SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ णमोकार 1823 - अभिधानराजेन्द्रः भाग - 4 णमोक्कार उत्पद्यत इत्युत्पादीध्वनिरिति प्रतिज्ञा, इन्द्रियग्राह्यत्वात् ,घटवदिति। तथा-प्रयत्नाजायत इति प्रयत्नजः, तद्भावः प्रयत्नजत्वं, तस्मात्प्रयत्नजत्वात् / तथा-पुद्गलेभ्यः संभूतेः / तथा-ताल्वादिप्रत्ययभेदभेदित्वादुत्पादी शब्दः घटवदिति सर्वत्र द्रष्टव्यम् / यश्चोत्पादी स विनाशित्वादनित्य इति सिद्धमेवेति / / 2825 // तथा-उत्पादि ज्ञान नमस्कारज्ञानमिष्ट मिति प्रतिज्ञा, निमित्तसद्- भावादिति हेतुः, जिनाऽऽदिविषयाजायमानत्वादित्यर्थः / यथा कुम्भ इति दृष्टान्तः / न केवलं ज्ञानं, तथा शब्दशिरोनमनाऽऽदिका कायक्रिया, तेषां च ज्ञानाऽऽदीनां यो द्विकाऽऽदिसंयोगो नित्यत्वेनाभिमतः परस्य, एतत्सर्वमुत्पादि, निजनिजनिमित्ताज्जायमानत्वात् , यथा कुम्भः। ततो ज्ञानाऽऽद्यात्मको नमस्कार उत्पन्न इति सिद्धम् / तदेवं" सेसाणं उप्पण्णो" (2806) इति व्याख्या- तम्।। 2826 // " जइ कत्तो तिविहसामित्ता?" (2806) इत्येतद् व्याचिख्या- 1 सुराहउप्पत्तिमओऽवस्सं, निमित्तमस्स उणयत्तियं तिविहं। इच्छइ णिमित्तमेत्तो, जमण्णहा नत्थि संभूई / / 2827 // यदि नामोत्पन्नो नमस्कारस्ततः किम् ? अत्रोच्यते-उत्पत्तिमतश्च वस्तुनोऽवश्यं निमित्तम् , 'अस्ति ' इति क्रियाऽध्याहारः / तथा चसत्यस्य नमस्कारस्योत्पत्तिमत्त्वादविशुद्धनैगमसंग्रहव्यवहारलक्षणं प्रथमनयत्रिक समुत्थानवाचनालब्धिस्वरूपं त्रिविधं निमित्तमिच्छति। कुतः? इत्याह-(एत्तो इत्यादि) यद्यस्माद्यतस्विविधाद् निमित्तादन्यथाऽन्येन प्रकारेण नमस्कारस्य नास्ति संभूतिरुत्पत्तिरिति / / 2827 / / तत्र समुत्थानलक्षणं निमित्तं व्याचिख्यासुराहदेहसमुत्थाणं चिय, हेऊ भवपच्चयावहिस्सेव। पुव्वुप्पण्णस्स वि से, इहभवभावो समुत्थाणं / / 2828 / / सम्यक् सङ्गतं वा उत्तिष्ठति जायतेऽस्मादिति समुत्थानम्, देह एव समुत्थानं, तदेव तावद्धेतुर्निमित्तम् , ' से ' तस्य नमस्कारस्य। आहयदाऽयमन्यभव एव स्वाऽऽवरणक्षयादुत्पन्नः स्यात्तदा कथमय देहो हेतुः ? इत्याशङ्कयाऽऽह-(पुव्वुप्पन्नस्स विसे इहभवभावो समुत्थाणं ति) प्राग्भवे उत्पन्नस्यापि नमस्कारस्येहभवभाव इहभवशरीरं समुत्थानं कारणं भवति, एतद्भावभावित्वात्तस्य। दृष्टान्तमाह-(भवपच्चयावहिस्सेव त्ति) यथा हि भवप्रत्ययोऽवधिस्तीर्थकराऽऽदिसंबन्धी प्रागुत्पन्नोऽप्येतद्भवशरीरमन्तरेण न भवति / ततश्चेहभवशरीरं तस्य समुत्थानमेवं नमस्कारस्यापीति / एतदुक्तं भवति-यथा पूर्वोत्पन्ना अपि घटाऽऽदयो दीपेनाभिव्यज्यन्ते, तथा पूर्वोत्पन्नोऽपि नमस्कार इहभवदेहेनाभि-- व्यज्यते, इत्यसौ तस्य निमित्तं व्यपदिश्यत इति // 2828 / / अत्र परमतमाशक्य परिहरन्नाहअण्णे सयमुत्थाणं,सविरियमण्णोवगारविमुहं ति। तदजुत्तं तदवत्थे, चुयलद्धे लद्धिओ णग्नं / / 2826 / / अन्ये सूरयः स्वकमुत्थानं स्वमुत्थानं, स्ववीर्यमित्याचक्षते। कुतः? इत्याह-(अण्णोवगारविमुहं ति) अन्येनापान्तरालवर्तिना कारणान्तरेण | कृत