________________ णमोकार 1825 - अभिधानराजेन्द्रः भाग - 4 णमोकार दिशब्दायो द्रव्यार्थ विद्यामन्त्रदेवताऽऽदीनां नमस्कारःक्रियते, सोऽपि / द्रव्यनमस्कारः / निवाऽऽदिनमस्कारस्य च द्रव्यत्वमप्राधान्यात् , अप्राधान्यं च तेषा मिथ्यात्वाऽऽदिकलुषितत्वादिति / भावनमस्कारस्त्वागमतः स विज्ञेयो, यमुपयुक्तः सम्यग्दृष्टिरहंदादीनांकुर्यादिति द्वारम्।। (4) अथ पदद्वारमुच्यते-पद्यते गम्यतेऽर्थोऽनेनेतिपदम्। तच पञ्चधानामिकम् , नैपातिकम् , औपसर्गिकम् , आख्यातिकम् , मिश्र चेति। तत्र' अश्वः ' इति नामिकम्। ' खलु ' इति नैपातिकम् , ' परि' इत्यौपसर्गिकम्।' धावति' इत्याख्यातिकम्। 'संयत इति मिश्रम्। एवं नामिकाऽऽदिपञ्चप्रकारपदसंभवे सत्याह-(नेवाइयं पयं ति) निपतत्यर्हदादिपदानामादिपर्यन्तयोरिति निपातः, निपातादागतं, तेन वा निर्वृत्तं, स एव वा स्वार्थिकप्रत्ययविधानान्नैपातिकम् ' नमः ' इति पदम्। इति पदद्वारम। (5) अथ पदार्थद्वारमुच्यते-(दव्वभावसंकोयण पयत्थो त्ति) इह' नमोऽर्हद्भ्यः ' इत्यादिषु यत्' नमः' इति पदं, तस्य नम इति पदस्यार्थः पदार्थः, स च पूजालक्षणः / सा च का? इत्याह-(दव्व-भावसंकोयण त्ति) द्रव्यसंकोचनम् , भावसंकोचनं च / तत्र द्रव्य-संकोचनं करशिरःपादाऽऽदिसंकोचः, भावसंकोचनं तु विशुद्धस्य मनसोऽहंदादिगुणेषु निवेशः / अत्रच भङ्गचतुष्टयम्। तद्यथा-द्रव्यसंकोचो न द्रव्यसंकोच इत्यनुत्तरसुराऽऽदीनाम् ; द्रव्यसंकोचो भावसंकोचश्च, यथा शम्बस्य ; न द्रव्यसंकोचो न भावसंकोच इति शुन्यः / इह च भावसंकोचप्रधानो द्रध्यसकोचोऽपि तच्छुद्धिनिमित्तः / इति नियुक्तिगाथासक्षेपार्थः / / 2840 // अथ नमस्कारस्य भाष्यकरो नामाऽऽदिनिक्षेप विस्तरतो व्याचिख्यासुराहनामाऽऽइचउब्मेओ, निक्खेवो मंगलं च सो नेओ। नाम नमोऽभिहाणं, ठवणा नासोऽहवाऽऽगारो।। 2841 // नामस्थापनाऽऽदिचतुर्भेदो नमस्कारस्य निक्षेपः / स चाधस्तादुक्तमङ्गलस्येव विस्तरतो विज्ञेयः। संक्षेपतस्त्विहाप्युच्यते-(नामं ति) नामनमस्कारो नमः' इत्यभिधानम्। स्थापनानमस्कारस्तु-' नमः' इत्यक्षरद्वयस्य विन्यासः। अथवा-नमस्कारकरणप्रवृत्तस्य संकोचितकरचरणस्य काष्ठपुस्तकचित्राऽऽदिगतस्य साध्वादेराकारः स्थापनानमस्कार इति // 2841 // द्रव्यनमस्कारमाहआगमओऽणुवउत्तो, अज्झेया दव्वओ नमोकारो। नोआगमओ जाणय-भव्वसरीराइरित्तोऽयं // 2842 // द्रव्यनमस्कारो द्वेधा-आगमतः, नोआगमतश्च / तत्रानुपयुक्तो नमस्कारस्याध्येता-आगमतो द्रव्यनमस्कारः / नोआगमतोऽयं / द्रव्यनमस्कारोज्ञशरीर-भव्यशरीर-तद्व्यतिरिक्तभेदात्त्रिविध इति। तत्र ज्ञशरीर-भव्यशरीर-वक्तव्यता क्षुण्णा / / 2842 / / तद्व्यतिरिक्त तु द्रव्यनमस्कारमाहमिच्छोवहया