SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ णमोकार 1820 - अभिधानराजेन्द्रः भाग - 4 णमोक्कार सा चास्य द्विविधाऽऽदिभेदतो विधेया / वसन्त्यस्मिन् गुणा इति वस्तु, तच नमस्कारार्ह वाच्यम् / आक्षेपणमाक्षेपः पूर्वपक्षो वाच्यः। प्रसिद्धिस्तत्परिहाररूपा वक्तव्या / क्रमोऽर्हदादिरभिधेयः / प्रयोजनमर्हदादिक्रमस्य कारणं वाच्यम् / अथवा-येन प्रयुक्तः प्रवर्त्तते तन्नमस्कारस्य प्रयोजनमपवर्गाऽऽख्यं वाच्यम्। तथा-फलं च नमस्करणाऽऽदिक्रियाऽनन्तरभावि स्वर्गाऽऽदिकं निरूपणीयम्। अन्ये तु व्यत्ययेन प्रयोजनफलयोरथ प्रतिपादयन्ति-(नमोक्कारोक्ति) नमस्कारः खल्वेभिरिश्चिन्तनीयः / इति नियुक्तिगाथासंक्षेपार्थः // 2805 // (2) अथ नियुक्तिकार ण्वोत्पत्तिद्वारं विस्तरेणाऽऽहउप्पण्णाऽणुप्पण्णो, इत्थ नया णेगमस्सऽणुप्पण्णो। सेसाणं उप्पण्णो, जइ कत्तो तिविहसामित्ता!। 2806 / / उत्पन्नश्वासावनुत्पन्नश्चेत्युत्पन्नानुत्पन्नो नमस्कारो मन्तव्यः / आह - कथमेक एवोत्पन्नोऽनुत्पन्नश्च भवति, विरोधाद् ? इत्याह-(इत्थ इत्यादि) अत्र नयाः प्रवर्तन्ते ? ते च नैगमाऽऽदयः सप्त। नैगमो द्विविधः-सर्वसंग्राही, देशसंग्राही च / तत्राऽऽदिनैगमस्य सामान्यमात्रावलम्बित्वात्, तस्य चोत्पादव्ययरहितत्वाद् नमस्कारस्यापि तदन्तर्गतत्वादनुत्पन्नः। (सेसाचं उप्पण्णो त्ति) शेषा विशेषग्राहिणः, तेषां शेषाणां विशेषग्राहित्वात् , तस्य चोत्पादव्ययवत्त्वाद् , उत्पादव्ययशून्यस्य वान्धयाऽऽदिवदवस्तुत्वात्, नम-स्कारस्य तु वस्तुत्वादुत्पन्न इति / (जइ कतो त्ति) यद्युत्पन्नः, कुतः ? इत्याह-(तिविहसामित्ता) त्रिविधं च तत्स्वामित्वं चेति समासः / तरमात्त्रिविधस्वामित्वात् त्रिविधस्वामिभावात्त्रिविधकारणादित्यर्थः / / 2506 // तदेव त्रिविधस्वामित्वं दर्शयतिसमुठाणवायणाल-द्धिओ य पढमे नयत्तिए तिविहं। उज्जुसुयपढमवज्जं, सेसनया लद्धिमिच्छंति॥२८०७।। (समुठाणेत्यादि) समुत्थानतः, वाचनातः, लब्धितश्च / ' नमस्कार उत्पद्यते ' इति वाक्यशेषः / तत्र सम्यक् सङ्गतं वोत्तिष्ठतेऽस्मादिति समुत्थानम् निमित्तमित्यर्थः / किं पुनस्तदिह ? इति / उच्यतेअन्यस्याश्रुतत्वात् , तदाधारतया प्रत्यासन्नत्वावेहोऽत्र परिगृह्यते; देहो हि नमस्कारकारणम् , तद्भावभावित्वाद् , बीजवदड्कुरस्य, इत्येवं देहलक्षणात् समुत्थानाद् नमस्कार उत्पद्यते।तथा-वचनं वाचना गुरुभ्यः श्रवणमधिगम इत्यर्थः, तस्याश्च वाचनायाः सकाशाद् नमस्कारो जायते। तथा-लब्धिस्तदावरणक्षयोपशमलक्षणा, तस्याश्चामुपजायते। इत्येतत्रिविधं कारणं, प्रथमे नैगमसंग्रहव्यवहारलक्षणे त्रिके, नैगमाऽऽदिनयत्रयमतेनावगन्तव्यमित्यर्थः। तथा-ऋजुसूत्रस्य प्रथमवर्जवाचनालब्धिद्वय नमस्कारस्य कारणम् , तच्छून्यस्य जन्तोदेहमात्रसद्भावेऽपि नमस्काराऽऽख्यकार्योत्पत्तिव्यभिचारात्। शेषनयास्तुशब्दाऽऽदयो लब्धिमेवैका नमस्कारकारणत्वेनेच्छन्ति, वाचनाया अपिलब्धिशून्येष्वभव्याऽऽदिषु नमस्काराजनकत्वात् , लब्धियुक्तेषु तु प्रत्येकबुद्धाऽऽदिषु तदभावेऽपि तत्सद्भावतो व्यभिचारित्वात्। इति नियुक्तिगाथाद्वयार्थः / / 2807 / / "उप्पणाऽणुप्पण्णो " (2806) इत्यत्र