उपकारोऽन्योपकारः, तद्विमुखं तन्निरपेक्षं, यतोऽनन्तरकारण मित्यर्थः, तस्मादन्योपकारविमुखत्वादनन्तर-कारणत्वात्स्ववीर्यनमस्कारस्य समुत्थानं कारणमिति / एतन्निरा-सार्थमाह-(तदजुत्तं ति) तवीर्यमयुक्तम् नमस्कारानन्तरकारणतया व्यभिचारित्वात्। कुतः? इत्याह-(तदवत्थे इत्यादि) यतस्तदवस्थेऽपि विद्यमाने वीर्ये कस्यापि लब्धोऽपि नमस्कारः स्वाऽऽवरणोदयात्पुनरपि च्यवते भ्रस्यति च्युतोऽपि कदाचित् तदावरणक्षयोपशमात्पुनरपि लभ्यते / तत एवं तदवस्थेऽपि वीर्ये च्युतलब्धे नमस्कारे सति विज्ञायतेलब्धितो नान्यद्वीर्य किमपि नमस्कारकारणमस्ति, व्यभिचारित्वात् / व्यभिचारित्वं च नमस्कारस्य तदन्वयव्यतिरेकाननुविधायित्वात् / लब्धिस्तु तस्याव्यभिचारि कारणम् , तदन्वयव्यतिरेकानुविधायित्वादिति / / 2826 / / तदेवं समुत्थानं व्याख्याय वाचनालब्धिस्वरूपं __व्याचिख्यासुराहपरओ सवणमहिगमो, परोवएसो त्ति वायणाऽभिमया। लद्धीय तयाऽऽवरण-क्ख ओवसमओ सयं लाभो / / 2830 / / परतो गुरुभ्यो यच्छ्रवणम् , तथा-अधिगमः, परोपदेशश्च, सा वाचनाऽभिधीयते / लब्धिस्तु का ? इत्याह-परतो वाचनामन्तरेण नमस्कारस्य यः स्वयं लाभः / कुतः पुनर्या लब्धिः? इत्याह-तदावरणक्षयोपशमात्-नमस्काराऽऽवरणकर्मक्षयोपशमादित्यर्थः / आहननु तदावरणक्षयोपशम एव लब्धिरन्यत्र प्रसिद्धा, तत् कथमिह तत्कार्यभूतो नमस्कारलाभो लब्धित्वेनोच्यते, नमस्कारकारणस्यैवेह चिन्तयितुं प्रस्तुतत्वात् यथोक्ताया एव च लब्धेर्नमस्कारकारणत्वात् ? सत्यम् , किन्तु तत्कार्यभूतोऽपि नमस्कारलाभोऽत्र लब्धिरुक्ता, कारणे कार्योपचारादिति / एतदविशुद्धनगमसंग्रहव्यवहारनयमतेन त्रिविधं नमस्कारकारणं मन्तव्यमिति / / 2830 // ऋजुसूत्रमतेन तु द्विविधमेव कारणमिति दर्शयन्नाहउज्जुसुयणयमयमिणं, पुव्वुपण्णस्स किं समुत्थाणं ? अह संपइमुप्पज्जइ, न वायणालद्धिभिन्नं तं / / 2831 // ऋजुसूत्रनयस्येदं मतम्-यदि पूर्वभवोत्पन्नो नमस्कारः, तदेहभवदेहलक्षणं समुत्थानं तस्य किं करोति ? न किञ्चिदित्यभिप्रायः; उत्पन्नस्य कारणापेक्षायोगादिति / अथ साम्प्रतमिहभवे समुत्पद्यते नमस्कारः, तर्हि यस्तस्य कारणं तद्वाचनालब्धिभ्यां भिन्नं व्यति-रिक्तं न किञ्चित्पश्यामः ; अत इदमेवं द्विविधं तस्य कारणमिति॥२८३१।। इदमेव भावयन्नाहपरओ सयं व लाभो, जइ परओ वायणा सयं लद्धी। जंन परओ सयं वा, तओ किमण्णं समुत्थाणं? // 2832 / / नमस्कारस्य हि लाभो जायमानः परतोऽपि भवेत् , स्वयं वा ? इति द्वयी गतिः, तत्र यदि परत इतिपक्षः, तर्हि (वायण त्ति) गुरूपदेशलक्षणा वाचनैव तत्र कारणम् / अथ स्वयमिति पक्षः, तर्हि (लद्धि त्ति) तदावरणक्षयोपशमलक्षणा लब्धिरेव तत्र कारणं, नापरम् / यच परतः स्वयं वा नोत्पद्यते, तत्खरविषाणकल्पमवस्त्ववेत्यध्याहारः; वस्तुन उत्पत्तौ यथोक्तप्रकारद्वयस्यैव संभवात्, अनुत्पन्नस्य चावस्तुत्वादिति। ततस्तस्माद्वाचनालब्धिभ्यामन्यत्किं नाम समुत्थानं यत्स्वयं परतो वाऽनुत्पन्नस्यावस्तुनः कारणं भवेदिति ? // 2832 //
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy