________________ णमोक्कार 1821 - अभिधानराजेन्द्रः भाग-४ णमोकार अथाऽऽद्यनैगमनयमतमाशङ्कय परिहरन्नाहअह परसंतो त्ति तओ, संतो किं नाम कस्स नासंतं ? अहणाऽऽइव्ववएसो, नेवं न य परधणाफलया।। 2812 / / / अथैवं ब्रूषे-(परसंतो त्ति तओ संतो ति) परसन्ताने सर्वदेवास्ति नमस्कारः, नानाजीवेषु तस्य सर्वकालमध्यवच्छेदात् / योऽयमत्र नोपलभ्यते, तत्राप्यसौ (संतो त्ति) सन्नुच्यते। अत्रोत्तरमाह-(किं नाम कस्सनासंतं? ति) यदि हि अन्यसन्तानवर्त्यपि वस्त्यन्यस्य सदुच्यते, तर्हि किं नाम वस्तु धनाऽऽदिकं कस्य नासद् ? अपि तु सर्व सर्वस्यासत्प्राप्नोति / अस्य चोपलक्षणत्वात्- ' इत्थं सर्व सर्वस्य सत्प्राप्नोति ' इत्यपि द्रष्टव्यम् / ततश्चैवम्-ईश्वरधनेन दरिद्राणामधनानामपि धनवत्त्वादधनव्यपदेशः कस्यापि न स्यात् / न चेत्थं परधनस्याफलता भवेत् , अन्यधनस्यान्यत्रापि सत्वात् , तथा च तत्फलस्यापि सद्भावादिति॥२८१२॥ ततः किं भवेद् ? इत्याहसव्वधणं सामन्नं, पावइ भत्तीफलं व सेसं च / किरियाफलमेवं चा-ऽकयागमो कयविणासो य / / 2813 // एवं सति यदेकस्येश्वरस्य संबन्धि तत्सर्वेषां दरिद्राणामपि धनं सामान्य साधारणं प्राप्नोति / यद्वा-यदेकस्य नमस्कारवतोऽहंदादिभक्तिफलं, तमिथ्यादृशामपि नमस्कारशून्यानां सामान्य प्राप्नोति; तथा शेषं च यद्दान-ध्याना-हिंसा-ऽमृषावादाऽऽदिक्रियाफलं, तत्सर्वेषां सामान्य प्राप्नोति / एवं च सत्यकृतस्यापि पुण्य-पाप-सुखदुःखाऽऽदेरागमः, कृतस्यापि च पुण्यपापाऽऽदेर्विनाशः स्यादिति / / 2813 / / पुनरपि नैगममतमाशय परिजिहीर्षवः शेषनयाः प्राऽऽहु:अह भत्तिमंतसंताणओ स नियो त्ति कहमणुप्पण्णो ? नणु संताणित्तणओ, स होइ बीयंकुराइ व्व / / 2814 // अथानुत्पन्ननमस्कारवादिन् ! एवं ब्रूषेभक्तिमतां सम्यग्दृष्टीनां यः सन्तानः प्रवाहः, तस्मात्तमाश्रित्य, नित्यो नमस्कारः / सम्यग्दृष्टीना हि सन्तानो न कदाचिद् व्यवच्छिद्यते। अव्यवच्छिन्नत्वाच नित्योऽसौ, यच नित्यं तदाकाशवन्नोत्पद्यते / ततः किलानुत्पन्नो नमस्कार इति परस्याऽऽकूतम् / अत्रोत्तरमाह-(कहमणुपण्णो त्ति) नन्वेवमपि। कथमनुत्पन्नो नमस्कारः? न कथञ्चिदित्यर्थः / कुतः ? इत्याह-(नणु इत्यादि) ननुयद्यपि सम्यग्दृष्टीनां सन्तानो नित्यः,तथाऽपि सम्यग्दृष्टयः सन्तानिनो नित्वा एव, मनुष्याऽऽदिभावेन तेषामुत्पादविनाशादिति / सम्यग्दृष्ट्यव्यति-रेकाच नमस्कारोऽपि सन्तानी, सन्तानित्वाच (स होइ त्ति) स नमस्कारो भवत्युत्पद्यते, बीजाकुराऽऽदिसन्तानिवदिति। इह यः सन्तानी स उत्पद्यते, यथा बीजाकुराऽऽदिः, सम्यग्दृष्टि - | सन्तान्यव्यतिरेकात् , सन्तानी च नमस्कार इति उत्पद्यत एव / ततः कथमनुत्पन्नोऽसौ ? इति // 2814 // किञ्चहोजाहि नमोकारो, नाणं सहो व कायकिरिया वा। अहवा तस्संजोगो, न सव्वहा सो अणुप्पत्ती।। 