमोकार 1926 - अभिधानराजेन्द्रः भाग-४ णमोकार भणितं प्रतिपादितम् / तद्यथा-" उजुसुयरस एगे अणुवउत्ते आगमओ एगे दव्वावस्सए पुहत्तं नेच्छइ" इति।।२८४८॥ स्थापनेच्छामप्यस्याऽऽहइच्छंतो य स दवं, तदणागारं तु भावहेउ त्ति / नेच्छेज कहं ठवणं, सागारं भावहेउ ति? / / 2846 / / इच्छंश्च ऋतुसूत्रस्तप्रसिद्धं सुवर्णाऽऽदिक द्रव्यं पिण्डावस्थायामनाकारं तथाविधकटककेयूराऽऽद्याकाररहितम् , विशिष्टेन्द्राऽऽद्याकाररहितं वा / कुत इच्छत् ? इत्याह-भावहेतुर्यतस्तद्-भविष्यत्कुण्डलाऽऽदिपायलक्षणभावहेतुत्वादित्यर्थः कथं नाम नेच्छे - त्स्थापनाम् ? कथंभूताम् ? साकारां विशिष्टेन्द्राऽऽद्याकारसहितामपीत्यर्थः / पुनरपि किंविशिष्टाम् ? इत्याह-भावहेतुभूतांसाकारत्वेन विशिष्टे न्द्राऽऽद्यभिप्रायकारणभूतामित्यर्थः / इदमुक्तं भवतियो ह्यनाकारमपि भावहेतुत्वाद् द्रव्यमिच्छति ऋजुसूत्रः, स साकारामपि विशिष्टेन्द्राऽऽदिभावहेतुत्वात् स्थापनां किमिति नेच्छेत् ? इच्छेदेव, नात्र संशय इति / / 2846 // उपपत्त्यन्तरेणापि द्रव्यस्थापनेच्छामस्य साध यन्नाह' नाम पि होज सन्ना, तव्वचं वा तदत्थपरिसुन्नं / हेउ त्ति तदिच्छंतो, दव्वट्ठवणा कहं नेच्छे? // 2850 / / ननु ऋजुसूत्रस्तावन्नाम निर्विवादमिच्छति / तच्च नाम इन्द्राऽऽदिसंज्ञामात्रं वा भवेत् , तद्वाच्यं वा तदर्थपरिशून्यमिन्द्रशब्दवाच्यं वा, इन्द्रार्थरहितं वा गोपालदारकाऽऽदि वस्तु भवेदिति द्वयी गतिः / इदं चोभयरूपमपि नामहेतुर्भावकारणमिति कृत्वा इच्छन्नसौ ऋ-जुसूत्रो द्रव्यस्थापने कथं नाम नेच्छेत् ? भावकारणत्वाविशेषादिति भावः / / 2850 // अह नामं भावम्मि वि, तेणेच्छइ तेण दव्वठवणा वि। भावस्साऽऽसन्नयरा, हेऊसद्दो उ वज्झयरो॥ 2851 / / अथेन्द्राऽऽदिकं नाम भावेऽपि भावेन्द्रेऽपि संनिहितमस्ति, तेन | तस्मादिच्छति तदृजुसूत्रः / तेन तर्हि जितमस्माभिः, अस्य न्याय-स्य द्रव्य स्थापनापक्षे सुलभतरत्वात् / तथाहि-द्रव्यस्थापने अपि भावस्येन्द्रपर्यायस्यासन्नतरौ हेतू, शब्दस्तु तन्नामलक्षणो बाह्यतर इति / एतदुक्तं भवति-इन्द्रमूर्तिलक्षणं द्रव्यं, विशिष्टतदाकाररूपातु स्थापना, एते द्वे अपीन्द्रपर्यायस्य तादात्म्यसंबन्धेनावस्थितत्वात् सन्निहिततरे, शब्दस्तु नामलक्षणो वाच्यवाचकभावसंबन्धमात्रेणैव स्थितत्वाबाह्यतर इति / अतो भावे सन्निहितत्वान्नामेच्छन् ऋजुसूत्रो द्रव्यस्थापने सन्निहिततरत्वात्सुतरामिच्छेदिति / तदेवमृजुसूत्रस्य चतुर्विधनिक्षेपेच्छासाधनेनानन्तरोक्तत्वातपरिहृतं तद्विषयं दुर्व्याख्यानम्॥