________________ णमोक्कार 1824 - अभिधानराजेन्द्रः भाग - 4 णमोकार अथ परभवे समुत्पन्नस्य नमस्कारस्येहभवे स्वतः परतो वाऽनुत्पन्नस्य तस्याभिव्यक्तिलक्षणाया उत्पत्तेः कारणं समुत्थानं भविष्यति / तदप्ययुक्तम् / कुतः ? इत्याहउप्पज्जइ नाईयं, तक्किरिओवरमओ कयघडो व्व। अहवा कयं पि कीरइ, कीरउ निचं कओ णिट्ठा / / 2833 / / इहातीतोत्पादक्रियं वस्त्वतीतमभिप्रेतम् / तदेवंभूतं पूर्वभवेऽतीतोत्पादक्रियमतीत नमस्कारलक्षणं वस्त्विह भवे पुनरपि नोत्पद्यत इति प्रतिज्ञा। (तक्किरिओवरमओत्ति) तस्य नमस्कारस्योत्पादलक्षणा क्रिया तत्क्रिया, तस्या उपरमो विरामः तत्क्रियोपरमः, तस्मादिति हेतुः / कृतघटवदिति दृष्टान्तः इहयस्योत्पत्तिक्रियोपरता तत्पुनरपि नोत्पद्यते, यथा पूर्वकृतो घटः; उपरतोत्पत्ति-क्रियश्च पूर्वभवोत्पन्नो नमस्कार इष्यते, तत इहभवे पुनरपि नोत्पद्यत इति / अथवा पूर्व कृतमपि पुनः क्रियते, तर्हि पुनः पुनर्नित्यमेव क्रियताम् , पूर्वकृतत्वाविशेषात् / तथा च सति कुतः करणक्रियाया निष्ठा ? इति। तदेवं य इहोत्पद्यते नासौ पूर्वोत्पन्न इति सामर्थ्यादुक्तम्।। 2833 // अथवा-भवतु पूर्वोत्पन्नः, तथाऽपि मत्पक्षसिद्धिरिति दर्शयन्नाहहोउ व पुव्वुप्पाओ, तह विन सो लद्धिवायणाभिन्नो। जेण पुरा वि सयं वा, परओ वा होज्ज से लाभो // 2834 / / भवतु वा नमस्कारस्य पूर्वजन्मन्युत्पादः, तथाऽपि न स तदुत्पादो लब्धिवाचनाभ्यां भिन्नः-न लब्धिवाचनालक्षणकारणद्वयव्यतिरेकेण समुत्थानलक्षणेन कारणेन नमस्कारो जन्यत इत्यर्थः / कुतः? इत्याहयेन यस्मात्पुरा परभवेऽपि प्रष्टव्योऽसि त्वं स्वयं वा परतो वा (से) तस्य नमस्कारस्य लाभ इति वक्तव्यम् ? यदि स्वयं, तर्हि लब्धिरेव तत्कारणम्। अथ परतः, तर्हि वाचना तद्धेतुरिति न किमप्येतत्कारणद्वयव्यतिरिक्तं समुत्थानलक्षणं कारणं पश्याम इति / / 2834 // अथ' सेसनया लद्धिमिच्छंति" (2807) इत्येतद् च्याचिख्यासुराहसद्दाऽऽइमयं न लहइ, जं गुरुकम्मा पवायणाए वि। पावइ य तयावरण-क्खओवसमओ जओऽवस्सं // 2835 / / शब्दसमभिरूद्वैवंभूतनयानामेतन्मतम्-यद्यस्मात्कारणाद् गुरुकर्मा प्राणी गुरुभ्यः प्रवाचनायां सत्यामपि नमस्कारं न लभते, लघुकर्मा तु वाचनामन्तरेणाऽपि तदावरणकर्मक्षयोपशमाद्यतोऽवश्यमेव नमस्कार प्राप्नोति / / 2835 / / तो हेऊ लद्धि चिय, न वायणा जइ मइक्खओवसमो। तक्कारणो त्ति तम्मि वि, नणु साउणेगंतिगी दिट्ठा // 2836 / / (तो हेऊ लद्धि चिय त्ति) ततस्तस्माद्वाचनाया नमस्कारजनने व्यभिचारित्वात्तदावरणक्षयोपशमलक्षणा लब्धिरेव तद्धेतुर्न वाचनेति। यदि तु ऋजुसूत्रः कथमप्येवं ब्रूयात्-ननु मतिज्ञानाऽऽवरणाऽऽदिकर्मक्षयोपशमस्तत्कारणो वाचनाजन्यः, तथा च सति तत्क्षयोपशमजन्यस्य नमस्कारस्य पारम्पर्येण वाचनाऽपि कारणं