2815 / / नमस्कारो हि ज्ञानं वा भवेतु," नमो अरिहंताणं " इत्यादि-शब्दो वा | शिरोनमनकरकुड् मलमीलनविवक्षितावयवसंकोचनाऽऽदिलक्षणा कायक्रिया वा, द्विकाऽऽदिको वा ज्ञानाऽऽदिसंयोगो भवेदिति चत्वारः पक्षाः। किञ्चातः ? इत्याह-(नसव्वहा सो अणुप्पत्ति त्ति) सर्वथा सर्वैरपि प्रकारै यमनुत्पत्ति त्तिर्नानुत्पन्नो घटत इत्यर्थः / ज्ञानाऽऽदीना चतुर्णामप्युत्पादाऽऽदिधर्मकत्वादिति / / 2815 // अथ नैगमः प्राऽऽहननु ज्ञानाऽऽदीनामुत्पादाऽऽदिधर्मकत्वमसिद्ध, नित्यत्वाद् , आकाशवत्। तत्र ज्ञानस्य तावन्नित्यत्वं साधयन्नाहनणु जीवाओऽणनं, नाणं णिचो य सो तओ तं पि। निघुग्घाडो य सुए, जमक्खराणंतभागो त्ति / / 2816 / / ननु जीवादनन्यदभिन्नं ज्ञानं, नित्यश्वासौ जीवः, ततस्तदव्यतिरेकात्तदपि, 'नित्यम् ' इति शेषः / ततो नोत्पादाऽऽदिधर्मकं ज्ञानम् , नित्यत्वात् नभोवदिति भावः। एवमुत्तरत्रापि भावार्थो वक्तव्यः। किञ्च।' सव्वजीवाणं पिय णं अक्खरस्स अणंतभागो निचुग्धाडियओ" इति वचनाद्न क्षरति न विनश्यतीत्यक्षरं केवल-ज्ञानम् , तस्यानन्तभागो नित्योद्घाटो नित्यावस्थितोऽनावृत एव सर्वदा तिष्ठतीति यद्यस्माच्छुतेऽभिहितम् , तस्माच नित्यं ज्ञानं, नित्यानावृतत्वाद् , नभोवदिति / / 2816 // अहवा अरूवगुणओ, नाणं निचं नहावगाहो व्व। लयणप्पयासपरिणामओय सव्वं जहा अणवो।। 2817 // अथवा-नित्यं ज्ञानम् , अरूपद्रव्यगुणत्वाद् , यथा नभोद्रव्यस्यावगाहगुणः / अथवा-सर्वमपि ज्ञानशब्दाऽऽदिकं नित्यं, लयनप्रकाशपरिणामत्वात् , तिरोभावाऽऽविर्भावधर्मकत्वादित्यर्थः, यथा परमाणव इति / / 2817 // अथ विशेषतोऽपिशब्दस्य नित्यत्वं साधयन्नाहदरिसणपरत्थयाओ, अइंदियत्थत्तओऽणवत्थाओ। संबंधनिच्चयाओ, सद्दावत्थाणमणुमे।। 2818 / / इह शब्दस्यावस्थानं सदाऽवस्थितत्वं नित्यत्वमनुमेयं साध्यम्। (दरिसणपरत्थयाओ त्ति) दर्शनं प्रकटमं शब्दस्योचारणं व्यापारणं प्रयोग इति यावत् , तस्य दर्शनस्य शब्दप्रयोगस्य परार्थत्वं परप्रत्यायकत्वं, तस्माद्दर्शनपरार्थत्वादिति हेतुः / इदमुक्तं भवति-न खलु वक्तृभिः शब्दोत्पादनमात्रार्थमेव शब्दप्रयोगः क्रियते, किंतु परार्थत्वात् परप्रत्यायननिमित्तत्वादिति; यच परार्थ व्यापार्यते तत् तद्व्यापारकालात् प्रागप्यस्ति, यथा-वृक्षाऽऽदिच्छेदनक्रियानिमित्तं व्यापार्यमाणः कुठारः छेदनक्रियाव्यापारकालात्प्रागप्वस्ति; ततः शब्दः सदाऽऽवस्थितत्वान्नित्यः सिद्धः। अत्रैव द्वितीय हेतुमाह-(अइंदियत्थत्तओ त्ति) अतीन्द्रिया मेरुस्वर्गाऽऽदयोऽर्था अभिधेयत्वेन यस्यासावतीन्द्रियार्थः, तद्भावोऽतीन्द्रियार्थत्वं, तस्मादतीन्द्रियार्थत्वान्नित्यः शब्दः, केवलज्ञानवत्। इदमुक्त भवति-ये इन्द्रियग्राह्या घटाऽऽदयोऽर्थाः, तेषु संकेतवशात्कृतक एव किल वाच्यवाचकत्वसंबन्धः, अतस्तस्माच्छब्दस्य नित्यत्वं न सिध्यति; ये त्वतीन्द्रिया मेरुस्वर्गाऽऽदयोऽर्थाः, तेषामतीन्द्रियत्वेनैव किलसंकेतः कर्तुन शक्यते, अतोऽनादिकालससिद्धोऽकृतक एव शब्दस्य तेषु वाच्यवाचकभावसंबन्धः / अतोऽतीन्द्रियार्थः सहानादिकालसंसिद्धादकृतकत्वेन नित्याद्