२८५१ // अथ प्राग्यदुक्तम्-"ठवणावजे संगहववहारा " (2047) इत्यादि, तत्परिहरन्नाहसंगहिउ असंगहिओ, सव्वो वा नेगमो ठवणमिच्छे। इच्छइ जइ संगहिओ,तं नेच्छे संगहो कीस ? / / 2852 // इह संग्रहिकोऽसंग्रहिकः सर्वो वा नैगमस्तावन्निर्विवादं स्थापना मिच्छत्येव / तत्र संग्रहिकः संग्रहमतावलम्बी, सामान्यवादीत्यर्थः / असंग्रहिकस्तुव्यवहारनयमतानुसारी, विशेषवादीत्यर्थः, सर्वस्तु समुदितः। ततश्च यदि संग्रहिकः संग्रहमतावलम्बी नैगमस्तां स्थापनामिच्छति, तर्हि संग्रहस्तत्समानमतोऽपि तां किमिति नेच्छति ? इच्छेदेवेत्यर्थः / / 2852 // अहव मयमसंगहिओ, तो ववहारो वि किं न तद्धम्मा ? अह सव्वो तो तस्सम-धम्माणो दो वि ते जुत्ता / / 2853 / / (अहव मयमित्यादि)' अथवा 'इत्यव्ययोऽथाऽर्थे। अथ परस्य मतम्यद्यपि सामान्येन सर्वो नैगमः स्थापनामिच्छति, तथापि व्याख्यानतो विशेषप्रतिपत्तेरसंग्रहिकोऽसौ तामिच्छतीति प्रतिपत्तव्यम।' न संग्रहिकः' इत्यध्याहारः, न ततः संग्रहस्य स्थापनेच्छा निषिध्यत इति भावः / अत्रोत्तरमाह-' तो ' इत्यादि। तर्होकत्र संधित्सतोऽन्यत्र प्रच्यवते, एवं हि सति व्यवहारोऽपि स्थापनां किमिति' नेच्छति इति शेषः / कुतः? इत्याह-यतस्तद्धर्माऽसौअसंग्रहिकनैगमसमानधर्मा व्यवहारनयोऽपि वर्तते, विशेषवादित्वात् / ततश्चैषोऽपि स्थापनामिच्छदेवेति, निषिद्धा चास्यापि त्वया, " ठवणावजे संगहववहारा' इति वचनादिति / अथ सर्वोऽखण्डः परिपूर्णो नैगमः स्थापनामिच्छति, न तु संग्रहिकोऽसंग्रहिको वेति भेदवान, अतस्तदृष्टान्तात्संग्रहव्यवहारयोर्नस्थापनेच्छा साधयितुं युक्तेति भावः / अत्रोच्यते- ' तो ' इत्यादि / ततस्तर्हि तत्समधर्माणौ नैगमसमानधर्माणौ द्वावपि समुदितौ ताविति संग्रहव्यव-हारौ युक्तावेव / इदमत्र हृदयम्-तर्हि प्रत्येकं तयोरेकतरनिरपेक्षयोः स्थापनाऽभ्युपगमो मा भूदिति समुदितयोस्तयोः संपूर्ण गमरूपत्वात्तदभ्युगमः के न वार्यते, अविभागस्थाद् नैगमात्प्रत्येकं तदेकैकताग्रहणात् ? इति॥२८५३॥ इतश्च स्थापनाऽभ्युपगमः संग्रहव्यवहारयोर्युक्तः / कुतः? इत्याहजं च पवेसो नेगम-नयस्स दोसु बहुसो समक्खाओ। तो तम्मयं पि भिण्णं, मयमियरेसिं विभिन्नाणं / / 2854 // यच यस्मात् प्रवेशोऽन्तर्भावः, " जो सामन्नग्गाही सो नेगमो संगह गओ" इत्यादिना ग्रन्थेन प्रागत्रान्यत्र च नैगमनयस्य द्वयोः संग्रहव्यवहारयोर्बहुशोऽनेकधा समाख्यातः प्रतिपादितः। ततस्तन्मत-मपि स्थापनाऽभ्युपगमलक्षणं नैगमनयमतमपीतरयोः संग हव्यवहारयोविभिन्नयोर्भेदवतोभिन्न पृथग्मतं सम्मतमिति / इदमुक्तं भवतियथा विभिन्नयोः संग्रहव्यवहारयोर्नेगमोऽन्तर्भूतः, तथा स्थापनाऽभ्युपगमलक्षणं तन्मतमपि तयोरन्तर्भूतमेव, ततो भिन्नं भेदेन तो तदिच्छत एवस्थापनासामान्यं संग्रह इच्छति, स्थापनाविशेषाँस्तु व्यवहार इत्येतदेव युक्तं, तदनिच्छातु सर्वथाऽनयोन युक्तेति // 2854 / / अत्रैवोपचयमाहसामण्णाऽऽइविसिटुं, वज्झं पिजमुजुसुत्तपजंता। इच्छंति वत्थुधम्म, तो तेसिं सव्वनिक्खेवो / / 2855 / / यस्माच सामान्याऽऽदिविशिष्टं बाह्यमपि च विचित्रं बहुप्रकारमृजुसूत्रपर्यन्ता नया वस्तुधर्ममिच्छन्ति, ततस्तेषां सर्वेऽपि नामाऽऽदयो निक्षेपाः संमता एवेति। अतः " ठवणावजे संगहववहारा" (2847) इत्यादिना यत्केषाञ्चिन्मतं, तदसंगतमेयेति / / 2855 / /