भाष्यम्सत्तामेत्तग्गाही, जेणाऽऽइम-नेगमो तओ तस्स। उप्पज्जइ नाभूयं, भूयं न य नासए वत्थु / / 2808 // येन यस्मात्कारणात् , आद्यनैगमः सत्तामात्रग्राही, ततस्तस्याऽऽद्यनैगमस्य मतेन सर्व वस्तु नाभूतं नाऽविद्यमानं, किं तु सर्वदैव सर्व सदेव। ततः किम् ? इत्याह-(उप्पाइन) इत्येवमिहापि नञ् संबध्यते, आवृत्तिव्याख्यानात्। इदमुक्तं भवति-यत्सर्वदैव सत्, तन्नोत्पद्यते। यथानमः, तस्याप्युत्पादाभ्युपगम उत्पन्नस्याप्युत्पादप्रसङ्गेनानवस्थाप्राप्तेः / तथा-यद् भूतं विद्यमानं सर्वदैव सद्वस्तु, तन्न नश्यति, सर्वथा सर्वदैव सतो विनाशायोगादिति // 2808 / / तो तस्स नमोकारो, वत्थुत्तणओ नहं व सो निचो। संतं पिन तं सव्वो, मुणइ सरूवं व वरणाओ।। 2806|| यत एवम् , ततस्तस्याऽऽद्यनैगमस्य, स नमस्कारो नित्य एव, वस्तुत्वात् , नभोवत् , नोत्पद्यते, नाऽपि विनश्यतीत्यर्थः / अत एवैतन्मतेनानुत्पन्नोऽसावभिधीयते। आह-ननु यदि नमस्कारः सर्वदैव संस्तदा मिथ्यादृष्ट्यवस्थायां किमित्यसौ न लक्ष्यते ? इत्याह-(संत पीत्यादि) सर्वावस्थासु सन्तमपि नमस्कारमति-शयज्ञानिनं विहाय न सर्वोऽपि ' मुणति -- जानातीति प्रतिज्ञा ! (वरणाओ त्ति) आवरणकर्मसद्भावादिति हेतुः, आत्मनः स्वरूपवदिति दृष्टान्तः / इदमुक्त भवति-मिथ्यादृष्ट्यवस्थायामपि द्रव्यरूपतया नमस्कारोऽस्ति। सर्वथाऽसतः खरविषाणस्येव पश्चादप्युत्पादायोगात्, केवलं ज्ञानाऽऽवरणेनाऽऽवृतत्वाद् छद्मस्थजन्तवस्तद्रूपतया सन्तमपि तं नमस्कारं न लक्षयन्ति, यथाऽऽत्मनः स्वरूपम् / न हि आत्मनः स्वरूपं नास्ति, केवलममूर्तत्वात् सर्वदा सदपि तत्केवलिनं विहाय न कोऽपि लक्षयति। एवं नमस्कारोऽपि। इत्यतः सर्वदैव सत्त्वादसावादिनैगमाभिप्रायेणानुत्पन्न उच्यत इति / / 2806 / / " सेसाणं उप्पण्णो " (2806) इत्येतद्गाथावयवं व्याचिख्यासुराह- . सेसमयं नत्थितओ-ऽणुप्पायविणासओ खपुप्फ व। जमिहऽत्थि तदुप्पाय-व्वयधुवधम्मं जहा कुंभो / / 2810 / / शेषाणां विशेषवादिनयानाम् , एतन्मतम्-तकोऽसौ पराभिमतो नमस्कारो नास्ति, इति प्रतिज्ञा। अनुत्पादविनाशाद्-उत्पादविनाशाभावादिति हेतुः / खपुष्पवदिति दृष्टान्तः / इह यदस्ति तत्सर्वमुत्पादव्ययधुवधर्मकम् , यथा कुम्भः, यस्य पुनरुत्पादाऽऽ-दयो न सन्ति, तत्सदपि न भवति; यथा खरविषाणम् , उत्पाद-विनाशशून्यश्च परैर्नमस्कारोऽभ्युपगम्यते ; ततो नास्त्यसावपि / / 2810 / / यदुक्तम्-आवरणात्सतोऽप्यस्याग्रहणम् , तत्राऽऽहआवरणादग्गणं, नाभावाउ त्ति तत्थ को हेऊ? भत्तीऐं नमोकारो, कहमत्थि य सा नयग्गहणं / / 2811 // नन्यावरणाद्ज्ञानाऽऽवरणोदयात् सन्नपि नमस्कारः सर्वेण न गृह्यते, न पुनरभावादित्यत्र को हेतुः-किं नियामकम् ? न किञ्चिदित्यर्थः / अभावादेवायं सर्वेण सर्वदा न गृह्यते, न पुनरावरणोदयादिति शेषनयाभिप्रायः। किञ्चतीर्थकराऽऽदिषु भक्तिनमस्कारोऽभिधीयते, सा चसर्वदाऽस्ति, नच मिथ्यादृष्ट्यवस्थायां गृह्यत इति परस्परव्याहतमिदम्। तस्मादुत्पन्नोऽसौ गृह्यते, अनुत्पन्नस्तु न गृह्यते, इत्येतदेव सुन्दरम् , किमावरणाऽऽदिकल्पनया ? इत्यभिप्रायः // 2811 //
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy