________________ णमोकार 1822 - अभिधानराजेन्द्रः भाग - 4 णमोकार लताऽऽदिगुणवद् एवं जीवगुणा अपि नमस्काराऽऽदय उत्पादाऽऽदिधर्मका एव, गुणत्वात् , पत्रधर्मवत् इत्यपि त्वदुक्तविपरीतं ब्रुवतां को दोषः ? न कश्चिदिति / / 2821 // वाच्यवाचकभावसंबन्धात्सिद्ध किलशब्दस्य नित्यत्वम् / न हि स्वयमनित्यस्यानादिकालसंसिद्धैर्नित्यैर्मेर्वादिभिरर्थः सह वाच्यवाचकभावसंबन्धः सिद्धयतीति भावः / तर्हि घटाऽऽदिवाचकशब्दानां नित्यत्वे सिद्धे तेषामपि तत्साध्यते; तद्यथा-नित्या घटाऽऽदिवाचकशब्दाः, शब्दत्वाद् , मेर्वादिशब्दवदिति। अत्रैव तृतीयहेतुमाह-(अणवत्थाओ त्ति) अयं च विपर्यये बाधक एव हेतुः / मूलहेतुस्त्वित्थं द्रष्टव्यःनित्याः सर्वेऽपि घटाऽऽदि-वाचकाः शब्दाः, अनादिकालात् तद्वाचकत्वेन तेषां सिद्धत्वाद् , इह यदनादिकालसिद्धं तन्नित्यं दृष्टम्, यथा चन्द्रार्क विमानाऽऽदयः, अनादिकालसिद्धाश्च घटाऽऽदिवाचकशब्दाः, तस्मान्नित्या इति / ननु साङ्केतिका एव घटाऽऽदिवाचकशब्दास्ततोऽसिद्धममीषामनादिकालसिद्धत्वमिति चेत् / तदयुक्तम् / सङ्केतस्य कर्तुमशक्यत्वात् / कुतः ? इत्याहअनवस्थातः, अनवस्थाप्रसङ्गोऽत्र बाधक प्रमाणमित्यर्थः / तथाहि-येन शब्देन सङ्केत क्रियते, तत्रापि सङ्केतकारकं शब्दान्तरमपेक्षणीयम् , तत्राप्यन्यत् , पुनस्तत्राप्यपरमिति, एवमनवस्थाप्रसङ्गतोऽशक्यं सङ्के तकरणम्। अथपर्यन्ते कश्चिदकृतसङ्केतोऽपिध्वनिरिष्यते, तर्हि प्राक्तना अपि सर्व ध्वनयोऽकृतसङ्केताः, शब्दत्वात्, पर्यन्तध्वनिवत्, इत्यसाडेतिकत्वात्सिद्धं घटाऽऽदिवाचकशब्दानामनादिकालसिद्धत्वमिति। चतुर्थं हेतुमाह-(संबंधनिच्चयाओत्ति) नित्यः शब्दः उक्तन्यायेन तस्य घटाऽऽदिभिः सह वाच्यवाचकभावसंबन्धस्य नित्यत्वात : तस्यानित्यत्वे वाच्यवाचकभावसंबन्धनित्यत्वानुपपत्तेरिति / इत्थं च ज्ञानाऽऽदीना नित्यत्वे सिद्धे सिद्धोऽनुत्पन्नस्तदात्मको नमस्कार इत्याद्यनगमाभिप्राय इति / / 2818 // अथ शेषनया एतैरेव जीवानन्यत्वाऽऽदिहेतुभिर्ज्ञानाऽऽदी नामनित्यत्वं साधयन्तिजेणं चिय जीवाओ-ऽणन्नं तेणेव नाणमुप्पाइ। उप्पजइ जं जीवो, बहुहा देवाऽऽइभावेण / / 2816 / / येनैव कारणेन जीवादनन्यदभिन्नं ज्ञानं, तेनैव तदुत्पद्यते, यद्यस्माद्, बहुधा जीवो देवाऽऽदिभावनोत्पद्यते, तदुत्पादे च ज्ञानस्याप्युत्पादादिति // 2816 // यदुक्तम्-" निघुग्घाडोय सुए"(२८१६) इति तत्राऽऽहअविसिक्खरमागो, सुत्तेऽमिहिओ न सम्मनाणं ति। कोऽवसरो तस्स इहं, सम्मंनाणाहिगारम्मि? / / 2820 // अक्षरस्य योऽनन्ततमो भागो नित्योद्धाटः श्रुतेऽभिहितः, सोऽविशिष्ट एव सम्यरमिथ्याविशेषरहित एवोक्तः, न तु सम्यग्ज्ञानरूपः / ततः सम्यग्ज्ञानविचारेऽत्र प्रस्तुते कस्तस्याधिकारः ? इदमुक्तं भवतियद्यविशिष्टज्ञानरूपोऽक्षरानन्तभागो नित्योद्घाटत्वेन नित्यः, तर्हि नमस्काररूपस्य सम्यग्ज्ञानस्य नित्यत्वे किमायातम् ? अतो यत्किञ्चिदेतदिति // 2820 // यदुक्तम्-" अहवा अरूवगुणओ नाणं निचं " (2817) इत्यादि तत्राऽऽहअवगाहणाऽऽदओ नणु, गुणत्तओ चेव पत्तधम्म व्व। उप्पायाऽऽइसहावा, तह जीवगुणा वि को दोसो ? // 2821 / / नत्यवगाहनाऽऽदय उत्पादाऽऽदिधर्मका एव, गुणत्वात्, पत्रनी- | अवगाढारं च विणा, कुओऽवगाहो त्ति तेण संजोगो ? उप्पाई सोऽवस्संगचुवगाराऽऽदओ चेवं / / 2822 / / अवगाढारं चावगाहकं जीव-परमाण्वादिक विना विचार्यमाणः कुतोऽन्योऽवगाह इति वक्तव्यम् ? तेनावगाहन नभसा सहावगाहकस्य जीवाऽऽदेः, तेन चावगाहकेन जीवाऽऽदिना सहावगाह्यस्य नभसः संयोगोऽवगाह इति चेत्। ननु यद्येवं, जितमस्माभिः, यतोऽवश्यमुत्पादी असौ, संयोगत्वात्, व्यङ्गुलाऽऽदिसंयोगवदिति / एवं गतेरुपकारो गत्युपकारः, स आदिर्येषां स्थित्युपकाराऽऽदीनां ते गत्युपकाराऽऽदयो धर्मास्तिकायाऽऽदिगुणाः, तेऽप्येवमेवोत्पादवन्तो द्रष्टव्याः, गुणत्वाद्, अवगाहगुणवदिति // 2822 / / अपि च, आकाशपरमाण्वादिदृष्टान्ततो भवता नित्यत्वं साध्यते, तचाऽऽकाशाऽऽदीनां नित्यत्वम स्माकमसिद्धम् कुतः? इत्याहनय पज्जवओ भिन्नं, दव्वमिहेगंतओ जओ तेण। तन्नासम्मि कहं वा, नहाऽऽदओ सव्वहा निच्चा ? // 2823 / / नच पर्यायाघटाऽऽदिसंयोगवर्णगन्धाऽऽदेः सकाशाद्, यतोयस्माद्, द्रव्यमेकान्ततो भिन्नम् , किन्त्वभिन्नमपि तत्तस्मादिष्यते, तेन तस्माकारणात् , तन्नाशे पर्यायविनाशे, कथं वा केन वा प्रकारेण, नभःपरमाण्वादयः सर्वथा नित्याः ? कथञ्चिद्यदि नित्या भवन्ति, तर्हि भवन्तु / यत्तु सर्वथा नित्यत्वं, तत्तेषां न घटते, पर्यायविनाशे तद्रूपतया तेषामपि विनाशादिति भावः / तत एकान्तनित्यत्वे साध्ये नैतेषां दृष्टान्तत्वं युक्तमिति / / 2823 / / यदुक्तम्-" दरिसणपरत्थयाओ " (2818) इत्यादि, तत्र दूषणातिदेशमाहनिचत्तसाहणाणिय, सहस्सासिद्धयाऽऽइदुट्ठाई। संभवओ वचाई, पक्खोदाहरणदोसा य॥२८२४ / / दर्शनपरार्थत्वाऽऽदीनि शब्दस्य नित्यत्वसाधनानि यानि उक्ता-नि, तानि न्यायमार्गानुसारिभिः स्वयमेवाभ्यूह्य यथासंभवमसिद्धताऽऽदिदोषदुष्टानि वाच्यानि। तथाहि-दर्शनपरार्थत्वादित्यसिद्धो हेतुः, स्वावबोधार्थमपि क्वचिच्छब्दप्रयोगदर्शनात्: तथाऽनैकान्तिकश्च, विपर्यय बाधकप्रमाणाभावात्। विरुद्धोवा, प्रयोगानन्तरमेव विशरारुत्वदर्शनात्; कृतकत्वाद्वा शब्देऽनित्यत्वस्यैव दर्शनात् / इत्यादिदूषणानि सर्वत्राभ्यूह्य वक्तव्यानि।तथा-पक्षोदाहरणदोषाश्च वाच्याः, वयं तु साक्षान्न बमः,ग्रन्थविस्तरभयात्। तत्र प्रत्यक्षाऽऽदिबाधितः पक्षः, साध्यसाधनविकलमुदाहरणम्। इत्यादिदोषाः स्वयमेव द्रष्टव्या इति // 2824 // तदेवं नैगमोक्तं दूषयित्वा स्वपक्षसिध्यर्थं शेषनयाः प्राऽऽहुःधणिरुप्पाई इंदिय-गज्झत्ताओ पयत्तजत्ताओ। पुग्गलसंभूईओ, पञ्चयभेए य भेयाओ / / 2825 / / उप्पाइ नाणमिटुं, निमित्तसब्भावओ जहा कुंभो। तह सद्दकायकिरिया, तस्संजोगो य जोऽभिमओ // 2826||