जं भावओ वि कुव्वंति निन्हवाऽऽईया। सो दव्वनमोकारो, सम्माणुवउत्तकरणं च / / 2843 / / मिथ्यात्वोपहता निह्नवाऽऽदयो भावतोऽपि यं नमस्कारं कुर्वन्ति, स | ज्ञशरीरभव्यशरीरव्यतिरिक्तोऽप्रधानत्वाद् द्रव्यनमस्कारः / तथा सम्यग्दृष्टिरप्यनुपयुक्तो यं नमस्कारं करोति स तद्व्यतिरिक्तो द्रव्यनमस्कार इति / / 2843 / / आह-ननुभावतोऽपि कुर्वतां निवाऽऽदीनां किमिति द्रव्यनमस्कारः ? अत्रोच्यते-अज्ञानित्वात् / अज्ञानित्वं च तेषां मिथ्यादृष्टित्वात् .' मिथ्यादृष्टेरज्ञानम् ' एतदपि कुतः? इत्याह सदसदविसेसणाओ, भवहेऊ जदिच्छिओवलंभाओ। नाणफलाभावाओ, मिच्छद्दिहिस्स अन्नाणं / / 2844 / / प्रागसकृद् व्याख्यातार्था // 2844 // प्रकारान्तरेणापि द्रव्यनमस्कारमाहजो वा दव्वत्थमसं-जयस्स व भयाइणाऽहवा सो वि। दव्वनमोकारो चिय, कीरइ दमएण रण्णो देव // 2845 // यो वा द्रव्यार्थ क्रियते स द्रव्यनमस्कारः। अथवा-द्रव्यलाभ विनाऽपि योऽसंयतस्य राजाऽऽदेर्भयाऽऽदिकारणतो द्रमकाऽऽदिना क्रियते, सोऽपि तद्व्यतिरिक्तो द्रव्यनमस्कार इति॥ 2845|| अथाऽऽगमतो नोआगमतश्च द्विविधं भावनमस्कारमाहआगमओ विनाया, तचित्तो भावओ नमोकारो। नोआगमओ सो चिय, सेसयकरणोवउत्तो त्ति / / 2846 / / तस्मिन् नमस्कारार्थे चित्तमुपयोगो यस्य नान्यत्रअसौ तचित्तो विज्ञाता आगमतो भावनमस्कारः, स एव मनस्करणेनोपयुक्तो नमस्कारकर्ता यदा शेषकाभ्यामपि वाक्कायकरणाभ्यामुपयुक्तो नमस्कारं करोतिवचनेन' नमोऽर्हद्भ्यः ' इति ब्रुवाणः, कायेन तु संकोचितकरचरणो यदा नमस्कारं करोतीत्यर्थः, तदाऽसौ नोआगमतो भावनमस्कार उच्यते, उपयोगलक्षणस्याऽऽगमस्य वाक्कायकरणक्रियामिश्रत्वात् , नोशब्दस्य चेह मिश्रवचनत्वादिति।। 2846 // अथामु नामाऽऽदिनिक्षेपमपि नयैर्विचार यन्नाहभावं चिय सद्दनया, सेसा इच्छंति सव्वनिक्खेवे। ठवणावग्जे संगह-ववहारा केइ इच्छंति / / 2847 // भावमेव भावनमस्कारमेव इच्छन्ति त्रयोऽपि शब्दनयाः, शुद्धत्वात्। शेषास्तु ऋजुसूत्रान्ताश्चत्वारो नयाः, सश्चितुरीऽपि निक्षेपानिच्छन्ति अविशुद्धत्वात्। केचित्तुव्याचक्षते-संग्रहव्यवहारौ स्थापनावजाँस्त्रीन्निक्ष्ज्ञेपानिच्छतः, सद्भावाऽसद्भावस्थापनायाः किल साङ्केतिकनामाभिधेयत्वेन नामनिक्षेप एवान्तर्भावा-दिति / / 2847 / / तथादव्वट्ठवणावजे, उजुसुओ तं न जुज्जए जम्हा। इच्छइ सुयम्मि भणियं, सो दव्वं किं तु न पुहत्तं / / 2848 / / द्रव्यस्थापनावों शेषौ द्वावेव नामभावनिक्षेपाविच्छति ऋतुसूत्रः / तदेतद् व्याख्यानं न युज्यते, यस्मादसौ ऋजुसूत्रो द्रव्यमिच्छत्येव, केवलं पृथक्त्वं नेच्छतिबहूनिद्रव्याऽऽवश्यकाऽऽदीनिनेछतीत्यर्थः / एतचोऽनुयोगद्वारलक्षणे,