भवति। अत्रोच्यतेननुतस्मिन्नपि मतिज्ञानाऽऽवरणाऽऽदिकर्मक्षयोपशमेजन्ये सा वाचनाऽनैकान्तिकी / दृष्टा, गुरुकर्मणां वाचनातोऽपि यथोक्तक्षयोपशमादर्शनादिति // 2836 // अथ कस्यापि तायवाचनातः कर्मक्षयोपशमो भवत्रुपलभ्यते, तमाश्रित्य वाचना नमस्कारकारण भविष्यति / तदप्ययुक्तम्। कुतः? इत्याहजस्स वि स तन्निमित्तो, तस्स वितम्मत्तकारणं होजा। ननमोक्कारस्स तई, कम्मक्खओवसमलब्भस्स / / 2837 / / यस्यापि जीवस्य स मतिज्ञानाऽऽवरणाऽऽदिकर्मक्षयोपशमस्तनिमित्तो वाचनाहेतुको दृश्यते, तस्यापि तन्मात्रकारणं यथोक्तक्षयोपशमनिमित्तं (तह त्ति) सा वाचना भवेत् नतुनमस्कारस्य कारणं सा युज्यते / कथंभूतस्य? इत्याह-कर्मक्षयोपशमलभ्यस्य / इदमुक्त भवति-एवमपि मतिज्ञानाऽऽवरणाऽऽदिक्षयोपशमादेवानन्तरं नमस्कार उत्पद्यते, न तु वाचनातः, ततोऽसावेव तत्कारणं युज्यते, न तुवाचना, तस्या यथोक्तक्षयोपशमजनकत्वेनाऽन्यकारणत्वादिति / / 2837 / / पुनरपि परमतमाशक्य परिहरन्नाहअह कारणोवगारि, त्ति कारणं तेण कारणं सव्वं / पारण वज्झवत्थु, को नियमो सहमेत्तम्मि ? // 2838 / / अह पचासण्णतरं, कारणमेगंतियं तओ लद्धिं / पडिवजन चेदेवं, न वायणमित्तनियमो ते॥२८३६ / / अथ कारणस्य यथोक्तक्षयोपशमस्योपकारिणी वाचनेति, अतः कारणकारणत्वादसौ नमस्कारस्य कारणमिष्यते / अत्रोच्यते-(तेणेत्यादि) तेन तर्हि प्रायेण सर्वमपि क्षितिशय्याऽऽसनाऽऽहार-वस्त्रपात्राऽऽदिकं बाह्य वस्तु नमस्कारकारणस्य यथोक्तक्षयोपशमस्योपकारित्वात्परम्परया नमस्कारस्य कारणं प्राप्नोति / अतः को नाम वाचनालक्षणे शब्दमात्रे तत्कारणत्वनियमः ? इति / / 2838 / / अथ परम्परया सर्वस्य बाह्यवस्तुनो नमस्कारकारणोपकारित्वे सत्यपि यदेव प्रत्यासन्नतरं वाचनालक्षणं वस्तु, तदेवाऽऽसन्नोपकारित्वान्नमस्कारस्य कारणमिष्यते। ननु तथाऽपि नमस्कारजनने तदेवैकान्तिकमित्युक्तमेव / तत एकान्तिकमानन्तर्येणातिप्रत्यासन्नतरं लब्धिमेव तत्कारणं प्रतिपद्यस्वा न चेदेव प्रतिपद्यसे, तर्हि न वाचनामात्रस्य नमस्कारकारणत्वनियमः 'ते' तव सिध्यति; क्षित्यादेरपि पूर्वोक्तनीत्या तत्कारणत्वप्राप्तेः / तदेवं प्रथमनयत्रयस्य त्रिविधं कारणम् , ऋजुसूत्रस्य द्विविधं, शब्दनयास्तु लब्धिमेवैकां नमस्कारकारणमिच्छन्तीति स्थितम्। इति द्वात्रिंशद्गाथार्थः / / 2836 / / तदेवमभिहितमुत्पत्तिद्वारम्। (3) इदानीं निक्षेपद्वारमुच्यते-तत्र नमस्कारस्य निक्षेपश्वतुर्धा-नामनमस्कारः,स्थापनानमस्कारः, द्रव्यनमस्कारः, भावनमस्कारश्चेति। तत्रनामस्थापने क्षुण्णे, ज्ञभव्यशरीरव्यतिरिक्तद्रव्यनमस्काराऽभि धित्सया पुनराहनिहणाऽऽइ दव्व भावो-वउत्तनं कुन्ज सम्मदिट्ठी उ। नेवाइयं पयं दव्वभावसंकोयण पयत्थो / / 2840 / / नमस्कारतद्वतोरभेदोपचारान्निवाऽऽदिद्रव्यनमस्कारः, आ